$1
श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः
$1

श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः

॥ श्रीः ॥ श्रियै नमः । श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीगुरुपरम्पराभ्यो नमः । अस्मद्गुरुपरम्पराभ्यो नमः ॥ तर्कतीर्थपण्डितरत्नाद्यनेकबिरुदावलीविभूषितानां महीशूरमहानगरीय- कस्तूरि-रङ्गाचार्यस्वामिपादानां कृतिषु श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः ॥ ओमित्यात्मानमन्तर्नियमितकरणैर्ध्यायतां ध्यायतीहां ओमित्येव स्वयं यः परिहृतविहतिं सिद्धिमाधातुकामः । वक्त्रे वाहस्य तस्य स्तुतिमतिमितवाक्प्रस्तुवे तन्मनूद्य- द्वर्णाद्यस्रग्धराभिर्विमृदितविविधावद्यधाराभिरद्य ॥ १॥ ऋग्भिः शाशस्यमानो महिमजुषि यजुष्येष जोघुष्यमाणः साम्ना तोष्टूय्यमानो मुनिजनहृदयाब्जेषु राराज्यमानः । नीहारोर्वीधराभा प्रतिभटरुचिभिः किञ्च बाभास्यमानः श्रेयः स्थेयो विधत्तां मम हयवदनाभिख्यया ख्यायमानः ॥ २॥ यच्छत्वच्छाच्छबोधप्रसरमिह स नश्छन्दमात्राप्रक्लृप्ता चिच्चिच्चित्रप्रपञ्चस्थिरिगतिनियतिर्मुर्ध्नि तुङ्गस्तुरङ्गः । भङ्गव्यासङ्गदूरप्रसृमरशरदुद्भूतराकासुधांशु- ज्योत्नासच्छायविद्याविसरवितरणस्थूललक्षो वलक्षः ॥ ३॥ जुष्टो देव्या तयाऽव्यान्निगमसमुदयद्रोहसंरम्भगर्ज- द्दैतेयारण्यवाहद्विषदुदितरवन्यक्चिकीर्षाऽऽकुलस्य । वक्त्रे वाहस्य हेषाहलहलनिनदेऽभूतपूर्वे प्रवृत्ते भ्रान्त्वोरस्तोऽवतीर्य द्रततरममुमाश्लिष्य या विस्मिताऽऽस्ते ॥ ४॥ सारः साम्नामुदारः सरसतरऋचामृद्धिरन्तर्धिदूरा भद्रावष्टम्भयष्टिर्विधिनिधि यजुषां भाग्यमाथर्वणानाम् । अङ्गानां तुङ्गश‍ृङ्गं लगतु मम तुरङ्गोत्तमाङ्गोऽन्तरङ्गे सद्यो हृद्यानि पद्यान्यपि परिकलयन् विश्वविद्यानिषद्या ॥ ५॥ मध्येबिम्बं सुधांशोर्द्युमणिनिभमणिश्रेणिभाराजिराजत् हारैस्तारैरुदारैरहसितसुधासागरोत्सारिपूरैः । बामाङ्कावासलीलाकुतुकललितयाऽप्यङ्कितः पङ्कजाक्ष्या शङ्कातङ्कं च पङ्कं तिरयतु करुणापङ्किलः कश्चिदर्वा ॥ ६॥ रूढा प्रौढासु वाचास्वपि पुरुषमतिव्यापृतिव्याप्त्यपोढासु आधूतान्तासु तासु प्रतिहतगतिता त्वन्नुऽतावाननेऽर्वन् । इत्थं सत्यप्यहं यत्तव गुणगणनारम्भसंरम्भनिघ्नः स्थाने तद् येन बालोऽप्यतिविततभुजो विस्तृतिं वक्ति सिन्धोः ॥ ७॥ पातापातालभूम्यम्बरतलनिलयावासजायाससारात् यातायातानुपूर्व्यादविगतजननीगर्भविभ्रान्तियोगात् । वेद्या वेद्यावमर्शास्स्खलितगतियतीशानराज्यासभाज्यः शान्ताशान्तां समृद्धिं वितरतु स मम व्याजवाजीविराजी ॥ ८॥ यस्मिन् विज्ञानवार्धावधिजगति पुरोज्जृम्भमाणेऽष्टमूर्तेः मूर्तिः सा दक्षिणाख्या त्रिदशपरिषदा बिन्दुरालक्ष्य दक्षा । वाणी सा पद्मसद्मप्रियतमगृहिणी काऽप्यभाणीह वेणी पाराशर्यप्रधानोऽप्यगणि मुनिगणः पल्वलं पातु सोऽर्वा ॥ ९॥ वेदोद्धारोद्यतं तत्प्रदिशतु मिथुनं शर्म शर्वादिमानां सेवाहेवाकभूमोद्यदहमहमिकाकुञ्चनद्वेषिमूर्ध्नाम् । शीर्षेष्वाभान्ति यस्य द्विगुणमणिलताभावभाजः कटाक्षाः कल्योत्फुल्लाम्बुजातप्रमदभरनिराकारनिस्तन्द्रदृष्टेः ॥ १०॥ दाक्ष्यं लक्ष्येत धातुः क्वनु खलु जगतीजालनिर्माणलीला- रम्भे संज्ञाविधावप्यथ च तदुचितानेकमूर्तिप्रक्लृप्तौ । तत्तत्कृत्यप्रपञ्चेष्वपि च दिविषदां दैत्यपाशाहृताना- माम्नायानां दयार्द्रो यदि हयवदनो नोद्धृतिं संविदध्यात् ॥ ११॥ हस्तालम्बाय भूयात् स मम पथि सतां स्रस्तवृत्तस्य नित्यं न्यस्ताशेषागमाब्धेरधिकमपि समं वस्तुनी यस्य न स्तः । शस्तामस्तोकधीसंस्तुतिमपि जनयन् यो नयन्मोहमस्तं न्यस्तं यस्सव्यहस्ते कलयति च मुदा पुस्तकं मस्तकेऽर्वा ॥ १२॥ रत्नं यत्प्रत्नवाचा निरुपमसुषमाकान्तसीमन्तिनीनां सीमन्ते नित्यलाल्यं हृदयसरसिजेऽजस्रधार्यं बुधानाम् । दुग्धोदन्वत्तनूजाकरजलजयुगीलालनोद्यन्मृजातो नित्यं नूत्नं हयास्यं मम कलयतु तन्निस्सपत्नं प्रयत्नम् ॥ १३॥ णत्वं यद्भिन्नवृत्तावघटितमुपलभ्योद्यमाद्द्राग्विरेमुः ते ते नारायणाख्यामितरविबुधसाधारणीं कर्तुकामाः । यस्मिंस्तद्योगरूढ्योर्गुणमणिजलधौ पुष्कलं वर्तनं स्यात् देवो मायाधवोऽसौ धयतु हृदि रुजां सैन्धवो बान्धवो नः ॥ १४॥ कर्णावर्णोजराजन्मुकुलदलसमावर्वतोऽनर्वणो मे प्रोर्णुयास्ता ललाटे कुटिलविधिसमुत्कीर्णसङ्कीर्णवर्णान् । वर्ण्येते यावमुष्य त्रिभुवनवपुषो व्योमपातालरूपौ पर्णैर्वाऽप्यर्णसा वा सततमपि रुचिं पूर्णयद्भिर्महद्भिः ॥ १५॥ मण्डल्या मण्डनानां मणिगणघृणिभिर्धूर्णितद्योमणीनां नीरन्ध्रं मण्डिताङ्गः सितकररुचिरे पुण्डरीके निषण्णः । आम्नायानां शिखण्डैरवगतगरिमाखण्डिताखण्डलारिः दण्डं पाषण्डषण्डे क्षिपतु स तरसा वाजितुण्डप्रकाण्डः ॥ १६॥ एकोऽग्रे लोकमात्रा सहमहितविहृत्युन्मनास्तन्मुदे यो नाभीपद्मे विधातुर्जनिमपि कलयन् यो नयत्यागमांस्तम् । (नाभीपद्मे विधाय द्रुहिणममुमथो यो नयत्यागमौघम् ।) (पा) । लोकाम्नायैकमूलाक्षररुचिरकलामातृका सा यदीया सोसाविष्ठं प्रकृष्टं घटयतु दितिजस्फोटको घोटको नः ॥ १७॥ प्रण्यायेनाध्वराणां मनुमयतनुमाघाय विष्वग्विनिर्यत् ज्वालामालाजटालानलहुतहविषां सारमास्वाद्य चारुम् । गीर्वाणान्वारवाणान्नियमितकरणां स्तूर्णमाप्याय्य कामाः कल्प्यन्ते याजमानाः कलयतु स मुदं कोऽप्यनर्वाऽऽननेऽर्वा ॥ १८॥ अव्यादव्याहतार्थो धियमुपजनयन् अव्ययोव्याजवाजी भव्याभव्याकृताद्याकृतिमतनुत यो नामरूपद्वयस्य । योऽन्तर्यन्तुं च मन्तुं व्युदसितुमदिशज्जन्तुजातस्य यो वा कल्पान्तेऽल्पान्यलोकग्रसनसमुदितापीनतानन्दितुन्दः ॥ १९॥ ओदन्वन्मेखलान्ताद्बलिनिलययुतात् क्ष्मातलादाच लोकात्। नालीकावासवासादवहितमनसाऽपीक्षिते स्थास्नुजाते । यादृङ्नालक्षि कश्चित् सकृदपि नमतां साध्वसध्वंसदक्षः भक्तानुक्रोशलक्ष्मा क्षपयतु मम हृत्क्षोभमक्ष्णा स वाजी ॥ २०॥ गीते दैतेयमोहं कलयितुमनसो यस्य हेषानुषक्ते प्रख्यातोद्गीथभक्तिं श्रितवति जनिते रोदसीरोधके द्राक् । देवाः सम्भ्रान्तभावा दितिजकुलमलं व्याकुलं धूतगर्वा गन्धर्वा मोहशेषं समजनि जगतीशेषमेषोऽवतान्माम् ॥ २१॥ थं किं शब्दस्य मूर्ध्नि क्वचिदुदितमुपश्रुत्य यत्तत्पदादिषु अप्येतद्योजयित्वा कटुरटनपटुस्वैरवाचोऽपि जन्तोः । सद्यः सिद्‍ध्यन्ति वाण्यो नमदमरशिरस्सद्म यत्पादपद्म- ध्यानाद्द्राक्षासदृक्षाःकलितगुरुशिरःकम्पनाःपातु सोऽर्वा ॥ २२॥ वक्तुं सूक्तं सुधाक्तं प्रतिकथकवचोवीचिवेगं च हर्तुं कर्तुं काव्यं च भव्यं हितमपि पुरुषार्थं च तत्त्वं च वेत्तुम् । वाच्छा चेन्मानस अञ्च स्फटिकमणिमयक्ष्माधराभाधरीकृत् रोचिर्वीचीभिरारादखिलमपि जगत्प्लावयन्तं हयं तम् ॥ २३॥ पुष्णन् हर्षं सुराणां जनिमयमयति स्मेति नो वस्तुमीशे प्रागेवासीत्प्रमत्तासुरगृद्रुनिकरे यत्सुराणां प्रहर्षः । श्रुत्याविर्भूतिहेतुः श्रवणसमुदयानन्तरेऽस्मिन्नयुक्तः तस्मादस्मादनन्यान् ध्रुवमवितुमसावाविरासाश्वभासा ॥ २४॥ एतश्श्वेतोऽपि राजद्रजतगिरिवराकारधिक्कारकारी विद्युद्विद्योतभासोद्यदरुणकिरणोन्निद्रपद्म वहन्त्या । कालिन्दीमन्दिरेन्दीवररुचिरुचिरापाङ्गधाराभिरारात् सिञ्चन्त्याङ्गानि देव्या सततकृतपरिष्वङ्गतोऽव्यात् तुरङ्गः ॥ २५॥ मञ्जीरं मञ्जुलं ते हयमुख ! मम सञ्जीवनायास्तु शिञ्जा व्याजेनाम्नायवाचामनितरपरतां व्यञ्जयत्त्वत्पदोर्यत् । लग्नं तद्धारणासु द्विगुणमुनिजनस्तोमहृत्पद्मनित्यो- ल्लासायासादितात्मद्वयमिव सविधे जाग्रदर्कस्य विम्बम् ॥ २६॥ हारिद्रं किन्नु सूत्रं श्रुतिततिसुदतीकण्ठमूषार्थक्लृप्तं स्रोतस्सारस्वतं वाङ्मयजननगीरेर्निस्सृत वेति शक्यम् । वक्त्रे वाहस्य वामप्रसृतितललसद्धैमसत्पुस्तकान्तः दीव्यत्सूत्रं पवित्रं मम कलयतु शं भानुमानोः सगोत्रम् ॥ २७॥ श्वभ्रेष्वभ्रेभियातीन्दितितनुजनुषो भ्रामयित्वा विभिन्दन् शीर्णाङ्गान् कीर्णकेशान् भृशमतिरभसं पातयन् निर्जराणाम् । स्वाराज्यं प्राज्ययन्यो मिहिर इव हिमज्याधरादुज्जिहानः भाभात्यश्वास्यवामेतरकरविधृतश्चक्रराजस्स नोव्यात् ॥ २८॥ शिष्याणां चित्तभूमौ प्रचुरतरतमःकण्टकानि व्यपोह्य आसिच्यात्यर्थं कटाक्षामृतरसविसरैश्शास्त्रबीजानि वप्तुम् । निर्निद्रो ज्ञानमुद्रारुचिरकरतले दक्षिणे योऽक्षमालां बिभ्रद्भात्यश्ववक्तुः सहरतु नितरामंहसां संहतिं मे ॥ २९॥ रम्यं स्याद्विम्बमिन्दोः शरदुदितरुचेरम्बरान्निर्यदेतत् किं वा डिण्डीरखण्डं कलशजलनिधेः किं नु वा पुण्डरीकम् । वाग्ब्रह्मोद्दामलीलागृहमिति विबुधैरूह्यमानो हयास्ये नोपात्तः सव्यहस्ते मम भवतु शुभालम्बनं कम्बुराजः ॥ ३०॥ सेव्या शर्वादिसर्वत्रिदशपरिषदा शश्वदासाश्विनी श्रीः अस्माकं या सपत्नी लसति बत शिरोऽस्याधिरूढेति सेर्ष्यम् । जेतुं तां सन्ततोदित्वरवरमहसा भाति नक्षत्रमाला देवच्छन्दे स्थिता यं सततमपि समाराधयन्तीव सोऽव्यात् ॥ ३१॥ नन्तुः सन्त्रासहारी दधदपि हरितां शश्वदात्मन्यनूनां यस्तां मूर्ध्न्येव नित्यं प्रकटयति हरेः पूरुषस्यापि सत्यम् । श्रौतीं मुख्येतरत्वावगतिमपि विशिष्टाद्वितीयत्वदृष्टिं स्पष्टीकर्तुं जगत्यां स्फुटयतु स झटित्यस्मदिष्टं विशिष्टम् ॥ ३२॥ मस्तेऽर्वन् विस्तरैः किं विहर मम मनोमन्दुरायाममन्दं कल्पन्तेऽनुप्लवास्ते मम सततमिमे हीन्द्रियाश्वा दशाऽपि । किं चात्रानल्पकल्पावसरविसरदुच्चावचाकारमूर्ति- स्फूर्तिस्फीतोरुकर्मप्रगुणतृणगणश्चर्वणाय प्रणीतः ॥ ३३॥ वस्तूरीकर्तुमर्चाविधिषु समुचितं नान्यदस्येति जानन् कस्तूरीरङ्गनाथः स्तवमिममुपद(ध)मादिमाश्वस्य धत्ते । यस्तूनो योतिरिक्तः सकलमपि च तं हृद्ययन्नर्थमस्मिन् स्वस्तूलीकारधीरां वितरतु पठतां वागधीशः स बुद्धिम् ॥ ३४॥ इति श्रीकस्तूरीरङ्गार्यकृतिषु श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः समाप्ता । Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
$1
% Text title            : lakShmIhayavadanamantramAlikAstutiH
% File name             : lakShmIhayavadanamantramAlikAstutiH.itx
% itxtitle              : lakShmIhayavadanamantramAlikAstutiH (kastUrI raNgAchAryasvAmivirachitam)
% engtitle              : lakShmIhayavadanamantramAlikAstutiH
% Category              : vishhnu, devii, lakShmI, devI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : lakShmI
% Author                : kastUrI raNgAchAryasvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : November 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org