लक्ष्मीकृतं श्रीकृष्णस्तोत्रम्
लक्ष्मीस्तदा पृथग्भूत्वा साध्वी काषायधारिणी ।
अस्तौत्स्वामिस्वरूपं श्रीपरब्रह्मप्रहंसकम् ॥ ६०॥
ॐ नमः श्रीपरब्रह्म ते नमः परमात्मने ।
ब्रह्ममुक्ताधिपतये परधामनिवासिने ॥ ६१॥
अपृथङ्मुक्तसंस्थाय रहस्यमुक्तसेविने ।
नमस्ते श्रीरङ्गमहोलादिवासाय योगिने ॥ ६२॥
निर्लेपाय महामुक्ताऽनादिमुक्तादिसेविने ।
अक्षरैर्मुक्तवृन्दैश्च सेविताय च ते नमः ॥ ६३॥
अवतारैरीश्वराद्यैः सेविताय च ते नमः ।
ऋषिपितृसुराद्यैश्च सेविताय च ते नमः ॥ ६४॥
मानवैश्चेतरैश्चापि यक्षगन्धर्वकिन्नरैः ।
नागैः सर्पै राक्षसैश्च सेविताय च ते नमः ॥ ६५॥
उद्भिज्जरास्वेदजैश्च प्रसेविताय ते नमः ।
नरैश्च प्रमदाभिश्च सर्वस्थावरजङ्गमैः ॥ ६६॥
पुष्ट्यर्थं संसेविताय सुखदाय च ते नमः ।
असङ्ख्ययोगिनां कामपूरकाय च ते नमः ॥ ६७॥
असङ्ख्यानां स्वभक्तानां तारकाय च ते नमः ।
माणिक्याया बदर्याश्च नाथाय ते नमो नमः ॥ ६८॥
बदरो नाम राजर्षिर्व्यधाद्बदरिकाश्रमम् ।
यत्कृपांऽशात्स्वामिनं तं वन्दे बदरिकेश्वरम् ॥ ६९॥
हेमानलासुरो येन पर्वताधो निषूदितः ।
तस्य बदरनृपतेः प्रसन्नाय च ते नमः ॥ ७०॥
बदरीस्वीयमूलाधो हेमानलममर्दयत् ।
यत्प्रतापेन तं कृष्णं नताऽस्मि साधुरूपिणम् ॥ ७१॥
बदरो रसारूपोऽपि यत्कृपातो व्यजायत ।
फले तं परमात्मानं वन्दे श्रीस्वामिनं त्विह ॥ ७२॥
नरोऽपि बीजतां प्राप्तो बदराख्ये फले सदा ।
यत्कृपातस्तं फलेशं वन्दे श्रीस्वामिनं प्रभुम् ॥ ७३॥
श्रीशीलस्य तु विप्रस्य प्रेतभूतस्य मोक्षणम् ।
बदरस्य प्रदानेन कृतं येन च ते नमः ॥ ७४॥
साधुसाध्वीस्वरूपाभ्यां दाराभाग्याय दर्शनम् ।
दत्वाऽप्यमोक्षयद्भूपं तं यस्तस्मै च ते नमः ॥ ७५॥
ब्रह्मदेवद्विजपत्न्यै दत्वा द्वे बदरे फले ।
बद्रिका पुत्रिकापुत्रौ ददौ बद्रीश ते नमः ॥ ७६॥
यत्प्रतापात् कृष्णपत्नी जाता वै बालयोगिनी ।
सुरेश्वरीसुता तं श्रीकृष्णं वन्दे नरायणम् ॥ ७७॥
यः कृष्णो दिव्यदेहां च चारणीं नाग्नकेसरीम् ।
कृत्वा मुक्तानिकां निन्येऽक्षरं तस्मै नमो नमः ॥ ७८॥
नर्मकर्त्र्या विनोदिन्याः साधुयोगेन मोक्षणम् ।
कृतं येन कृतो देवलोकोऽपि च सखीविधः ॥ ७९॥
मोक्षं तस्मै ददौ यश्च तस्मै ते स्वामिने नमः ।
बाहुलकाय तत्पत्न्यै लीलावत्यै च नर्तनात् ॥ ८०॥
ददौ ब्रह्मरसं मोक्षं तुष्टो यस्ते नमः सदा ।
मालियानं मल्लिकां च मालाकारौ हरिः पुरा ॥ ८१॥
प्रसन्नः पाययामास ब्रह्मरसं ततस्तयोः ।
मोक्षणं कृतवान् कृष्णो यस्तस्मै स्वामिने नमः ॥ ८२॥
निकामदेवसंज्ञाय धीशूराय हरिः स्वयम् ।
मोक्षं ददौ च तत्पत्न्यै तस्मै श्रीस्वामिने नमः ॥ ८३॥
निगडभ्रामकैवर्तं मत्स्याशापात् सुदुःखिनम् ।
तारितं भक्तया पत्न्या यस्य कृपादिशेवधेः ॥ ८४॥
अनयः स्वं परं धाम तया साकं च योषिता ।
तथा तत्पुत्रिका चाद्या साध्वी पुण्डरिका सती ॥ ८५॥
निर्वाणिका सती चान्याऽऽनन्दघना तृतीयका ।
तथा पञ्चात्मजा ज्ञानदर्भ्यादयोऽपि यं प्रभुम् ॥ ८६॥
भजित्वा मोक्षणं प्राप्तास्तं भजे स्वामिनं हरिम् ।
कृतघ्न्यास्तु कुथल्याख्यस्त्रिया यो राजयक्ष्मतः ॥ ८७॥
रक्षां चक्रे ददौ मोक्षं तं वन्दे स्वामिनं प्रभुम् ।
प्रतारण्या विषलाण्याः सतां समागमाद्धरिः ॥ ८८॥
उद्धारं कृतवान् यस्तं वन्दे श्रीस्वामिनं प्रभुम् ।
गङ्गांऽजनीं कटकर्त्रीं सत्सङ्गेन त्वमोक्षयत् ॥ ८९॥
रमाञ्जनीं रमां चक्रे यस्तस्मै हरये नमः ।
सुनारिणीं कुलालीं च रणस्तम्बं च तत्पतिम् ॥ ९०॥
साधुयोगेन तत्पुत्रं संसाराद्यो व्यमोचयत् ।
वन्दे तं स्वामिनं कृष्णं वल्लभं प्रभुमीश्वरम् ॥ ९१॥
स्वर्णकारस्त्रिया हेमसुधायास्तु प्रभक्तितः ।
प्रसन्नो यो ददौ तस्यै चाऽन्नपूर्णात्वमुत्तमम् ॥ ९२॥
मुक्तिं ददौ तथाऽन्ते च वन्दे श्रीस्वामिनं हरिम् ।
राधिकायनयोगेन विद्रुमिणीं तु विष्टिणीम् ॥ ९३॥
धाम्नि राधासमां चक्रे यस्तस्मै स्वामिने नमः ।
श्वपचीं मालवानीं यो धर्मयोगेन मुक्तिगाम् ॥ ९४॥
सकुटुम्बामकरोद्यस्तस्मै श्रीस्वामिने नमः ।
रथ्यामार्जनिकां कारेलिकां हिताञ्जलेर्मुनेः ॥ ९५॥
योगात् कथाश्रवणेन मुक्तिमनयद्यः प्रभुः ।
हेताञ्जलेश्च पुत्रीणां निर्मोहित्वं च यद्बलात् ॥ ९६॥
मोक्षणं कृतवान् यश्च तस्मै तेऽस्तु नमो मुहुः ।
निरञ्जनादयश्चापि भ्रातरः पञ्च तादृशाः ॥ ९७॥
मुक्तिं येन प्रणीतास्तं वन्दे श्रीस्वामिनं प्रभुम् ।
यन्त्रकर्त्रीं गोमतीं च नयराजं च तत्पतिम् ॥ ९८॥
अरक्षयद्राजयक्ष्मतो यस्तं स्तौमि मावरम् ।
कनकाङ्गदायाः कृष्णो धूर्ताया मोक्षणं व्यधात् ॥ ९९॥
भाणवाण्या द्यूतकर्त्र्याः श्रेयश्चकार यो हरिः ।
रायहरिनृपस्याऽपि तं वन्दे स्वामिनं प्रभुम् ॥ १००॥
माधवरायनृपतेः श्रेयो व्यधात्तु यः प्रभुः ।
वैद्योतिकां तु कंसारीं दिव्याममोक्षयच्च यः ॥ १०१॥
नरराजं कुम्भकारं तद्भार्यां रत्निकां च यः ।
अम्बालिकां स्वर्णकर्त्रीं धातुध्मां च विनोदिनीम् ॥ १०२॥
अमोक्षयद्धरिर्यश्च नटं रञ्जनकोविदम् ।
श्रीरामसुन्दरं चापि कदर्यं योऽप्यमोक्षयत् ॥ १०३॥
वन्दे तं परमात्मानं स्वामिनं दीक्षितं प्रभुम् ।
क्षीरोदवीरं भूपं च राज्ञीं रुहारिणीं च यः ॥ १०४॥
गणिकां सोमिकां पञ्चपुत्रीयुताममोक्षयत् ।
अरुणानीपतिं पाटलान्यादीशं नमामि तम् ॥ १०९॥
मद्यपाया लियार्याश्च मोक्षणं यो व्यधात् प्रभुः ।
मिष्टासवध्वजिनश्च तं वन्दे स्वामिनं हरिम् ॥ १०६॥
गण्डवाताभिधायाश्च चक्रिण्या मोक्षणं व्यधात् ।
यास्कवादस्य च मोक्षं तं वन्दे स्वामिनं हरिम् ॥ १०७॥
निन्दाकर्त्र्या ट्विर्वदन्त्या मोक्षणं यो व्यधात्प्रभुः ।
द्विर्गर्जनाख्यपत्युश्च तं वन्दे स्वामिनं हरिम् ॥ १०८॥
सुरप्रसादं विप्रं च गुरुघ्नं यो ह्यमोचयत् ।
मातरं पितरं तस्य चाऽमोक्षयत्तु यः प्रभुः ॥ १०९॥
नागविक्रमभूपस्य देवद्रोहरतस्य च ।
नवद्रोहियुतस्याऽपि मोक्षकर्त्रे तु ते नमः ॥ ११०॥
शालमित्रो जीविकाघ्नो जयालक्ष्मीश्च तत्प्रिया ।
उद्धृतौ येन कृष्णेन तस्मै श्रीस्वामिने नमः ॥ १११॥
कन्याघ्नं यद्धराजं यो विषदं साधुयोगतः ।
अमोचयद्यमदूतात् तं भजे स्वामिनं हरिम् ॥ ११२॥
साधुजीवं कुमारं च कुमारीं साधुजीवनीम् ।
निर्विषादं च यः कृष्णोऽमोक्षयत् तं मुहुर्नमः ॥ ११३॥
नारायण्यै प्रभावत्यै घटमालाख्ययोषिते ।
मोक्षणं प्रददौ यश्च तस्मै श्रीस्वामिने नमः ॥ ११४॥
अनङ्गवल्ल्याः कुट्टन्यास्तत्सखीनां च मोक्षणम् ।
कृतवान् यः प्रभुः स्वामी तस्मै कृष्णाय ते नमः ॥ ११५॥
षण्ढवज्राभिधं षण्ढं यः संसाराद्व्यमोचयत् ।
नपुंसकानां पुंस्त्रीत्वं चक्रे यस्ते नमो मुहुः ॥ ११६॥
यवसन्धं तु मांसादं पत्नीं मजावलीं च यः ।
तत्कुटुम्बं हरिर्व्यमोचयत्तस्मै च ते नमः ॥ ११७॥
भाण्डं यो भण्डशीलं तु सकुटुम्बं व्यमोचयत् ।
त्रिगालवाँस्तथा भवायनादीन् यो व्यमोचयत् ॥ ११८॥
हरिवीर्यादिमल्लाँश्चामोक्षयद्यः प्रभुर्हरिः ।
वार्धूषिकान् हरिलालादींश्च व्यमोक्षयत्तु यः ॥ ११९॥
कीरवणादिमृगयूममोक्षयच्च यः प्रभुः ।
अमोक्षयच्च नागादं वादिटं यश्च ते नमः ॥ १२०॥
सारहासीयमार्तण्डमण्डलादिप्रमोक्षकम् ।
विलासदेवं लुञ्चादं व्यमोक्षयच्च तं भजे ॥ १२१॥
दैवान् प्रकाशकादींश्च तत्पुत्रान् साधुदीक्षितान् ।
मौक्तिकायनिकाद्याश्च तत्पुत्रीः साध्विकास्तथा ॥ १२२॥
व्यमोक्षयच्च यः स्वामी वन्दे श्रीस्वामिनं च तम् ।
दुरितघोषनामानं सर्वादं यो व्यमोक्षयत् ॥ १२३॥
तत्पत्नीं च महासत्यायनीं व्यमोक्षयच्च यः ।
तत्पुत्रान् तत्पुत्रिकाश्चाऽमोक्षयद्यश्च तं भजे ॥ १२४॥
धर्मभटं महामात्यं शीलयानीं च तत्प्रियाम् ।
अमोक्षयत् प्रभुर्यः श्रीस्वामिनं तं सदा भजे ॥ १२५॥
धर्माध्यक्षं प्रभुर्मुकुन्दसावित्रममोक्षयत् ।
न्यायाक्षिणीं च तद्भार्यां यस्तं वन्दे जनार्दनम् ॥ १२६॥
विशालरेखकं यश्चौद्धारयल्लेखकं हरिः ।
शुचिकान्तां च तत्पत्नीं तं वन्दे स्वामिनं प्रभुम् ॥ १२७॥
कृष्णकान्तेश्वरोनाथं नमामि वल्लभं प्रभुम् ।
कायस्थान् करणाद्यान् योऽमोक्षयत्परमेश्वरः ॥ १२८॥
शाहविलापनादींश्चाऽमोक्षयत्तं नमामि च ।
गृध्र उद्धारितो येन पूर्वकौलिकदेहवान् ॥ १२९॥
मार्जारश्चोद्धृतो येन पूर्वगोबारगोपकः ।
जम्बूकश्चोद्धृतो येन पुरा ठठूठोलको वणिक् ॥ १३०॥
स्वर्णाञ्जनादयो भृत्या उद्धृता येन शार्ङ्गिणा ।
श्येनः समुद्धृतश्चापि पुरा यो भरवाटकः ॥ १३१॥
चटकाश्चोद्धृताः पूर्वेऽजा यास्तं नौमि माधवम् ।
कपोता उद्धृता येन सार्थवारास्तु ये पुरा ॥ १३२॥
काकास्तथोद्धृता येन पुरा ये कङ्कजातिजाः ।
गृहगोधोद्धृता येन नाणकी प्राक् खवासिनी ॥ १३३॥
मूषका उद्धृता येन प्राक् शूद्राः सङ्घवाटकाः ।
नकुलश्चोद्धृतो येन प्राक् वारुटस्तु सागरः ॥ १३४॥
कीरताराभिधो भाट उद्धृतो येन तं भजे ।
ज्योतिर्वेत्ता देवगतीश्वरो येन समुद्धृतः ॥ १३५॥
पुण्यवती च तद्भार्योद्धृता येन नमामि तम् ।
बन्दिजनो जयमानो नृपश्च वज्रविक्रमः ॥ १३६॥
प्रजाश्चाप्युद्धृता येन वन्दे श्रीस्वामिनं हि तम् ।
सप्ताऽब्धिसिंहनृपतिः सूतस्तस्य सुकेसरी ॥ १३७॥
राज्ञी रक्षावती येन मोक्षितास्तं नमाम्यहम् ।
मागधो हर्षनयनो योगिदासश्च सेवकः ॥ १३८॥
येन सौरभसावित्रस्ताम्बूलकृत् समुद्धृतः ।
रङ्गिलो रङ्गकारश्च डमरूकश्च वाद्यकृत् ॥ १३९॥
चिह्नरायो भावसारश्चोद्धृतो येन तं भजे ।
रमेश्वरो ग्रामयाजी तथोद्धृतोऽपि येन ह ॥ १४०॥
स्वर्णास्तरणो विद्याध्रश्चित्रबर्हादयस्तथा ।
उद्धृताः किन्नरा येन किम्पुमांसश्च चारणाः ॥ १४१॥
असङ्ख्याश्च नृपा येनोद्धृतास्तं त्वां नमामि च ।
नन्दिभिल्लं हतवान् यो ररक्ष नागविक्रमम् ॥ १४२॥
हतं सैन्यं पुनः सञ्जीवयामास नमामि तम् ।
पुरञ्जयनृपं ह्यमोक्षयद्यस्तं नमाम्यहम् ॥ १४३॥
मोक्षिता येन बहवः सप्तस्वर्गनिवासिनः ।
सप्तपातालवासाश्च तं नमामि महाप्रभुम् ॥ १४४॥
ईश्वरेभ्यश्च धार्मिभ्यो दर्शनं यो ददौ प्रभुः ।
सर्वस्त्रीदासवर्गाढ्यस्तं भजे पुरुषोत्तमम् ॥ १४५॥
सर्वस्त्रीभ्यो निजाभ्यश्च युगलापत्यकानि यः ।
मानसानि ददौ तस्मै नमः श्रीपरमात्मने ॥ १४६॥
मायापालो नृपो महानास्तिको यमलोकतः ।
मोचितो येन कृष्णेन तं भजे साधुसत्कृतिम् ॥ १४७॥
ज्येष्ठपुत्राय च दीलावरीराज्यं ददौ ततः ।
स्वयं पत्नीं दर्शयितुं ययौ धामाऽक्षरं प्रति ॥ १४८॥
धाम नीत्वा निजान् सर्वान् सर्वाश्च प्रमदास्तथा ।
परे धाम्नि स्वीयमूर्तौ वासं दत्वा ह्यरक्षयत् ॥ १४९॥
कुङ्कुमवापिकाक्षेत्रमागत्य त्यागमाप्य यः ।
साधुदीक्षां परिगृह्य वर्तते साक्षिगोचरः ॥ १५०॥
नमामि स्वामिने तस्मै श्रीकृष्णप्रभवे नमः ।
अनादिश्रीकृष्णनारायणायनाय योगिने ॥ १५१॥
यः सदा श्रीहरिश्चास्ते सप्तायतनमूर्तिमान् ।
लीना लक्ष्मीर्यदङ्गेऽहं वर्ते सामपरायणा ॥ १५२॥
प्रज्ञा लीना पाशवती लीना च स्वामिनि प्रभौ ।
यल्लीलाः श्रेयसे सर्वा जीवानां कर्मदेहिनाम् ॥ १५३॥
तस्मै ते पतये चाप्यपतये प्रणमाम्यहम् ।
सर्वदानीश्वरवर्योत्तमाय परमात्मने ॥ १५४॥
नमो विशिष्टरूपाय सर्वतीर्थातितीर्थिने ।
तीर्थार्थं भगवन् स्वामिन् लोककल्याणहेतवे ॥ १५५॥
अभिलाषा जायते मे महात्मँस्तां प्रपूरय ।
असङ्ख्यजन्मभिः कृष्णोद्धृतास्त्वया हि देहिनः ॥ १५६॥
धर्मवृद्धिः कृता सर्वा पुनश्चापि विभावय ।
लक्ष्मीभक्ता बहवोऽत्र लोके भवन्ति तान् प्रभो ॥ १५७॥
साधुरूपेण निर्बन्धान् कृत्वा मोक्षय मच्छ्रितान् ।
इत्यर्थयामि भगवन् विरमामि त्वयि प्रभो ॥ १५८॥
इत्युक्त्वा बद्रिके लक्ष्मीः स्वामिन्यन्तरधीयत ।
लक्ष्मीस्तवं प्रभाषेत भावगर्भोऽपि यो जनः ॥ १५९॥
लक्ष्मीवच्छ्रीहरौ लीनस्थानमेष्यति शाश्वतम् ।
नारी स्तवमधीयाना लक्ष्मीः स्यान्नात्र संशयः ॥ १६०॥
प्रिया लक्ष्मीः स्तवाज्जाता जाता लक्ष्मीश्च माधवी ।
भुक्तिं मुक्तिं लभेत् स्तोत्राद्यथेष्टां पारमेश्वरीम् ॥ १६१॥
यत्कृष्णस्य समस्तं वै तत्तस्याः स्यात्समस्तकम् ।
श्रीकृष्णार्पणदक्षायाः कार्ष्ण्याः श्रीबद्रिके स्वकम् ॥ १६२॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
१२०-अध्यायान्तर्गतं लक्ष्मीकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय १२०/६०-१६२॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 120/60-162..
Proofread by PSA Easwaran