श्रीलक्ष्मीनारायणभुजङ्गप्रयातस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ नारयाणाय विद्महे । फणितल्पाय धीमहि ।
तन्नः श्रीपः प्रचोदयात् ॥
ध्यानं -
लक्ष्मीनारायणं विष्णुं क्षीरसागरशायिनम् ।
भुजङ्गराजराजं तं श्रीहरिं प्रणमाम्यहम् ॥
सुदुग्धार्णवोरङ्गशय्यातिरम्यं सहस्राननाशुभ्रभोगीन्द्रतल्पम् ।
सुहासातिनीलप्रकाशाननाभं सलक्ष्मीकनारायणं तं नमामि ॥ १॥
सुपीताम्बराभाससौवर्णकान्तिं सुपीताभसौवर्णलक्ष्मीधृताङ्घ्रिम् ।
सुनेत्रातिलावण्यकारुण्यशान्तं सलक्ष्मीकनारायणं तं नमामि ॥ २॥
सुशङ्खं च चक्रं च धारद्विपाणिं सदानुग्रहालम्बपाणिद्वयं च ।
कुसंसारतापापहानन्दधेयं सलक्ष्मीकनारायणं तं नमामि ॥ ३॥
सदास्मेरवक्त्रं स्फुटाम्भोजवक्त्रं स्मितानन्द नेत्रं ललाटातिशोभम् ।
सुनासप्रवातप्रपञ्चस्थवायुं सलक्ष्मीकनारायणं तं नमामि ॥ ४॥
सुमाधुर्यनादोद्भवाचारुकण्ठं सुपिङ्गाशमुक्तावलीभूषकण्ठम् ।
उरःस्मेरसौवर्णलक्ष्मीसुकान्तिं सलक्ष्मीकनारायणं तं नमामि ॥ ५॥
सुकर्णालसत्काञ्चनाभूषहीरं शिरोल्लासरत्नावलिद्योतफालम् ।
सुभासाननादीप्रतेजस्स्वरूपं सलक्ष्मीकनारायणं तं नमामि ॥ ६॥
सुगङ्गाप्रवाहोद्भवापुण्यपादं नतोद्धारणापूज्यपादद्वयं च ।
सुलक्ष्मीवरश्रीकराभूषपादं सलक्ष्मीकनारायणं तं नमामि ॥ ७॥
सुनेत्रासुभूषासुमालासुफाला सुवर्णासुपर्णासुभाषासुलासा ।
सुलक्ष्मीसपत्नीसपत्नीकविष्णुं सलक्ष्मीकनारायणं तं नमामि ॥ ८॥
शिवानन्दलास्यप्रसन्नातिसौम्यं शिवाजप्तनामस्मरानन्दपुण्यम् ।
स्तुतिस्तोत्रसुग्रीवगायन्तभव्यं सलक्ष्मीकनारायणं तं नमामि ॥ ९॥
भुजङ्गप्रयातप्रगीतप्रशान्तं भुजङ्गप्रयातप्रगेयप्रसादम् ।
भुजङ्गे शयानं सुलक्ष्मीसमेतं भजेहं हरिं तं परार्थं सुभद्रम् ॥ १०॥
सुभद्रं सलक्ष्मीकनारायणाय सुभद्रं गुरुत्यागराजार्यगाय ।
सुभद्रं सुपुष्पावलिस्फूर्तिगाय सुभद्रं सुमाङ्गल्यदात्रे सुभद्रम् ॥ ११॥
नारायणाय देवाय क्षीरसागरशायिने ।
आदिशेषविकासाय सलक्ष्मीकाय मङ्गलम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीलक्ष्मीनारायणभुजङ्गप्रयातस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan