श्रीलक्ष्मीनृसिंह द्वादशनाम स्तोत्रम्
श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।
अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमन्त्रस्य ।
पुरन्दर ऋषिः । अनुष्टुभ् छन्दः । श्रीलक्ष्मी परमात्मादेवता ।
ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् ।
ममसमस्तपापक्षयार्थं जपे विनियोगः ॥
अथ न्यासः ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यामाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठाकाम्भ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥
हृदयाभ्यां नमः ।
ह्रां हृदयाभ्यां नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वषट् ।
ह्रः अस्त्राय फट् ॥
अथ ध्यानम् ।
सत्यज्ञान सुखस्वरूपममलं क्षीराब्धिमध्यस्थलिम्
योगारूढमति-प्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयबराबिभ्राणमर्कछविम्
छत्रीभूतफणीन्द्र बिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥
मानसोपचारैः सम्पूज्यम् ।
प्रथमस्तु महाज्वालोद्वितीयमुग्रकेसरी ।
वज्रनखस्तृतीयस्तु चतुर्थश्च विदारणः ॥
सिंहस्य पञ्चमं चैव षष्ठं च अरिमर्दनम् ।
सप्तमं रिपुहन्ताच अष्टमं देववल्लभः ॥
प्रह्लादवरदो नवमं दशमं नृहरिस्तथा ।
एकादशं महारौद्रः द्वादशं करुणानिधिः ॥
एतानि द्वादशनामानि नृसिंहस्य महात्मनः ।
मन्त्रराजेति विख्यातः सर्वपापहरं परम् ॥
क्षयापस्मारकुष्ठ्यादि ताप ज्वरनिवारणम् ।
राजद्वारे पथे घोरे सङ्ग्रामे शत्रुसङ्कटे ॥
गिरिकाननसङ्घाते व्याघ्रचोरभयं हरेत् ।
इति श्रीब्रह्मपुराणे उत्तरखण्डे श्री लक्ष्मीनृसिंह
द्वादशनामस्तोत्रं सम्पूर्णमस्तु ॥
This is similar to the nRisiMha dvAdashanAmastotraM
Proofread by Manoj Kumar Barman