श्रीलक्ष्मीनृसिंह एकाक्षरी मन्त्रः

श्रीलक्ष्मीनृसिंह एकाक्षरी मन्त्रः

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः । अद्यपूर्वोच्चरित एवं गुणविशेषणविशिष्टायां शुभतिथौ मम चतुर्विधपुरुषार्थसिद्ध्यर्थं श्री लक्ष्मीनृसिंहचरणप्रसादसिद्ध्यर्थं मन्त्राराधनं करिष्ये । ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् । द्वन्द्वातीतं गगनसदृशं तत्वमस्यादि लक्ष्यम् ॥ एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् । भावातीतं त्रिगुणरहितं सद्गुरुं तन्नमामि । इति ध्यात्वा । आसन्नाथः षड्चक्रं यन्त्रं निधाय । तदुपरि कम्बलासनं विस्तीर्य । गन्धाक्षतैः सम्पूज्य । तर्जन्यां भूमिं स्पृष्ट्वा । पृथ्वीति मन्त्रस्य मेरुपृष्ठऋषिः कूर्मो देवता सुतलं छन्दः आसने विनियोगः । ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ विश्वशक्तये नमः । मायाशक्त्यै नमः । चित्शक्त्यै नमः । अनन्तासनाय नमः । विमलासनाय नमः । पद्मासनाय नमः । योगासनाय नमः । पृथ्व्यासनाय नमः । कूर्मासनाय नमः । आधारशक्तये नमः । दुष्टविद्रावणनृसिंहाय नमः । मध्ये परमसुखासनाय नमः । इत्यासने उपविश्य- अपसर्पतु ते भूता ये भूता भूमिसंस्थिता । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन ब्रह्मकर्म समारभे ॥ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ (वामपादेन भूमि त्रिस्ताडयेत् ।) समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ सर्वभूतनिवारणाय शार्ङ्गाय सवर्णाय सुदर्शनायास्त्रराजाय हुं फट् । इति दिग्बन्धः । ॐ ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ नैरृतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ वारूणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ कौबेरी दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ ईशानी दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ अधस्तां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । (शिरसि चक्रमुद्रां त्रिपरिभ्रम्य ।) (गन्धाक्षतैः सम्पूज्य सङ्घटविमुद्रां बध्वा ।) (अथ गुरुपादुका लिख्यते ।) ॐ ऐं ह्रीं श्रीं त्ज्ञौः श्रीशम्भू गुरुहंसोः स्वरूपनिरूपमहेतवे शुभानन्दनाथकलाशक्ति स्वगुरुपादुकां पूजयामि । ॐ ऐं ह्रीं श्रीं त्ज्ञौः श्रीशम्भू गुरु रौम् । स्वच्छप्रकाशविमर्शहतवे आनन्दानन्दनाथ भरूण्डाशक्तिपरमगुरु श्रीपादुकां पूजयामि । ॐ ऐं ह्रीं श्रीं हंसौः श्रीशम्भूगुरु हंसौः स्वात्मारामपञ्जरविलीनतेजसे । गोविन्दानन्दनाथ चिदम्बाशक्तिपरमेष्टिगुरु श्रीपादुकां पूजयामि । ॐ ऐं ह्रीं श्रीं हंसौः श्रीशम्भूगुरु हंसौः स्वरूपनिरूपणहेतवे स्वच्छप्रकाशविमृश्यहेतवे । स्वात्मारामपञ्जरविलीनतेजसे लक्ष्मीनिवासानन्दनाथ सुन्दराम्बाशक्ति परात्परगुरु श्रीपादुकां पूजयामि । अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् । मध्यमायां हृषीकेशं अनामिकायां त्रिविक्रमम् ॥ कनिष्ठिकायां न्यसेद्विष्णुं करमध्ये तु माधवम् । एवं च करविन्यासं सर्वपापप्रणाशनम् । भूः पादाभ्यां नमः । भुवः जानुभ्यां नमः । स्वः कटिभ्यां नमः । महः नाभ्यै नमः । जनः हृदयाय नमः । तपः कण्ठाय नमः । सत्यं ललाटाय नमः । परब्रह्म शिरसे स्वाहा । ऊर्ध्वकेशि विरूपाक्ष मांसशोणितभोजने । तिष्ठ देवि शिखाबन्धे चामुण्डे अपराजिते ॥ स्वशिरसि गुं गुरुभ्यो नमः । पं परमगुरुभ्यो नमः । पं परमेष्टिगुरुभ्यो नमः । पं परात्परगुरुभ्यो नमः । दक्षिणबाहुमूले गणानां त्वा इति । गं गणपतये । वामबाहुमूले दुं दुर्गायै नमः । दक्षिणपादमूले क्षं क्षेत्रपालाय नमः । अं आत्मने नमः । पं परमात्मने नमः । सं सत्त्वात्मने नमः । रं रजात्मने नमः । तं तमात्मने नमः । ह्रीं ज्ञानात्मने नमः । मोक्षार्थं जपे विनियोगः । इति भूमिशुद्धिः । गुरुपादुकामन्त्रजपः । अहोरात्रिभ्यां निश्वासो स्वा स्वरूपेण षट्शताधिकमेकविंशती । सहस्रं जपानां विवेद्ययित्वा । अजपामन्त्रः । ॐ ह्रीं हंसः सो हम् । अजपागायत्री । हंस हंसाय विद्महे सोऽहंसाय धीमहि तन्नो हंसः प्रचोदयात् । अतो एकाक्षर गणपतिमन्त्रः । ॐ श्रीं गं ॐ । अस्य श्रीनृसिंह एकाक्षरी मन्त्रस्य अत्रिऋषिः गायत्री छन्दः । श्रीनृसिंहो देवता । क्ष्रौं बीजम् । ह्रीं शक्तिः । फट् कीलकम् । मम चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः । अथ न्यासः । अत्रिऋषये नमः शिरसि । गायत्री छन्दः मुखे । श्रीलक्ष्मीनृसिंहदेवता हृदये । रौं बीजाय नमः गुह्ययोः । क्ष्रौं शन्यय नमः पादयोः । रं कीलकाय नमः सर्वाङ्गे ॥ अथ करन्यासः । क्ष्रां अङ्गुष्ठाभ्यां नमः । क्ष्रीं तर्जनीभ्यां नमः । क्ष्रूं मध्यमाभ्यां नमः । क्ष्रैं अनामिकाभ्यां नमः । क्ष्रौं कनिष्ठिकाभ्यां नमः । क्ष्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । क्ष्रां हृदयाय नमः । क्ष्रीं शिरसे स्वाहा । क्ष्रूं शिखाय वषट् । क्ष्रैं नेत्रत्रयाय वौषट् । क्ष्रौं कवचाय हुम् । क्ष्रः अस्त्राय फट् ॥ ॐ भूर्भुवस्वरोमिति दिग्बन्धः । अथ ध्यानम् । सत्यज्ञान सुखस्वरूपममलं क्षीराब्धिमध्यस्थलम् । योगारूढमतिप्रसन्नवदनं भूषा सहस्रोज्वलम् ॥ त्र्यक्षं चक्रपिनाकसाभयवरं बिभ्राणमर्कच्छवि । छत्रीभूत फणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंह भजे ॥ (इति ध्यात्वा मानसोपचारे सम्पूज्य जपं कुर्यात् ।) मां माले महामाये सर्वशक्तिस्वरूपिणी । चतुर्वर्गस्त्वयि देवि तस्मान्मे सिद्धिदा भव ॥ (पुनः जपान्ते मालां शिरसि निधाय ।) गुह्यातिगुह्यगोऽसि त्वं गृहाणं त्वत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरे ॥ (इति जपं समर्प्य गुरुं ध्यात्वा पूर्वन्यासादिकं कुर्यात् ।) मूलमन्त्र । ॐ श्रीं क्ष्रौं ॐ । (वत्सगुल्म-वाशीम-हे सुमारे १४०० वर्षापूर्वी ``वाकाटक'' नावाच्या राजघराण्याच्या राजधानीचे नगर व विद्येचे व संस्कृतीचे केन्द्र होते. ``वत्सगुल्म माहात्म्य'' पद्मपुराणान्तर्गत आहे. या महात्म्यान्त वर्णिलेल्या १०८ तीर्थस्थानाम्मध्ये ``श्रीकरुणेश्वर देवता'' व ``पद्मतीर्थ'' ही दोन प्रमुख होत. पद्मपुराणाचा रचनाकाल सुमारे २ हजार वर्षापूर्वीचा असावा असे मानतात. या गावाञ्च्या उत्तरेस समुद्रस्पर्धी असे ``चन्द्रसरोवर'' नामक सरोवर होते. आज मात्र त्याचा मागमूसही नाही । भारतीय ज्योतिषशास्त्रान्त भूमध्यरेषा वत्सगुल्मान्तून गेल्याचे वर्णन आहे. या स्थानातील मध्यमेश्वर देवतेचे वर्णन या महात्म्यान्त आहे. हे माहात्म्य पूस नदीच्या उगमस्थानी, शिवलिङ्ग-स्थानी, वसिष्ठ आश्रमान्त कर्नाटक देशान्तील कनकपूरचा राजा वासुकि याला आणि त्याच्या पत्नीला वसिष्ठऋषीने सांगितले. या वत्सगुल्मास वासुकीपुरी म्हणतात. शिवब्रह्महत्येच्या कथेच्या अनुषंगाने वत्सुगुल्मक्षेत्राचे नाममात्र निवेदन आले आहे आणि त्याच्या आधारावर हा ``वत्सगुल्म'' माहात्म्याञ्चा ``पद्मपुराणे'' असा सम्बन्ध दर्शविला आहे. प्रत्यक्ष हे माहात्म्य पद्मपुराणात नाही ।) इति श्रीलक्ष्मीनृसिंह एकाक्षरी मन्त्रः सम्पूर्णः । Proofread by M K Barman
% Text title            : Shri Lakshminrisimha Ekakshari Mantrah
% File name             : lakShmInRRisiMhaekAkSharImantraH.itx
% itxtitle              : lakShmInRisiMhaekAkSharImantraH
% engtitle              : lakShmInRisiMhaekAkSharImantraH
% Category              : vishhnu, dashAvatAra, lakShmI, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org