श्रीललितत्रिभङ्गीस्तोत्रम्

श्रीललितत्रिभङ्गीस्तोत्रम्

नमः पितृपदाम्भोजरेणुभ्यो यन्निवेदनात् । अस्मत्कुलं निष्कलङ्कं श्रीकृष्णेनात्मसात्कृतम् ॥ १॥ वामजान्वन्ताश्रितातिवक्रदक्षिणजानुकम् । एतत्सम्प्राप्तसौभाग्यं विचित्रमणिभूषणम् ॥ २॥ नखचन्द्रमहः क्षिप्तभक्तसन्तापसन्ततिः । विचित्रभावसन्तानविचित्रीकृतमानसम् ॥ ३॥ दक्षिणपदतलपद्मं वामप्रपदस्य वामतः प्रकटम् । सौन्दर्यं किमपितरां प्रकटयति प्रेमवल्लभ्यम् ॥ ४॥ विकसित-शारद-कमलोदरमदहरणेऽपि तत्र पद्माङ्कम् । वहता निरवधिरसता निवेद्यते स्वीयभक्तेषु ॥ ५॥ भक्तार्तिहरणे काञ्चित् मर्यादां नैव मन्यते । इति ज्ञापयितुं वज्ररेखां धारयति स्फुटाम् ॥ ६॥ अनुग्रहानिलो यत्र तत्साम्मुख्यं भजन् त्यजन् । अन्याशां राजते भक्ते पदमेवमिति ध्वजम् ॥ ७॥ धारयन् ज्ञापयत्येषः त्यक्तभक्तान्यदिक् प्रभुः । अतएव हि तत्सेव्यो निर्दोषगुणविग्रहः ॥ ८॥ एतत्पदपङ्कजमधुमत्तस्याऽयं निसर्गएवाभूत् । नेतरभावं भजते यदङ्कुशो नित्यमेवाऽस्ति ॥ ९॥ कदाचिद्विविधा लीलाः कर्तुं भक्तैः सह प्रभुः । एवम्भूतो वादयति वेणुमिष्टं करोति च ॥ १०॥ प्रपदोपरि सञ्चारिचारुपीतान्तरीयकः । गुञ्जद्भ्रमद्भ्रमरयुग्वनमालातिसुन्दरः ॥ ११॥ विविधरूपसुचारुसुगन्धयुङ्मृदुलपुष्पचयैरतिसुन्दरम् । ग्रथितमध्यमदेशमतिप्रियाकरयुगेन हृदि स्र्जि कामये ॥ १२॥ ग्रीवोरःस्थलकटितटकाञ्चीजानुप्रपदयोः सततम् । विहरन्ती वनमालासक्तासीदलिकुलैर्मत्तैः ॥ १३॥ गभीरनाभिविलसत्काञ्चीदामलसन्मणीन् । स्वरुचारोचयन्नन्यानप्याकल्पान् बभौ प्रभुः ॥ १४॥ त्रिगुणानिलसञ्चारचलत्प्रान्तातिसुन्दरम् । उत्तरीयं बिभ्रदंसे शुशुभेऽतितरां हरिः ॥ १५॥ विविधमहामणिखचितैः परितो मुक्ताफलावलिग्रथितैः । वलयाङ्गदकङ्कणचयसकलाङ्गुलिभूषणैः रेजे ॥ १६॥ कट्या कुटिलया काञ्चिद्भुवनत्रयमोहिनीम् । तनोति सुषमा नाभ्यां सह साम्येऽपि दुर्लभाम् ॥ १७॥ रसभरभरितं पात्रं नामितमन्यत्र तं रसं कर्तुम् । एकत आनतमुन्नतमेकत इह दृश्यते सर्वैः ॥ १८॥ कटितटगतभावरसानां व्रजाङ्गनाहृत्सुपूरणे सापि । अभवत् तथैव हृष्टा दृष्टा परमुपपद्यते काञ्च्या ॥ १९॥ वेणुरवानुगया नवनवचापल्यं प्राप्त वत्योच्चैः । व्रजतरुणीमानसधनसम्पन्नयाभूज्जगज्जडवत् ॥ २०॥ नयनाम्बुजसौन्दर्यं मनसां वचसामगोचरं सत्यम् । व्रजसुन्दरीनयनमनोनुभवैकगतं परं हृद्यम् ॥ २१॥ तत्रापि भावगर्भं तरलतरं प्रियतमामुखाम्भोजे । स्थगितं भवदरुणतरप्रान्तं प्रकटानुरागमिव ॥ २२॥ विचित्रवेणुतानाब्धितरङ्गान्दोलिताञ्चलम् । स्थिरं वा तरलं वेति नैवाभूदवधारितम् ॥ २३॥ स्मितामृतभरेणात्मभक्तहृत्प्राणपोषकम् । तत्रैव लयहेतुर्वा तेषामिति न वेदम्यहम् ॥ २४॥ भ्रूचापः सन्धितः कर्णावध्याकृष्टः प्रियाहृदि । विद्धः प्राणानाजहार स्वस्मिन् अस्मिन् दया न हि ॥ २५॥ स्मित-कौटिल्य-चापल्यारुणिमामृतसिन्धुषु । मग्नाः कथञ्चिद्जीवन्ति भक्तास्तत्तत्स्वभावतः ॥ २६॥ श‍ृङ्गाररससर्वस्वं भक्तभावामृतावृतिम् । अनुरागचयं ताराश्चैत्यापाङ्गैर्बिभर्त्यसौ ॥ २७॥ सालिकुलं कमलकुलं जितं निजाकारमात्रतो जगति । प्रकटातिगूढरसभरभरितो अभवत् कुसुमशरकोटिः ॥ २८॥ स्निग्धता मुग्धता वापि चातुरीसहजापि वा । नैव वर्णयितुं शक्यानुभवन्तीभिरप्यहो! ॥ २९॥ मन्ये गोकुलतरुणी-नवनवभावाः स्वराससञ्जाताः । रतिरससुधाब्धिपतितप्लवे प्लवन्ते निसर्गमधुरतराः ॥ ३०॥ सम्मुखप्रेक्षणेऽपाङ्गप्रेक्षणेच यथा रसः । तथारुणाभी रेखाभिर्ज्ञापयत्यम्बुजेक्षणः ॥ ३१॥ विरलारुणरेखाभिः सितगर्भस्य नेत्रयोः । आविर्भवति या शोभा तां न वक्तुं क्षमा रमा ॥ ३२॥ पक्ष्माणि तरुणीभावान् आनेतुं चरणाब्जयोः । कराङ्गुलिचयाभानि भासन्ते परितः बतः ॥ ३३॥ अतिसारस्यतो नेत्रे सरसः परितोऽभवत् । रसाङ्कुराः पक्ष्मरूपा भासन्ते सुषमास्पदाः ॥ ३४॥ आदायादाय भक्तानां भावान् अतिमनोहरान् । निमेषमिषतः स्वान्तः सञ्चयं कुरुतो मुदा ॥ ३५॥ स्वतः समर्थमप्येतत् त्रिलोकीमोहने बत ! । स्मितं सहायं सम्प्राप्य यत्करोति न वेद्मि तत् ॥ ३६॥ रसपूरैः प्लावयति स्वजनविवेकत्रपाधृतिरथवा । तानेव तद्रसाब्धिषु मग्नान् कुरुते तदैवैतत् ॥ ३७॥ एतत्कार्यस्य भवने प्रतिबन्धेऽपि चेश्वरः । न शक्तो प्रतिबद्धो यत् तत्स्वभावस्वभावतः ॥ ३८॥ तत्रापि चेत्सहायोऽभूदुदारो वेणुनिःस्वनः । त्रिभङ्गश्च त्रिजगति न जाने का दशावशा ॥ ३९॥ तिष्ठत्वन्यकथैतादृक्स्वरूपं प्रतिबिम्बितम् । क्वचित् पश्येत् स्वयं नाथः कां दशां नु भजेत् तदा!॥ ४०॥ प्रायो न दर्शनापेक्षा यत्स्वयं तद्रसात्मकः । प्रियाहृदयनेत्रेषु निरुद्धोऽस्ति सुनायकः ॥ ४१॥ एतत्सन्दर्शने तु स्यात् प्रमदाभाव एव हि । तच्छान्तिकर्ता कोन्योऽत्र भवेत् तेनास्ति नैव तत् ॥ ४२॥ अथवा तद्रसात्मा तद्दर्शनेनतितोषितः । भवति स्वप्रियावृन्दवृतोऽयं गजराडिव ॥ ४३॥ कदाचिदथवा प्रेष्ठा वियोगार्त्या तदात्मकः । तासामाविर्भवेद्भावैरेव तां शामयत्यपि ॥ ४४॥ दृष्ट्यापि रसरूपत्वं मयि जानन्तु मामकाः । तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ ४५॥ रसात्मत्वं स्फुटं स्वस्मिन् भक्तैर्नैवानुभूयते । तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ ४६॥ पुष्टिभक्तिं स्थिरीकृत्य मर्यादां च तदाश्रिताम् । कृत्वा वृन्दावनक्षोणीमयथापूर्वसंस्थिताम् ॥ ४७॥ हृदयं भक्तहृदये स्थिरं लोकान् निजान् परान् । पुष्टिदिश्येव सुमुखान् कृत्वा संराजते प्रभुः ॥ ४८॥ उद्बुद्धश‍ृङ्गाररसस्वरूपो भूषणाद्यपि । तादृगेवाखिलाङ्गेषु बिभ्रत् संराजते प्रभुः ॥ ४९॥ श्रुत्याद्यगम्यं यद्रूपं स्वल्पकेन मया कथम् । तन्निरूपयितुं शक्यं तदीयत्वाद्भवेदपि ॥ ५०॥ तथापि श्रीगोकुलेऽस्मिन् आविर्भूतो विराजते । अनन्यभक्तैरनीशं पीयते तत्सुधासवः ॥ ५१॥ (स मत्प्रभुः सदाऽहं तु तत्पादाब्जरसोस्मि वै । तत्प्रभावाद्यथाशक्ति वर्णयाम्यविचारयन् ॥ ) (अयंश्लोकः मुद्रितपाठीव अस्ति । अन्यत्र नोपलभ्यते) अहञ्च तत्पादपद्मरेणुरश्मीति मत्प्रभुः । स चास्तीति यथाशक्तिर्वर्णयाम्यविचारयन् ॥ ५२॥ स्वतो मल्लोचनमनोवृत्तिः वृन्दावनप्रभुः । बृहद्वनप्रियः शश्वत् शिशिरीकुरुतात् स्वतः ॥ ५३॥ अहं तदीय इत्येषा तद्वार्ता रूपिता परम् । तेन प्रसन्नो भवतु दासे श्रीविठ्ठले प्रभुः ॥ ५४॥ इति श्रीमद्विट्ठलनाथविरचितो ललितत्रिभङ्गनामा ग्रन्थः सम्पूर्णतामगमत् । Proofread by Mohan Chettoor
% Text title            : Lalitatribhangi Stotram
% File name             : lalitatribhangIstotram.itx
% itxtitle              : lalitatribhaNgIstotram (viThThaleshvaravirachitam)
% engtitle              : lalitatribhangIstotram
% Category              : vishhnu, viThThaleshvara, krishna, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Viththaleshvara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor, NA
% Description/comments  : puShTimArgIya
% Indexextra            : (Scan and vyAkhyA)
% Latest update         : June 21, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org