लुण्ठकार्दितैः बालकबालिकास्त्रीभिः कृतं पुरुषोत्तमस्तोत्रम् १०

लुण्ठकार्दितैः बालकबालिकास्त्रीभिः कृतं पुरुषोत्तमस्तोत्रम् १०

श्रीपुरुषोत्तम उवाच । श‍ृणु लक्ष्मि बालिकाश्च बालकाश्चापि विह्वलाः । अस्तुवन्मां स्वरक्षार्थं यदहं श्रुतवाँस्तदा ॥ १॥ दिवोदाससुतां दिव्यादेवीं भाग्यविहीनकाम् । कष्टाद्विमुच्य नैजां यश्चक्रेऽक्षरेऽनयच्च ताम् ॥ २॥ बालकृष्णः स भगवान् नः प्ररक्षतु सेविकाः । भिल्लीभिल्लौ तव साधोर्योगान्मोक्षं गतौ पुरा ॥ ३॥ सुबाहुनृपतिर्भार्यासहितः साधुसंश्रयात् । तव प्रतापतः कृष्ण मोक्षमार्गं ययौ पुरा ॥ ४॥ अशोकसुन्दरीं कन्यां सतीशङ्करपुत्रिकाम् । त्वं ररक्ष पुरा कृष्ण नः प्ररक्षय सेविकाः ॥ ५॥ विहुण्डस्य विनाशार्थं नारीरूपोऽभवः पुरा । कामोदायाः पतिस्त्वं स नः प्ररक्षतु सेविकाः ॥ ६॥ शुकमोक्षप्रदस्त्वं नः प्ररक्ष निजबालिकाः । खशो नाम्ना विष्णुदासो रामणी चास्य भामिनी ॥ ७॥ लीलावती च तत्कन्या पुरोद्धृतास्त्वया प्रभो । गणिकानां पुरा कृष्ण पापानि तु त्वया विभो ॥ ८॥ कृत्वा पुण्यस्वरूपाणि पुण्यजनान् व्यधास्तदा । गणिका योगिनीश्चापि कृतवाँस्त्वं पुरा प्रभो ॥ ९॥ रक्षानाम्न्याः श्वपच्यास्त्वं सुमरस्य तु योषितः । मुक्तिदाताऽभवः कृष्ण नः स रक्षतु सेविकाः ॥ १०॥ कौशिकं गरुडं चक्रे गायकं यः पुरा प्रभुः । मालवं नाम वैश्यं च तथाऽन्यान् गानकोविदान् ॥ ११॥ ब्रह्मलोकं ह्यनयद् यो नः स रक्षतु सेविकाः । हरिमिश्रं ब्राह्मणं यो ददौ मोक्षं स पातु नः ॥ १२॥ चिदम्बरामहाराज्ञ्यै जिष्णुपत्न्यै पुरा भवान् । गदां समर्प्य रक्षां चाऽकरोद्भद्रकराक्षसात् ॥ १३॥ प्रजाश्च जीविनास्तस्याः स नो रक्षतु सेविकाः । रणेश्वर्यः कृता नैजा ब्रह्मप्रिया गदासुताः ॥ १४॥ येन नारायणेनापि कृष्णः स नः प्ररक्षतु । रणेश्वरास्तथा मुक्ताः कृता येन स रक्षतु ॥ १५॥ बिन्दुमत्याः कृतो येन मोक्षो ययातियोषितः । स हरिलुण्ठकेभ्यश्चाऽवनं करोतु माधवः ॥ १६॥ परशुचन्द्रको येन नारायणेन तारितः । सोऽयं कान्तगुणः कृष्णो रक्षतु निजसेविकाः ॥ १७॥ सुचन्द्रिकां गोपपत्नीं गोपालं तत्पतिं तथा । अनयद्योऽक्षरं धाम स कृष्णो नः प्ररक्षतु ॥ १८॥ हरिप्रथमनोः पत्नी ब्रह्मपथाऽक्षरं प्रतिम् । प्रापिता येन हरिणा स कृष्णो नः प्ररक्षतु ॥ १९॥ गृध्राणां मोक्षणं येन कृतं पुरा परात्मना । बालकृष्णो हरिकृष्णः स कृष्णो नः प्ररक्षतु ॥ २०॥ जीवचन्द्राय मुक्तिं यो ददौ कृष्णः स रक्षतु । शतानन्दविनोदिन्योः पुत्राणां मोक्षणं कृतम् ॥ २१॥ येन श्रीहरिणा कृष्णः स एव नः प्ररक्षतु । काशीवाराङ्गनाभ्यो यो मुक्तिदः स प्ररक्षतु ॥ २२॥ वृषायनेन चटका यद्बलेन प्ररक्षिता । बालकृष्णोऽनादिकृष्णः स कृष्णो नः प्ररक्षतु ॥ २३॥ चित्रकेतोश्च मालत्या राज्ञ्या मुक्तिः कृता पुरा । येन श्रीबालकृष्णेन कृष्णो नः स प्ररक्षतु ॥ २४॥ श्रेष्ठा येन कृताः सन्तः स नः कृष्णः प्ररक्षतु । कृशाङ्गकः कृतो येन कृशानुः स प्ररक्षतु ॥ २५॥ भङ्गास्वनः कृतो येन नरो नारी मुहुर्मुहुः । स एव भगवान् कृष्णो रक्षत्वत्र स्वसेविकाः ॥ १६॥ विपुलं च रुचिं देवशर्माणं यो ररक्ष ह । मोक्षदो भगवान् कृष्णो दुःखादस्मात् प्ररक्षतु ॥ २७॥ गोकर्णाख्ये पुरा तीर्थे ऋषयो येन वासिता । स एव भगवानस्मान् लुण्ठकेभ्यः प्ररक्षतु ॥ २८॥ कुवलाश्वं तथोत्तङ्कं सत्यव्रतं च गालवम् । श्रेयसे कल्पयामास यः स कृष्णः प्ररक्षतु ॥ २९॥ यत्प्रतापेन च प्रणद्ब्रह्मसाधुः प्रतापवान् । समभवत् स कृष्णो नो लुण्ठकेभ्यः प्ररक्षतु ॥ ३०॥ केशरिणीसुतश्चाऽऽलम्बायनो मुक्तिमाप वै । यत्प्रतापेन कृष्णः स लुण्ठकेभ्यः प्ररक्षतु ॥ ३१॥ गोकर्णस्थान् लक्षसाधून् निन्ये धामाक्षरं तु यः । बालकृष्णं प्रियः कान्तो नः प्ररक्षतु वल्लभाः ॥ ३२॥ शबरो राक्षसो येन मोचितो भवबन्धनात् । गृध्रश्च श्वपचश्चापि स कृष्णोऽवतु सेविकाः ॥ ३३॥ ख्यातिं शापपरां वीक्ष्य चकर्त यस्तु तच्छिरः । स नः कृष्णो लुण्ठकेभ्यः प्ररक्षतु स्वसेविकाः ॥ ३४॥ भारुण्डः पुष्कसो येन तारितः स प्ररक्षतु । वृषादर्भिः कृतो येन मुक्तः कृष्णः स रक्षतु ॥ ३५॥ नरशायस्तस्करस्तु मोचितो येन चक्रिणा । धनिनो मोचिता येन स कृष्णोऽवतु सेविकाः ॥ ३६॥ कुन्दधर्माऽविता येनाऽवितश्च जाङ्घलामखः । बालकृष्णो दिव्यकान्तः कन्यका नः प्ररक्षतु ॥ ३७॥ येन शम्भलवारोऽपि प्रजया सह मोचितः । बालःकृष्णो वल्लभोऽत्र प्ररक्षतु स्वसेविकाः ॥ ३८॥ देवानीकदिव्यवंशे बालकृष्णो व्यजायत । स एव भगवानत्र प्ररक्षतु स्वसेविकाः ॥ ३९॥ नमोऽनादिकृष्णनारायणाय स्वामिने नमः । नमः श्रीकम्भरालक्ष्मीगोपालजनुषे नमः ॥ ४०॥ दीर्घशीलो विप्रवर्यो मोचितो यमपाशतः । येन श्रीहरिणा सोऽयं प्ररक्षतु स्वदासिकाः ॥ ४१॥ ब्रह्मसती ब्राह्मणी या मोचिता परमात्मना । सोऽयं नो भगवान्नाथः प्ररक्षतु स्वसेविकाः ॥ ४२॥ कालन्धरा महाराज्ञी वैवर्त्तो नाम भूपतिः । मोचितौ येन कृष्णेन स कृष्णोऽवतु सेविकाः ॥ ४३॥ रोमपादस्य वै पुत्रो वृषगमोऽपि विष्णुना । मोचितो येन कृष्णेन स कृष्णोऽवतु सेविकाः ॥ ४४॥ नग्रभङ्गः पुरा चौरो मोचितो येन विष्णुना । बालकृष्णः कृष्णनारायणो नः स प्ररक्षतु ॥ ४५॥ भण्डासुरो हतो ललिताद्वारा येन चक्रिणा । स चास्मानत्र कृष्णश्रीकृष्णो रक्षतु सेविकाः ॥ ४६॥ ललितामानसीकन्याः कोटिशः स्वीकृताः पुरा । येन श्रीपरमेशेन स कृष्णोऽवतु सेविकाः ॥ ४७॥ लोहाङ्गारस्य वैश्यस्य मोक्षकृन्नः प्ररक्षतु । पीवर्याद्या व्रते येन पूर्णकामा निरूपिताः ॥ ४८॥ सोऽयं कृष्णो लुण्ठकेभ्यो नः प्ररक्षतु दासिकाः । वसिष्ठाऽगस्त्यकौ शापान्मोचितौ येन शार्ङ्गिणा ॥ ४९॥ अनादिश्रीकृष्णनारायणो नः स प्ररक्षतु । परुषो लुब्धको येन मोचितो भार्यया सह ॥ ५०॥ पुष्करवाहनस्यापि मोक्षकृन्नः प्ररक्षतु । सरोजिनी कुम्भकर्त्री सतीश्वरीकृपान्विता ॥ ५१॥ पद्मिनी साऽभवद्यस्य कृपया कमलासमा । स श्रीकृष्णः प्रभुश्चास्मान् लुण्ठकेभ्यः प्ररक्षतु ॥ ५२॥ धर्मतपसो विप्रस्य रक्षणं कृतवाँस्तु यः । सुरथस्य मनुत्वं च कृतवान् श्रीपतिस्तु यः ॥ ५३॥ धनवर्मा दिवं येन प्रेषितः परमात्मना । बलीश्वरस्तथा राज्ये स्थापितो मानवे द्विजः ॥ १४॥ आनन्दवर्णी येनाऽपि स्थापितो मानवे तथा । राज्ये घृणेषिकः शूद्रः स्थापितो येन मानवे ॥ ५५॥ भूतिश्च तरितो येन कृष्णो रक्षतु सेविकाः । असुरो बालको येनोद्धृतोऽस्य मणयः कृताः ॥ ५६॥ बाष्कलिर्नाशितो येन विष्णुर्नः सम्प्ररक्षतु । गजनारायणेनापि पुरुकृसरो घातितः ॥ ५७॥ प्रलम्बो नाशितो येन मत्स्यात्मकेन शार्ङ्गिणा । भीमरथो घातितश्च कूर्मरूपेण येन वै ॥ ५८॥ शान्तशत्रुर्घातितश्च हंसरूपेण येन हि । महाकालो नाशितश्च हयग्रीवेण येन तु ॥ ५९॥ हिरण्याक्षविहन्ता स कृष्णोऽवतु स्वसेविकाः । वामनोऽवतु कृष्णश्च कालकाक्षविनाशकृत् ॥ ६०॥ बलिशत्र्वसुरहन्ता हरिर्दुःखं व्यपोहतु । दशग्रीवविहन्ता च नारीरूपोऽवतु प्रभुः ॥ ६१॥ तारकघ्नो हरिर्नपुंसकरूपोऽपि रक्षतु । टिट्टिभो विहतो येन मायूररूपिणा पुरा ॥ ६२॥ शुचिश्च घातितो येन चक्रिणा नः स रक्षतु । साधुभावायनर्षेश्च तथा श्रीमानसस्य च ॥ ६३॥ चिदानन्दस्यापि मोक्षकृत् कृष्णो नः प्ररक्षतु । सद्विद्यायनपत्नीं यः श्रुतिफलां ह्यमोक्षयत् ॥ ६४॥ अलर्कजननीमोक्षं कृतवान् स प्ररक्षतु । मुक्तिस्रोतायनश्चापि सिद्धिवेषायनस्तथा ॥ ६५॥ अयाचिताञ्जलिभार्या भिक्षायनऋषिः पतिः । मुक्ता यस्याऽऽश्रयेणैषः श्रीकृष्णो नः प्ररक्षतु ॥ ६६॥ माता नित्याश्रया पुत्रः केशी येन प्रमोचितौ । बालकृष्णो महाराजः स नस्त्वत्र प्ररक्षतु ॥ ६७॥ माता तु चारणी पुत्रो व्याघ्रश्च येन तारितौ । कूटदेवः पिता साधुः श्यामश्च येन तारितौ ॥ ६८॥ उत्तमश्चापि भूदेवो देवायनऋषिस्तथा । कष्टात् प्रमोचितौ येन कृष्णो रक्षतु सेविका ॥ ६९॥ येन विरालको वैश्यः सकुटुम्बः समुद्धृतः । बालकृष्णः प्रियप्राणो लुण्ठकेभ्यः प्ररक्षतु ॥ ७०॥ पृथ्वीधरो नृपो मधुविन्दा राज्ञी समुद्धृतौ । तथा दुर्वोढको दीनश्चोद्धृतो येन सोऽवतु ॥ ७१॥ सागरः शूद्रकश्चापि वेनपालाभिधो नृपः । हीरुका शूद्रपत्नी च रक्षिता येन सोऽवतु ॥ ७२॥ वृक्णदेवो भावशूरः शीलधर्मा सती तथा । मोचिता येन कृष्णेन सोऽयं रक्षतु सेविकाः ॥ ७३॥ मञ्जुलकेशो भूदेवः पाशुपतेशविप्रराट् । बाणाङ्गणस्तथा शूद्रो रक्षिता येन सोऽवतु ॥ ७४॥ मृतादनः सन्तदासो धर्मशालायनस्तथा । शङ्कुधरश्चोद्धृताश्च येन सोऽवतु सेविकाः ॥ ७५॥ लुण्ठकाधिपतिश्चायं नाम्ना सामन्तविक्रमः । लुण्ठयत्यतिसर्वस्वं कृष्ण हा कृष्ण रक्ष नः ॥ ७६॥ तव स्मोऽत्र तव स्मोऽत्र त्वत्सेविकाः प्ररक्षय । अन्तरात्मन् व्यापकात्मन् भूमन्नत्र प्ररक्षय ॥ ७७॥ बालकाश्चापि वै कृष्णस्तवनं चक्रिरे तथा । श्रुत्वाऽहं सहसा तत्र शतरूपोऽभवं रमे ॥ ७८॥ अश्ववारा उष्ट्रवाराः सशस्त्रा भूभृतो भटाः । पञ्चाशद्वेगतो दूरादागता रक्षणाय वै ॥ ७९॥ उच्चैराक्रोशमादध्युः सज्जाश्चौरा भवन्त्विति । मारयिष्याम एवाऽत्र जायन्तां मातृपुत्रकाः ॥ ८०॥ एवं नादान् श्रावयन्तो स्फोटयन्तो हि धूष्कृतीः । उष्ट्राऽश्वाद्यैः क्षणाद्दिक्षु दशस्वावृत्तयँश्च तान् ॥ ८१॥ वर्तुले चौरलोकाँस्तानावृत्य राजपार्षदाः । धर्षयितुं दण्डयितुं ताडयितुं पुरोऽगमन् ॥ ८२॥ तावत्ते रोषमापन्ना जीवनाशां विहाय वै । दुद्रुवुर्मध्यदेशाच्च धूष्कृतीस्फोटकारिणः ॥ ८३॥ तदा मे पार्षदैर्लक्ष्मि धूष्कृतयः स्फोटिता द्रुतम् । युद्धं परस्परं जातं धूष्कृतीगोलिकामयम् ॥ ८४॥ मया ते गोलिकायन्त्रैर्विद्धाः सर्वेऽतिगर्विताः । मृतास्ते तत्र पञ्चाशत्सर्वे गोल्यभिभेदिताः ॥ ८५॥ तान् सर्वाननयं स्वर्गं मम हस्तैर्मृतानतः । मोचितान् भक्तवणिजस्ततोऽहं समसान्त्वयम् ॥ ८६॥ ते सर्वे शरणं प्राप्ता नरा नार्यश्च बालिकाः । बालाश्च पेतुश्चरणे मम सैन्यपरूपिणः ॥ ८७॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १९१-अध्यायान्तर्गतं लुण्ठकार्दितैः बालक-बालिका-स्त्रीभिः कृतं पुरुषोत्तमस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १९१/१-८७॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 191/1-87.. Proofread by PSA Easwaran
% Text title            : Lunthakarditaih Balakabalikastribhih Kritam Purushottama Stotram
% File name             : luNThakArditaiHbAlakabAlikAstrIbhiHkRRitaMpuruShottamastotram10.itx
% itxtitle              : puruShottamastotram 10 (luNThakArditaiHbAlakabAlikAstrIbhiHkRitaM lakShmInArAyaNIyasaMhitAntargatam shRiNu lakShmi bAlikAshcha bAlakAshchApi vihvalAH)
% engtitle              : luNThakArditaiHbAlakabAlikAstrIbhiHkRRitaM puruShottamastotram 10
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 191/1-87||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org