लुण्ठकार्दितैः बालकबालिकास्त्रीभिः कृतं पुरुषोत्तमस्तोत्रम् १०
श्रीपुरुषोत्तम उवाच ।
शृणु लक्ष्मि बालिकाश्च बालकाश्चापि विह्वलाः ।
अस्तुवन्मां स्वरक्षार्थं यदहं श्रुतवाँस्तदा ॥ १॥
दिवोदाससुतां दिव्यादेवीं भाग्यविहीनकाम् ।
कष्टाद्विमुच्य नैजां यश्चक्रेऽक्षरेऽनयच्च ताम् ॥ २॥
बालकृष्णः स भगवान् नः प्ररक्षतु सेविकाः ।
भिल्लीभिल्लौ तव साधोर्योगान्मोक्षं गतौ पुरा ॥ ३॥
सुबाहुनृपतिर्भार्यासहितः साधुसंश्रयात् ।
तव प्रतापतः कृष्ण मोक्षमार्गं ययौ पुरा ॥ ४॥
अशोकसुन्दरीं कन्यां सतीशङ्करपुत्रिकाम् ।
त्वं ररक्ष पुरा कृष्ण नः प्ररक्षय सेविकाः ॥ ५॥
विहुण्डस्य विनाशार्थं नारीरूपोऽभवः पुरा ।
कामोदायाः पतिस्त्वं स नः प्ररक्षतु सेविकाः ॥ ६॥
शुकमोक्षप्रदस्त्वं नः प्ररक्ष निजबालिकाः ।
खशो नाम्ना विष्णुदासो रामणी चास्य भामिनी ॥ ७॥
लीलावती च तत्कन्या पुरोद्धृतास्त्वया प्रभो ।
गणिकानां पुरा कृष्ण पापानि तु त्वया विभो ॥ ८॥
कृत्वा पुण्यस्वरूपाणि पुण्यजनान् व्यधास्तदा ।
गणिका योगिनीश्चापि कृतवाँस्त्वं पुरा प्रभो ॥ ९॥
रक्षानाम्न्याः श्वपच्यास्त्वं सुमरस्य तु योषितः ।
मुक्तिदाताऽभवः कृष्ण नः स रक्षतु सेविकाः ॥ १०॥
कौशिकं गरुडं चक्रे गायकं यः पुरा प्रभुः ।
मालवं नाम वैश्यं च तथाऽन्यान् गानकोविदान् ॥ ११॥
ब्रह्मलोकं ह्यनयद् यो नः स रक्षतु सेविकाः ।
हरिमिश्रं ब्राह्मणं यो ददौ मोक्षं स पातु नः ॥ १२॥
चिदम्बरामहाराज्ञ्यै जिष्णुपत्न्यै पुरा भवान् ।
गदां समर्प्य रक्षां चाऽकरोद्भद्रकराक्षसात् ॥ १३॥
प्रजाश्च जीविनास्तस्याः स नो रक्षतु सेविकाः ।
रणेश्वर्यः कृता नैजा ब्रह्मप्रिया गदासुताः ॥ १४॥
येन नारायणेनापि कृष्णः स नः प्ररक्षतु ।
रणेश्वरास्तथा मुक्ताः कृता येन स रक्षतु ॥ १५॥
बिन्दुमत्याः कृतो येन मोक्षो ययातियोषितः ।
स हरिलुण्ठकेभ्यश्चाऽवनं करोतु माधवः ॥ १६॥
परशुचन्द्रको येन नारायणेन तारितः ।
सोऽयं कान्तगुणः कृष्णो रक्षतु निजसेविकाः ॥ १७॥
सुचन्द्रिकां गोपपत्नीं गोपालं तत्पतिं तथा ।
अनयद्योऽक्षरं धाम स कृष्णो नः प्ररक्षतु ॥ १८॥
हरिप्रथमनोः पत्नी ब्रह्मपथाऽक्षरं प्रतिम् ।
प्रापिता येन हरिणा स कृष्णो नः प्ररक्षतु ॥ १९॥
गृध्राणां मोक्षणं येन कृतं पुरा परात्मना ।
बालकृष्णो हरिकृष्णः स कृष्णो नः प्ररक्षतु ॥ २०॥
जीवचन्द्राय मुक्तिं यो ददौ कृष्णः स रक्षतु ।
शतानन्दविनोदिन्योः पुत्राणां मोक्षणं कृतम् ॥ २१॥
येन श्रीहरिणा कृष्णः स एव नः प्ररक्षतु ।
काशीवाराङ्गनाभ्यो यो मुक्तिदः स प्ररक्षतु ॥ २२॥
वृषायनेन चटका यद्बलेन प्ररक्षिता ।
बालकृष्णोऽनादिकृष्णः स कृष्णो नः प्ररक्षतु ॥ २३॥
चित्रकेतोश्च मालत्या राज्ञ्या मुक्तिः कृता पुरा ।
येन श्रीबालकृष्णेन कृष्णो नः स प्ररक्षतु ॥ २४॥
श्रेष्ठा येन कृताः सन्तः स नः कृष्णः प्ररक्षतु ।
कृशाङ्गकः कृतो येन कृशानुः स प्ररक्षतु ॥ २५॥
भङ्गास्वनः कृतो येन नरो नारी मुहुर्मुहुः ।
स एव भगवान् कृष्णो रक्षत्वत्र स्वसेविकाः ॥ १६॥
विपुलं च रुचिं देवशर्माणं यो ररक्ष ह ।
मोक्षदो भगवान् कृष्णो दुःखादस्मात् प्ररक्षतु ॥ २७॥
गोकर्णाख्ये पुरा तीर्थे ऋषयो येन वासिता ।
स एव भगवानस्मान् लुण्ठकेभ्यः प्ररक्षतु ॥ २८॥
कुवलाश्वं तथोत्तङ्कं सत्यव्रतं च गालवम् ।
श्रेयसे कल्पयामास यः स कृष्णः प्ररक्षतु ॥ २९॥
यत्प्रतापेन च प्रणद्ब्रह्मसाधुः प्रतापवान् ।
समभवत् स कृष्णो नो लुण्ठकेभ्यः प्ररक्षतु ॥ ३०॥
केशरिणीसुतश्चाऽऽलम्बायनो मुक्तिमाप वै ।
यत्प्रतापेन कृष्णः स लुण्ठकेभ्यः प्ररक्षतु ॥ ३१॥
गोकर्णस्थान् लक्षसाधून् निन्ये धामाक्षरं तु यः ।
बालकृष्णं प्रियः कान्तो नः प्ररक्षतु वल्लभाः ॥ ३२॥
शबरो राक्षसो येन मोचितो भवबन्धनात् ।
गृध्रश्च श्वपचश्चापि स कृष्णोऽवतु सेविकाः ॥ ३३॥
ख्यातिं शापपरां वीक्ष्य चकर्त यस्तु तच्छिरः ।
स नः कृष्णो लुण्ठकेभ्यः प्ररक्षतु स्वसेविकाः ॥ ३४॥
भारुण्डः पुष्कसो येन तारितः स प्ररक्षतु ।
वृषादर्भिः कृतो येन मुक्तः कृष्णः स रक्षतु ॥ ३५॥
नरशायस्तस्करस्तु मोचितो येन चक्रिणा ।
धनिनो मोचिता येन स कृष्णोऽवतु सेविकाः ॥ ३६॥
कुन्दधर्माऽविता येनाऽवितश्च जाङ्घलामखः ।
बालकृष्णो दिव्यकान्तः कन्यका नः प्ररक्षतु ॥ ३७॥
येन शम्भलवारोऽपि प्रजया सह मोचितः ।
बालःकृष्णो वल्लभोऽत्र प्ररक्षतु स्वसेविकाः ॥ ३८॥
देवानीकदिव्यवंशे बालकृष्णो व्यजायत ।
स एव भगवानत्र प्ररक्षतु स्वसेविकाः ॥ ३९॥
नमोऽनादिकृष्णनारायणाय स्वामिने नमः ।
नमः श्रीकम्भरालक्ष्मीगोपालजनुषे नमः ॥ ४०॥
दीर्घशीलो विप्रवर्यो मोचितो यमपाशतः ।
येन श्रीहरिणा सोऽयं प्ररक्षतु स्वदासिकाः ॥ ४१॥
ब्रह्मसती ब्राह्मणी या मोचिता परमात्मना ।
सोऽयं नो भगवान्नाथः प्ररक्षतु स्वसेविकाः ॥ ४२॥
कालन्धरा महाराज्ञी वैवर्त्तो नाम भूपतिः ।
मोचितौ येन कृष्णेन स कृष्णोऽवतु सेविकाः ॥ ४३॥
रोमपादस्य वै पुत्रो वृषगमोऽपि विष्णुना ।
मोचितो येन कृष्णेन स कृष्णोऽवतु सेविकाः ॥ ४४॥
नग्रभङ्गः पुरा चौरो मोचितो येन विष्णुना ।
बालकृष्णः कृष्णनारायणो नः स प्ररक्षतु ॥ ४५॥
भण्डासुरो हतो ललिताद्वारा येन चक्रिणा ।
स चास्मानत्र कृष्णश्रीकृष्णो रक्षतु सेविकाः ॥ ४६॥
ललितामानसीकन्याः कोटिशः स्वीकृताः पुरा ।
येन श्रीपरमेशेन स कृष्णोऽवतु सेविकाः ॥ ४७॥
लोहाङ्गारस्य वैश्यस्य मोक्षकृन्नः प्ररक्षतु ।
पीवर्याद्या व्रते येन पूर्णकामा निरूपिताः ॥ ४८॥
सोऽयं कृष्णो लुण्ठकेभ्यो नः प्ररक्षतु दासिकाः ।
वसिष्ठाऽगस्त्यकौ शापान्मोचितौ येन शार्ङ्गिणा ॥ ४९॥
अनादिश्रीकृष्णनारायणो नः स प्ररक्षतु ।
परुषो लुब्धको येन मोचितो भार्यया सह ॥ ५०॥
पुष्करवाहनस्यापि मोक्षकृन्नः प्ररक्षतु ।
सरोजिनी कुम्भकर्त्री सतीश्वरीकृपान्विता ॥ ५१॥
पद्मिनी साऽभवद्यस्य कृपया कमलासमा ।
स श्रीकृष्णः प्रभुश्चास्मान् लुण्ठकेभ्यः प्ररक्षतु ॥ ५२॥
धर्मतपसो विप्रस्य रक्षणं कृतवाँस्तु यः ।
सुरथस्य मनुत्वं च कृतवान् श्रीपतिस्तु यः ॥ ५३॥
धनवर्मा दिवं येन प्रेषितः परमात्मना ।
बलीश्वरस्तथा राज्ये स्थापितो मानवे द्विजः ॥ १४॥
आनन्दवर्णी येनाऽपि स्थापितो मानवे तथा ।
राज्ये घृणेषिकः शूद्रः स्थापितो येन मानवे ॥ ५५॥
भूतिश्च तरितो येन कृष्णो रक्षतु सेविकाः ।
असुरो बालको येनोद्धृतोऽस्य मणयः कृताः ॥ ५६॥
बाष्कलिर्नाशितो येन विष्णुर्नः सम्प्ररक्षतु ।
गजनारायणेनापि पुरुकृसरो घातितः ॥ ५७॥
प्रलम्बो नाशितो येन मत्स्यात्मकेन शार्ङ्गिणा ।
भीमरथो घातितश्च कूर्मरूपेण येन वै ॥ ५८॥
शान्तशत्रुर्घातितश्च हंसरूपेण येन हि ।
महाकालो नाशितश्च हयग्रीवेण येन तु ॥ ५९॥
हिरण्याक्षविहन्ता स कृष्णोऽवतु स्वसेविकाः ।
वामनोऽवतु कृष्णश्च कालकाक्षविनाशकृत् ॥ ६०॥
बलिशत्र्वसुरहन्ता हरिर्दुःखं व्यपोहतु ।
दशग्रीवविहन्ता च नारीरूपोऽवतु प्रभुः ॥ ६१॥
तारकघ्नो हरिर्नपुंसकरूपोऽपि रक्षतु ।
टिट्टिभो विहतो येन मायूररूपिणा पुरा ॥ ६२॥
शुचिश्च घातितो येन चक्रिणा नः स रक्षतु ।
साधुभावायनर्षेश्च तथा श्रीमानसस्य च ॥ ६३॥
चिदानन्दस्यापि मोक्षकृत् कृष्णो नः प्ररक्षतु ।
सद्विद्यायनपत्नीं यः श्रुतिफलां ह्यमोक्षयत् ॥ ६४॥
अलर्कजननीमोक्षं कृतवान् स प्ररक्षतु ।
मुक्तिस्रोतायनश्चापि सिद्धिवेषायनस्तथा ॥ ६५॥
अयाचिताञ्जलिभार्या भिक्षायनऋषिः पतिः ।
मुक्ता यस्याऽऽश्रयेणैषः श्रीकृष्णो नः प्ररक्षतु ॥ ६६॥
माता नित्याश्रया पुत्रः केशी येन प्रमोचितौ ।
बालकृष्णो महाराजः स नस्त्वत्र प्ररक्षतु ॥ ६७॥
माता तु चारणी पुत्रो व्याघ्रश्च येन तारितौ ।
कूटदेवः पिता साधुः श्यामश्च येन तारितौ ॥ ६८॥
उत्तमश्चापि भूदेवो देवायनऋषिस्तथा ।
कष्टात् प्रमोचितौ येन कृष्णो रक्षतु सेविका ॥ ६९॥
येन विरालको वैश्यः सकुटुम्बः समुद्धृतः ।
बालकृष्णः प्रियप्राणो लुण्ठकेभ्यः प्ररक्षतु ॥ ७०॥
पृथ्वीधरो नृपो मधुविन्दा राज्ञी समुद्धृतौ ।
तथा दुर्वोढको दीनश्चोद्धृतो येन सोऽवतु ॥ ७१॥
सागरः शूद्रकश्चापि वेनपालाभिधो नृपः ।
हीरुका शूद्रपत्नी च रक्षिता येन सोऽवतु ॥ ७२॥
वृक्णदेवो भावशूरः शीलधर्मा सती तथा ।
मोचिता येन कृष्णेन सोऽयं रक्षतु सेविकाः ॥ ७३॥
मञ्जुलकेशो भूदेवः पाशुपतेशविप्रराट् ।
बाणाङ्गणस्तथा शूद्रो रक्षिता येन सोऽवतु ॥ ७४॥
मृतादनः सन्तदासो धर्मशालायनस्तथा ।
शङ्कुधरश्चोद्धृताश्च येन सोऽवतु सेविकाः ॥ ७५॥
लुण्ठकाधिपतिश्चायं नाम्ना सामन्तविक्रमः ।
लुण्ठयत्यतिसर्वस्वं कृष्ण हा कृष्ण रक्ष नः ॥ ७६॥
तव स्मोऽत्र तव स्मोऽत्र त्वत्सेविकाः प्ररक्षय ।
अन्तरात्मन् व्यापकात्मन् भूमन्नत्र प्ररक्षय ॥ ७७॥
बालकाश्चापि वै कृष्णस्तवनं चक्रिरे तथा ।
श्रुत्वाऽहं सहसा तत्र शतरूपोऽभवं रमे ॥ ७८॥
अश्ववारा उष्ट्रवाराः सशस्त्रा भूभृतो भटाः ।
पञ्चाशद्वेगतो दूरादागता रक्षणाय वै ॥ ७९॥
उच्चैराक्रोशमादध्युः सज्जाश्चौरा भवन्त्विति ।
मारयिष्याम एवाऽत्र जायन्तां मातृपुत्रकाः ॥ ८०॥
एवं नादान् श्रावयन्तो स्फोटयन्तो हि धूष्कृतीः ।
उष्ट्राऽश्वाद्यैः क्षणाद्दिक्षु दशस्वावृत्तयँश्च तान् ॥ ८१॥
वर्तुले चौरलोकाँस्तानावृत्य राजपार्षदाः ।
धर्षयितुं दण्डयितुं ताडयितुं पुरोऽगमन् ॥ ८२॥
तावत्ते रोषमापन्ना जीवनाशां विहाय वै ।
दुद्रुवुर्मध्यदेशाच्च धूष्कृतीस्फोटकारिणः ॥ ८३॥
तदा मे पार्षदैर्लक्ष्मि धूष्कृतयः स्फोटिता द्रुतम् ।
युद्धं परस्परं जातं धूष्कृतीगोलिकामयम् ॥ ८४॥
मया ते गोलिकायन्त्रैर्विद्धाः सर्वेऽतिगर्विताः ।
मृतास्ते तत्र पञ्चाशत्सर्वे गोल्यभिभेदिताः ॥ ८५॥
तान् सर्वाननयं स्वर्गं मम हस्तैर्मृतानतः ।
मोचितान् भक्तवणिजस्ततोऽहं समसान्त्वयम् ॥ ८६॥
ते सर्वे शरणं प्राप्ता नरा नार्यश्च बालिकाः ।
बालाश्च पेतुश्चरणे मम सैन्यपरूपिणः ॥ ८७॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१९१-अध्यायान्तर्गतं लुण्ठकार्दितैः बालक-बालिका-स्त्रीभिः कृतं
पुरुषोत्तमस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १९१/१-८७॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 191/1-87..
Proofread by PSA Easwaran