मार्कण्डेयमहर्षिकृतं जगन्नाथस्तोत्रम्
मार्कण्डेय उवाच ।
देवदेव जगन्नाथ मायाबालवपुर्धर ।
त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम् ॥ ११॥
सन्तप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना ।
अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम ॥ १२॥
शोषितश्च प्रचण्डेन वायुना जगदामुना ।
विह्वलोऽहं तथा श्रान्तस्त्राहि मां पुरुषोत्तम ॥ १३॥
तापितश्च तथामात्यैः प्रलयावर्तकादिभिः ।
न शान्तिमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ १४॥
तृषितश्च क्षुधाऽऽविष्टो दुःखितश्च जगत्पते ।
त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम ॥ १५॥
अस्मिन्नेकार्णवे घोरे विनष्टे सचराचरे ।
न चान्तमधिगच्छामि त्राहि मां पुरुषोत्तम ॥ १६॥
तवोदरे च देवेश मया दृष्टं चराचरम् ।
विस्मितोऽहं विषण्णश्च त्राहि मां पुरुषोत्तम ॥ १७॥
संसारेऽस्मिन्निरालम्बे प्रसीद पुरुषोत्तम ।
प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय ॥ १८॥
प्रसीद विबुधां नाथ प्रसीद विबुधालय ।
प्रसीद सर्वलोकेश जगत्कारणकारण ॥ १९॥
प्रसीद सर्वकृद्देव प्रसीद मम भूधर ।
प्रसीद सलिलावास प्रसीद मधुसूदन ॥ २०॥
प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर ।
प्रसीद कंसकेशिघ्न प्रसीदारिष्टनाशन ॥ २१॥
प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक ।
प्रसीद मथुरावास प्रसीद यदुनन्दन ॥ २२॥
प्रसीद शक्रावरज प्रसीद वरदाव्यय ।
त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ २३॥
त्वं नभस्त्वं मनश्चैव त्वमहङ्कार एव च ।
त्वं बुद्धिः प्रकृतिश्चैव सत्त्वाद्यास्त्वं जगत्पते ॥ २४॥
पुरषस्त्वं जगद्व्यापी पुरुषादपि चोत्तमः ।
त्वमिन्दियाणि सर्वाणि शब्दाद्या विषयाः प्रभो ॥ २५॥
त्वं दिक्पालाश्च धर्माश्च वेदा यज्ञाः सदक्षिणाः ।
त्वमिन्द्रस्त्वं शिवो देवस्त्वं हविस्त्वं हुताशनः ॥ २६॥
त्वं यमः पितृराड्देव त्वं रक्षोधिपतिः स्वयम् ।
वरुणस्त्वमपां नाथ त्वं वायुस्त्वं धनेश्वराः ॥ २७॥
त्वमीशानस्त्वमनन्तस्त्वं गणेशश्च षण्मुखः ।
वसवस्त्वं तथा रुद्रास्त्वमादित्याश्च खेचराः ॥ २८॥
दानवास्त्वं तथा यक्षास्त्वं दैत्याः समरुद्गणाः ।
सिद्धाश्चाप्सरसो नागा गन्धर्वास्त्वं स चारणाः ॥ २९॥
पितरो बालखिल्याश्च प्रजानां पतयोऽच्युत ।
मुनयस्त्वमृषिगणास्त्वमश्विनौ निशाचराः ॥ ३०॥
अन्याश्च जातयस्त्वं हि यत्किञ्चिज्जीवसंज्ञितम् ।
किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम् ॥ ३१॥
भूतं भव्यं भविष्यं च त्वं जगत्सचराचरम् ।
यत्ते रूपं परं देव कूटस्थमचलं ध्रुवम् ॥ ३२॥
ब्रह्माद्यास्तन्न जानन्ति कथमन्येऽल्पमेधसः ।
देव शुद्धस्वभावोऽसि नित्यस्त्वं प्रकृतेः परः ॥ ३३॥
अव्यक्तः शाश्वतोऽनन्तः सर्वव्यापी महेश्वरः ।
त्वमाकाशः परः शान्तो अजस्त्वं विभुरव्ययः ॥ ३४॥
एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् ।
स्तुतोऽसि यन्मया देव विकलेनाल्पचेतसा ।
तत्सर्वं देवदेवेश क्षन्तुमर्हसि चाव्यय ॥ ३५॥
इति ब्रह्मपुराणे पञ्चपञ्चाशत्तमाध्यायान्तर्गतं
भगवत्स्तवनिरूपणं नाम जगन्नाथस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ५५/११-३५॥
brahmapurANa . adhyAya 55/11-35..
Proofread by PSA Easwaran