महादेवप्रोक्तं स्तवप्रदानस्तोत्रम्

महादेवप्रोक्तं स्तवप्रदानस्तोत्रम्

भृगुरुवाच । सम्प्राप्तं कवचं नाम शश्वत्सर्वाङ्गरक्षणम् । सुखदं मोक्षदं सारं शत्रुसंहारकारणम् ॥ १॥ अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो । देहि मह्यमनाथाय शरणागतपालक ॥ २॥ महादेव उवाच । ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा । मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः ॥ ३॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव । तद्दशांशं च हवनं तद्दशांशाभिषेचनम् । तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् । सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ४॥ मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने । शक्तः पातुं समुद्रांश्च विश्वं संहर्तुमीश्वरः ॥ ९॥ पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः । तस्य संस्पर्शमात्रेण पदपङ्कजरेणुना । पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ६॥। ध्यानं च सामवेदोक्तं श‍ृणु मन्मुखतो मुने । सर्वेश्वरस्य कृष्णस्य भक्तिमुक्तिप्रदायि च ॥ ७॥ नवीनजलदश्यामं नीलेन्दीवरलोचनम् । शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ॥ ८॥ कोटिकन्दर्पलावण्यलीलाधाममनोहरम् । रत्नसिंहासनस्थं तं रत्नभूषणभूषितम् ॥ ९॥ चन्दनोक्षितसर्वाङ्गं पीताम्बरधरं वरम् । वीक्ष्यमाणं च गोपीभिः सस्मिताभिश्च सन्ततम् ॥ १०॥ प्रफुल्लमालतीमालावनमालाविभूषितम् । दधतं कुन्दपुष्पाढ्यां चूडां चन्द्रकचर्च्चिताम् ॥ ११॥ प्रभां क्षिपन्तीं नभसश्चन्द्रतारान्वितस्य च । रत्नभूषितसर्वाङ्गं राधावक्षःस्थलस्थितम् ॥ १२॥ सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम् । ब्रह्मविष्णुमहेशैश्च श्रुतिभिश्च स्तुतं भजे ॥ १३॥ ध्यानेनानेन तं ध्यात्वा चोपचारांस्तु षोडश । दत्त्वा भक्त्या च सम्पूज्य सर्वज्ञत्वं लभेत्पुमान् ॥ १४॥ अर्घ्यं पाद्यं चासनं च वसनं भूषणं तथा । गामर्घ्यं मधुपर्कं च यज्ञसूत्रमनुत्तमम् ॥ १५॥ धूपदीपौ च नैवेद्यं पुनराचमनीयकम् । नानाप्रकारपुष्पाणि ताम्बूलं च सुवासितम् ॥ १६॥ मनोहरं दिव्यतल्पं कस्तूर्यगरुचन्दनैः । भक्त्या भगवते देयं माल्यं पुष्पाञ्जलित्रयम् ॥ १७॥ ततः षडङ्गं सम्पूज्य पश्चात्सम्पूजयेद्गणम् । श्रीदामानं सुदामानं वसुदामानमेव च ॥ १८॥ हरिभानुं चन्द्रभानुं सूर्यभानुं सुभानुकम् । पार्षदप्रवरान्सप्त पूजयेद्भक्तिभावतः ॥ १९॥ गोपीश्वरीं राधिकां च मूलप्रकृतिमीश्वरीम् । कृष्णशक्तिं कृष्णपूज्यां पूजयेद्भक्तिपूर्वकम् ॥ २०॥ गोपगोपीगणं शान्तं मां ब्रह्माणं च पार्वतीम् । लक्ष्मीं सरस्वतीं पृथ्वीं सर्वदेवं सपार्षदम् ॥ २१॥ देवषट्कं समभ्यर्च्य पुनः पञ्चोपचारतः । पश्चादेवं क्रमेणैव श्रीकृष्णं पूजयेत्सुधीः ॥ २२॥ गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । देवषट्कं समभ्यर्च्य चेष्टदेवं च पूजयेत् ॥ २३॥ गणेशं विघ्ननाशाय व्याधिनाशाय भास्करम् । आत्मनः शुद्धये वह्निं श्रीविष्णुं मुक्तिहेतवे ॥ २४॥ ज्ञानाय शङ्करं दुर्गां परमैश्वर्यहेतवे । सम्पूजने फलमिदं विपरीतमपूजने ॥ २५॥ ततः कृत्वा परीहारमिष्टदेवं च भक्तितः । स्तोत्रं च सामवेदोक्तं पठेद्भक्त्या च तच्छृणु ॥ २६॥ महादेव उवाच । परं ब्रह्म परं धाम परं ज्योतिः सनातनम् । निर्लिप्तं परमात्मानं नमाम्यखिलकारणम् ॥ २७॥ स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् । सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ २८॥ साकारं च निराकारं सगुणं निर्गुणं प्रभुम् । सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ २९॥ अतीव कमनीयं च रूपं निरुपमं विभुम् । करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ ३०॥ कर्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः । फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ३१॥ स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः । नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ३२॥ स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् । तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ॥ ३३॥ स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया । स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ३४॥ तारकं सर्वदुःखानां सर्वकारणकारणम् । धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ३५॥ तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः । नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ ३६॥ रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः । नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ३७॥ प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् । सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम् ॥ ३८॥ देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् । स्वायम्भुवो मनूनां यो मानवेषु च वैष्णवः । नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥ ३९॥ ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः । एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥ ४०॥ सागरः सरितां यश्च पर्वतानां हिमालयः । वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥ ४१॥ पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् । वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ ४२॥ पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च । अमृतं भक्ष्यवस्तूनां नानारूपं नमाम्यहम् ॥ ४३॥ ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् । कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ ४४॥ तैजसानां सुवर्णं च धान्यानां यव एव च । यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ ४९॥ यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः । दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ ४६॥ वेदसङ्घश्च शास्त्राणां पण्डितानां सरस्वती । अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ ४७॥ मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् । इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ ४८॥ सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः । तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ ४९॥ बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् । कालः कलयतां यो हि तं नमामि विलक्षणम् ॥ ५०॥ ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ ५१॥ शिल्पीनां विश्वकर्मा यः कामदेवश्च रूपिणाम् । पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ ५२॥ प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च । शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ ५३॥ धर्म्मः कल्याणबीजानां वेदानां सामवेदकः । धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ ५४॥ जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु । शब्दरूपश्च गगने तं प्रणम्य नमाम्यहम् ॥ ५५॥ क्रतूनां राजसूयो यो गायत्री छन्दसां च यः । गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ ५६॥ क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः । पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥ ५७॥ तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् । गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ५८॥ तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान् । सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ ५९॥ सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् । आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ ६०॥ वेदानिर्वचनीयं यन्न स्तोतुं पण्डितः क्षमः । यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः ॥ ६१॥ वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती । तं च वाङ्मनसापारं को विद्वान् स्तोतुमीश्वरः ॥ ६२॥ शुद्धतेजस्स्वरूपं च भक्तानुग्रहविग्रहम् । अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ ६३॥ द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा । शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम् ॥ ६४॥ राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् । रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम् ॥ ६५॥ रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः । पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ ६६॥ वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् । रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ६७॥ शतश‍ृङ्गे महाशैले गोलोके रत्नपर्वते । विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ ६८॥ परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् । सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ६९॥ श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः । धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ ७०॥ हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः । इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ॥ ७१॥ सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् । तेजसा यशसा भाति यथा सूर्यो महीतले ॥ ७२॥ जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः । अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ॥ ७३॥ षडभिज्ञो दशबलो मनोयायी भवेद्ध्रुवम् । सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् । कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः ॥ ७४॥ इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् । तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् ॥ ७५॥ त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् । ममाशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ७६॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे द्वात्रिंशाध्यायान्तर्गतं महादेवप्रोक्तं स्तवप्रदानस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ३२/१०-१५॥ brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 32/10-15.. Proofread by PSA Easwaran
% Text title            : Mahadevaproktam Stavapradana Stotram
% File name             : mahAdevaproktaMstavapradAnastotram.itx
% itxtitle              : stavapradAnastotram (mahAdevaproktaM brahmavaivartapurANAntargatam)
% engtitle              : mahAdevaproktaM stavapradAnastotram
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | gaNapatikhaNDa | adhyAya 32/10-15||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org