मुचुकुन्दकृतं १ श्रीकृष्णस्तोत्रम्
मुचुकुन्द उवाच ।
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्त्तिहर नाशय मेऽशुभम् ॥ ३१॥
त्वं पयोनिधयश्शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा मनः ॥ ३२॥
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ ३३॥
शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४॥
त्वत्तोऽमरास्सपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५॥
सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६॥
मूर्त्तामूर्त्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्त्ता नास्ति किञ्चित्त्वया विना ॥ ३७॥
मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ ३८॥
दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९॥
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ ४०॥
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१॥
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तस्साहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२॥
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४॥
ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५॥
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्त्तान्तर्भ्रमामि परमेश्वर ॥ ४६॥
सोऽहं त्वां शरणमपारमप्रमेयं
सम्प्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेता
निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोविंशोऽध्यायान्तर्गतं
मुचुकुन्दकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ५/२३/३१-४७॥
viShNupurANa . adhyAya 5/23/31-47..
Proofread by PSA Easwaran