मुचुकुन्दकृतं १ श्रीकृष्णस्तोत्रम्

मुचुकुन्दकृतं १ श्रीकृष्णस्तोत्रम्

मुचुकुन्द उवाच । संसारपतितस्यैको जन्तोस्त्वं शरणं परम् । प्रसीद त्वं प्रपन्नार्त्तिहर नाशय मेऽशुभम् ॥ ३१॥ त्वं पयोनिधयश्शैलसरितस्त्वं वनानि च । मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा मनः ॥ ३२॥ बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् । पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ ३३॥ शब्दादिहीनमजरममेयं क्षयवर्जितम् । अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४॥ त्वत्तोऽमरास्सपितरो यक्षगन्धर्वकिन्नराः । सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५॥ सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः । यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६॥ मूर्त्तामूर्त्तं तथा चापि स्थूलं सूक्ष्मतरं तथा । तत्सर्वं त्वं जगत्कर्त्ता नास्ति किञ्चित्त्वया विना ॥ ३७॥ मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा । तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ॥ ३८॥ दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः । मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९॥ राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः । भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ ४०॥ सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् । परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१॥ देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि । मत्तस्साहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२॥ त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३॥ त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४॥ ततो निजक्रियासूतिनरकेष्वतिदारुणम् । प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५॥ अहमत्यन्तविषयी मोहितस्तव मायया । ममत्वगर्वगर्त्तान्तर्भ्रमामि परमेश्वर ॥ ४६॥ सोऽहं त्वां शरणमपारमप्रमेयं सम्प्राप्तः परमपदं यतो न किञ्चित् । संसारभ्रमपरितापतप्तचेता निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७॥ इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोविंशोऽध्यायान्तर्गतं मुचुकुन्दकृतं श्रीकृष्णस्तोत्रं समाप्तम् । विष्णुपुराण । अध्याय ५/२३/३१-४७॥ viShNupurANa . adhyAya 5/23/31-47.. Proofread by PSA Easwaran
% Text title            : Muchukundakritam 1 Shri Krishna Stotram
% File name             : muchukundakRRitaM1shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (muchukundakRitaM 1 viShNupurANAntargatam saMsArapatitasyaiko jantostvaM sharaNaM param)
% engtitle              : muchukundakRRitaM 1 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, viShNupurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : viShNupurANa | adhyAya 5/23/31-47||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, 9, Marathi)
% Latest update         : October 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org