मुचुकुन्दकृतं श्रीकृष्णस्तुतिनिरूपणम्

मुचुकुन्दकृतं श्रीकृष्णस्तुतिनिरूपणम्

मुचुकुन्द उवाच । पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे । द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ २६॥ स त्वं प्राप्तो न सन्देहो मर्त्यानामुपकारकृत् । तथा हि सुमहत्तेजो नालं सोढुमहं तव ॥ २७॥ तथा हि सुमहाम्भोदध्वनिधीरतरं ततः । वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥ २८॥ देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः । न शेकुस्ते महत्तेजस्तत्तेजो न सहाम्यहम् ॥ २९॥ संसारपतितस्यैको जन्तोस्त्वं शरणं परम् । सम्प्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम् ॥ ३०॥ त्वं पयोनिधयः शैलाः सतिरश्च वनानि च । मोदिनी गगनं वायुरापोऽग्निस्त्वं तथा पुमान् ॥ ३१॥ पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् । शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥ ३२॥ त्वत्तोऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः । सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३३॥ सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः । यच्च भूतं भविष्यद्वा किञ्चिदत्र चराचरे ॥ ३४॥ अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा । तत्सर्वं त्वं जगत्कर्तर्नास्ति किञ्चित्त्वया विना ॥ ३५॥ मया संसारचक्रेऽस्मिन् भ्रमता भगवन्सदा । तापत्रयाभिभुतेन न प्राप्ता निर्वृतिः क्वचित् ॥ ३६॥ दुःखान्येव सुखानीति मृगतृष्णा जलाशयः । मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३७॥ राज्यमुर्वी बलं कोशो मित्रपक्षस्तथाऽऽत्मजाः । भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ॥ ३८॥ सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय । परिणामे च देवेश तापात्मकमभून्मम ॥ ३९॥ देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि । मत्तः साहाय्यकामोऽभूच्चछाश्वती कुत्र निर्वृतिः ॥ ४०॥ त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् । शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४१॥ त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । अवाप्य पापान् पश्यन्ति प्रेतराजानमन्तरा ॥ ४२॥ ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् । प्राप्नुवन्ति महद्दुःखं विश्वरूपमिदं तव ॥ ४३॥ अहमत्यन्तविषयी मोहितस्तव मायया । ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥ ४४॥ सोऽहं त्वां शरणमपारमीशमीड्यं सम्प्राप्तः परमपदं यतो न किञ्चित् । संसारश्रमपरितापतप्तचेता निर्विण्णे परिणतधाम्नि साभिलाषः ॥ ४५॥ इति ब्रह्मपुराणे षण्णवत्यधिकशततमाध्यायान्तर्गतं मुचुकुन्दकृतं श्रीकृष्णस्तुतिनिरूपणं समाप्तम् ॥ १९६॥ ब्रह्मपुराण । अध्याय १९६/२६-४५॥ brahmapurANa . adhyAya 196/26-45.. Proofread by PSA Easwaran
% Text title            : Muchukundakritam Shri Krishnastutinirupanam
% File name             : muchukundakRRitaMshrIkRRiShNastutinirUpaNam.itx
% itxtitle              : shrIkRiShNastutinirUpaNam (muchukundakRitaM brahmapurANAntargatam)
% engtitle              : muchukundakRRitaM shrIkRRiShNastutinirUpaNam
% Category              : vishhnu, vishnu, krishna, brahmapurANa, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmapurANa | adhyAya 196/26-45||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : September 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org