मुकुन्दप्रसादस्तवराजः
अलङ्कारमोङ्कारमञ्जूषिकाया-
स्त्रिलोकीनिदानं त्रिवेदी निधानम् ।
मणिं कञ्चिदीडे सुमङ्गल्यशीलं
यशोदानशूरं यशोदाकिशोरम् ॥ १॥
?? आन्द्राभमिन्द्वरश्यामगात्रं
सनन्दादियोगीन्द्रवन्द्यं पवित्रम् ।
शरण्यं सहस्रांशुशीतांशुनेत्र
प्रपद्येऽनवद्याङ्गमक्रूरमित्रम् ॥ २॥
प्रकाशैकरूपं हृदाकाशदीपं
प्रमातारविन्दप्रभाचोरपादम् ।
महारत्नविन्यस्तमञ्जीरभूषा-
मयूखावलीलिप्तपादाङ्गुलीकम् ॥ ३॥
समुत्तप्तचामीकराकारवस्त्रं
कनद्दिव्यमाणिक्यकाञ्चीकलापम् ।
स्फुरत्कौस्तुभश्रीपरिव्याप्तवक्षः-
स्थलीलोलहारावलीराजमानम् ॥ ४॥
बृहत्कङ्कणाबद्धशोणाश्ममाला-
रुचिस्तोमसंरक्तहस्तारविन्दम् ।
सुवर्णाङ्गदज्योतिरुद्भासितांसं
परिष्कारनिष्केण पर्याप्तकण्ठम् ॥ ५॥
गदाशङ्खचक्रासिकोदण्डसेव्यं
भुजङ्गाधिराजाभिरामोरुबाहुम् ।
लसत्कम्बुबिम्बोकहृत्कन्धराभं
नवीनप्रवालप्रवाहारुणोष्ठम् ॥ ६॥
सुवृत्तातिशुद्धद्युतिस्निग्धदन्त-
प्रतिक्षिप्तसम्भिन्नकुन्दप्रसूनम् ।
हसत्कर्णिकारस्फुरत्कर्णिकार-
प्रभामञ्जरीपिञ्जरीभूतगण्डम् ॥ ७॥
प्रबुद्धारविन्दप्रतीकारनेत्रं
प्रकृष्टप्रकाशेन्दुदायादवक्त्रम् ।
किरीटद्युतिक्षिप्तसौवर्णगात्रं
कृपालुं परं नौमि पद्माकलत्रम् ॥ ८॥
समाकर्णितोदीर्णगन्धर्वचाटु-
प्रबन्धः पतङ्गप्रधानाधिरूढः ।
प्रपन्नर्तिहारः प्रणोदप्रवीणः
पुरस्ताददस्तात् पुराणः पुमान् नः ॥ ९॥
सुधासारसुश्वेतया देहभासा
समन्तान्निषिञ्चन् स पञ्चायुधो नः ।
सदा सन्निधानं निधानं बुधानां
विधेयादमेयागमान्ताविधेयः ॥ १०॥
जगन्नाथ जन्मादयस्ते न सन्ती-
त्यनेके गृणन्ति श्रुतीनां निगुम्भाः ।
असक्तस्वभक्तानुकम्पी पुरस्त्वं
दरीदृश्यसे देव नन्दादिगेहे ॥ ११॥
इहाजायमानो मुहुर्जायतेऽपी-
त्यसावादिदेवः श्रुतिः काचिदिन्धे ।
न चेयं विरोधप्रसक्तिर्यतस्ते
न खल्वीदृशं जन्मकर्मादि दिव्यम् ॥ १२॥
य एषोऽन्तरादित्य उद्यत्प्रकाशः
सुवर्णारुणश्मश्रुकेशः सुपर्णः ।
ज्वलद्दिव्यभूषांशुदेदीप्यमानः
स एवेति निश्चीयते साधुभिस्त्वम् ॥ १३॥
न तत्र प्रकाशत्यसौ तीव्रभानु-
र्न वा शीतभानुर्न ताराकुलानि ।
इमा विद्युतो नैव वह्निः कुतोऽयं
त्वदीयेन सर्वं प्रकाशन भाति ॥ १४॥
रसोऽसि त्वमप्सु प्रभा चण्डमानौ
सुगन्धोऽसि भूमौ सुधा शीतधाम्नि ।
भवान् पुंसि चैतन्यमूष्मा कृशानौ
धनुर्व्यानि च त्वं समीरे च सत्त्वम् ॥ १५॥
नरेन्द्रं नराणां सुरेन्द्रं सुराणां
धरित्रीधराणां च सौवर्णशैलम् ।
कवीनां च शुक्रं सुरायें गुरूणां
भृगुं त्वामृषीणां बुधाः सङ्गिरन्ते ॥ १६॥
कुमारो भवान् नाथ सेनापतीनां
मुनीनां भवान् व्यासनामा मुनीन्द्रः ।
भवान स्थावराणां तुषाराद्रिरुचै-
र्भवान् पारिजातोऽस्ति कल्पद्रुमाणाम् ॥ १७॥
भवान् शङ्करो नाम रुद्वेषु भद्रो
भवान् कापिली योगसिद्धेषु मूर्तिः ।
भवान् वासुकिः पन्नगेषु प्रवीरो
भवानुत्तमौजाः पतङ्गेषु तार्क्ष्यः ॥ १८॥
भवानक्षराणामकारः प्रतीतो
भवान् पाण्डवानामपि श्वेतवाहः ।
भवान् पादपानां वरः पिप्पलद्रु-
र्भवान् सामवेदोऽस्ति वेदेषु शौरे ॥ १९॥
त्वमुच्चैःश्रवा वाजिनां वारणानां
त्वमैरावतस्त्वं गवां कामधेनुः ।
त्वमम्भोधिजन्मासि रत्नं मणीनां
त्वमोङ्कारनामासि मन्त्रो मनूनाम् ॥ २०॥
श्रिया संविदा वा बलेनापि शक्त्या
रुचा वापि युक्तं परं वस्तु यद्यत् ।
तदेतत् समस्तं पुराणप्रवीण
त्वदीयांशसम्भूतमेवामनन्ति ॥ २१॥
ज्वलत्यग्निरूर्ध्वं मरुद् वाति दिव्यं
तपत्येष भानुः सृजत्यभ्रमम्भः ।
भुजङ्गाधिराजो भुवं चापि धत्ते
तवैव श्रियेति श्रुतिः प्राह शौरे ॥ २२॥
रमानाथ मध्येहृदम्भोजमध्ये
सदा सन्निविष्टं भवन्तं स्मरन्तः ।
अपारं समुत्तीर्य संसारवार्धिं
परं तत्पदं ते भजन्ते हि सन्तः ॥ २३॥
सलक्ष्मीकमम्भोधिमध्याधिवासं
समुल्लासिकल्हारमालाभिरामम् ।
घनश्यामवर्णं कदाचिद् भवन्तं
परं भावयन्तो भवन्तीह धन्याः ॥ २४॥
भवान् शङ्खचक्रे दधद् भानुचक्रे
सरोजाक्ष संवीक्ष्यते येन साक्षी ।
स निर्धूतपापस्तथा चाकशीति
प्रकृष्टोऽनिकृष्टो यथा भानुकान्तः ॥ २५॥
यदा चिन्त्यसे यैर्हरे चन्द्रबिम्बे
सुवाभिः प्रभाभिः प्रपञ्चं निषिञ्चन् ।
तदा त्वं पुरस्तान्मनस्तापमाला-
मशेवाममीषां धुनीषे निमेषात् ॥ २६॥
वरं पुस्तकं चाभयं हस्तपद्मे-
र्वहन्नक्षमालामपि स्फाटिकीं त्वम् ।
सुधानाथ सम्भाव्यसे येन शुभ्रः
स कर्ता भवेदाशु काव्यावलीनाम् ॥ २७॥
मुहुर्वल्लवीनां गणं मोहयन्तं
प्रलम्बालकान्तं कदम्बाधिरूढम् ।
निधत्ते यदा कृष्ण चित्ते स्थितं त्वां
तदा कामिनीनां भवेदेव कामः ॥ २८॥
महानीलगोत्रप्रभामित्रगात्रं
महाचित्रमायूरपिञ्छावतंसम् ।
महानन्दगोवृन्दमध्यस्थितं त्वां
महान्तः स्मरन्तो महीपा भवन्ति ॥ २९॥
समाक्रम्य पादेन दुष्टं भुजङ्गं
समालम्ब्य हस्तेन पुच्छं तदीयम् ।
सलीलं फणामण्डले तस्य नृत्यन्
समाधीयसे साधुचित्ते विषार्ते ॥ ३०॥
समुद्धृत्य गोवर्धनं छत्ररूपं
समस्तानि भूतानि भीतानि वर्षात् ।
अवन्तं भवन्तं सकृच्चिन्तयन्तो
दुरन्ताननन्तापदब्धींस्तरन्ति ॥ ३१॥
पवित्रं विचित्रं त्वदीयं चरित्रं
समाकर्ण्य कर्णामृतं पूर्णकामाः ।
गलत्तोयनेत्राः स्फुरद्रोमगात्राः
प्रहर्षप्रकर्षप्रवाहं प्रयान्ति ॥ ३२॥
कृती जीर्णचेलः कुचेलः कृशस्त्वां
प्रपेदे यदा देवभावानभिज्ञः ।
समस्तानि भाग्यानि तस्मै तदानी-
मदास्त्वं दुरापानि तत्तादृशानि ॥ ३३॥
हरे कृष्ण कृष्णेति कृष्णां वदन्ती-
मरक्षः समक्षं रिपूणां सभायाम् ।
अरण्ये शरण्योऽभवः पाण्डवानां
सरस्यां गजस्यापि जीवातुरासीः ॥ ३४॥
अहो देवदेव प्रभो कैटभारे
कुमारं चिरप्राप्तकीनाशलोकम् ।
मुकुन्द्रादिशस्त्वं मुदं चाप्यपूर्वा-
मुपाध्यायवर्याय विद्याप्रदाय ॥ ३५॥
इहानेकशोकावलीढाय गाढं
प्रतप्ताय वित्तानिलश्लेष्मपूगैः ।
हृषीकेश हीनाय दीनाय मह्यं
प्रसीद प्रसीद प्रसीद प्रसीद ॥ ३६॥
वदेयं वदेयं भवन्नाम दिव्यं
भजेयं भजेयं त्वदीयं प्रपन्नम् ।
जपेयं जपेयं मनुं तावकीनं
स्मरेयं स्मरेयं तवैवाङ्घ्रिपद्मम् ॥ ३७॥
हरे चक्रधारिन् हरे ह्लादकारिन्
महानक्रवैरिन् महीभारहारिन् ।
अहं त्वत्कथादुग्धपानं विनान्यत्
त्यजेयं त्यजेयं त्यजेयं त्यजेयम् ॥ ३८॥
इदं देव दृष्टिद्वयं मामकीनं
तवैवाङ्गसौन्दर्यमीक्षेत साक्षात् ।
असो नासिकापि प्रजिघ्रेत् पवित्रं
भवत्पादमूलार्पितं पत्रपुष्पम् ॥ ३९॥
नमेदेष मूर्चा पदाम्भोरुहं ते
तवैवार्चयेत् ताविमौ चापि हस्तौ ।
त्वदीयानि पुण्यानि धामानि गच्छेत्
पदद्वन्द्वमेतन्ममानन्त विष्णो ॥ ४०॥
पुरे वा बने वा गिरौ वा समुद्रे
यदा यत्र कुत्रापि यायाज्जनोऽयम् ।
तदा तत्र तत्रापि पक्षीन्द्रकेतो
भवानेव भद्रं विधेयादमेयम् ॥ ४१॥
तनोति श्रियं तावदाधिं धुनीते
करोति द्रुतं शर्म कर्माणि दोग्धि ।
प्रतापं दुरापं च विज्ञानरत्नं
प्रदत्ते च मुक्तिं मुकुन्दप्रसादः ॥ ४२॥
इति मुकुन्दप्रसादो नाम स्तोत्रराजः सम्पूर्णः ।
स्तोत्रसमुच्चयः २ (६७)
Proofread by Rajesh Thyagarajan