मुरलीनादधारास्तोत्रम्

मुरलीनादधारास्तोत्रम्

सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः- कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः । गोविन्दः कमनीयपीतवसनः गोपालबालावृतः कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ १॥ देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः । नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ २॥ पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः । नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ ३॥ आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् । मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ ४॥ सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता देवदैत्य- मर्त्यानां वा तिरशचां त्वमहमिति भिदा लेशलेशोऽपि कामम् । नासीद्देहत्रयादप्युपरतमनसस्सच्चिदानन्दरूपे भूम्नः पारे महिम्नि स्वनिगमशिखरोत्थार्थबोधान्निमग्नाः ॥ ५॥ श्लाघाचञ्चलमौलिना करलसत्सौवर्णवंशीभृता गोविन्देन सुधानिधानमधुराताम्राधरापूरितः । वेदान्ताम्बुधितीरचारिसुजनव्रातामितानन्दकृ- न्नादो गानसुधाभिवर्षिमुरलीखण्डोद्गतः पातु वः ॥ ६॥ रम्यालोलारुणाङ्गुल्यपिहितविवृतद्वारवेणुप्रगीर्णो मूर्च्छत्सप्तस्वरश्रीमिलितसुमधुरो नादवेदप्रघोषः । श्रोतॄणां भाग्ययोगात्-/पाकात्परमगुरुमुखान्निर्गतो लीलयैव श्रुत्वैवापाकरोति प्रतिभयभवदुर्गाटवीचारखेदम् ॥ ७॥ आचार्यान्नेतिनेतिश्रुतनिगमशिखावाक्यसारानभिज्ञः भो मर्त्या मर्त्यवर्गाः श‍ृणुत सुमधुरं वेणुगानं मुरारेः । स्थूलं ह्रस्वं च दीर्घं महदणु यदुत प्रेक्ष्यते यच्च याव- न्नैवैतत्सर्वमीक्षां कुरुत च मुरलीनादपीयूषमग्नान् ॥ ८॥ मायामर्त्यस्य मायामधुमयमुरलीगानलीनाशयानां मायापाशोपशान्त्या जगदिदमखिलं भाति सान्द्रप्रमोदम् । न त्वं मेने न वाहं न मम न च तवेत्यस्तसर्वप्रपञ्चाः श्रुत्वैवाखण्डसच्चित्सुखपरमहसि प्रापुरैक्यापरोक्ष्यम् ॥ ९॥ जाग्रत्स्वप्नसुषुप्तिभेदकलना बाल्याद्यवस्थास्तथा वर्णाद्याश्रमभेदबोधविषयाः पुंस्त्रीविवेकोऽपि वा । अन्ये चापि भिदास्तदा न हि बभुर्वंशीमुखानर्गला मन्दानन्दनिधाननादजलधौ मग्ना यदा मानवाः ॥ १०॥ ग्रावाणोऽपि द्रवन्ति प्रवहति न नदी नैव वायुश्च वाति सिंहो नैवाभिहन्ति द्विपवरमिभराड्योगचर्यां तनोति । मातापत्यं न वेत्ति प्रियमिति गृहिणी नन्दनश्चापि तातं बिम्बोष्ठाश्लिष्टवंशीस्रवदमृतरवे मायिना गीयमाने ॥ ११॥ नादान्तान्तर्गतं यत्परममहदिति प्रोच्यते योगिवृन्दैः वेदान्तान्तर्गतैश्च स्वमहातवचनैः स्फोरितं यद्ध्यणीयः । वादान्ताविष्कृतं तत्सदिति चिदिति चानन्द इत्यभ्युपेतं नादं ते नन्दसूनो मुरलिनिगदितं किं कदाऽऽकर्णयामि ॥ १२॥ दैत्यास्सन्त्रस्तचित्तास्सुरमुनिनिकराः कौतुकार्द्रान्तरङ्गाः सेन्द्रा देवाः प्रमोदामृतजलनिलये मग्नभावाः प्रकामम् । सिद्धास्साध्याश्च सिद्धिं परममिव गता मानुषा मर्त्यभावा- पेताः कृष्णस्य वंशीनिनदसमाकर्णनादेव चासन् ॥ १३॥ ध्यायेत्कल्पद्रुमूले नवघनसुभगं भानुकोटिप्रकाशं अम्भोजाक्षं रतीशायुतललिततमं बर्हिबर्हावतंसम् । व्यत्यस्ताङ्घ्रिंविनोदात्करधृतमुरलीं न्यस्य बिम्बाधरोष्ठे लीलाबालं त्रिभङ्ग्या विलसितवपुषं नादधाराभिवर्षम् ॥ १४॥ वामांसालम्बिरत्नोज्ज्वलमकरलसत्कुण्डलः कुञ्चितोष्ठ- प्रोद्यन्मन्दानिलेन स्वनिगममुरलीं पूरयन् मन्दमन्दम् । उन्नद्धभ्रूविलासस्फुरदुरुकरुणापाङ्गधाराभिवर्षी नादालापानुखेलच्चलमकुटतटः पातु पीताम्बरो नः ॥ १५॥ गोविन्दो मित्रवृन्दैः परिवृत उषसि प्रस्थितस्सुन्दरेण वेषेणाभूषितस्सन्कुतुकितमनसा घोषयन् श‍ृङ्गमुच्चैः । गोवृन्दं कालयन् श्रीयदुकुलतिलकः कानने गोपगोभि- रावीतो गीतवेणुर्वितरतु सकलं चिन्तितार्थं मुकुन्दः ॥ १६॥ रूपे यस्य त्वनन्ते नदजलधिनदीकूपवापीगिरीन्द्र- ग्रामग्रामीणपुर्याद्यचरचरगणा वृन्दशः प्रादुरासन् । तत्सर्वं संहृतं च प्रियतमवपुषा मोदबोधं प्रयच्छ- न्नेवं वंशीनिनादेऽप्यभवदिह भिदा शान्तविश्वस्वरूपम् ॥ १७॥ विश्वेशे विश्वरूपं कलयति विजये पश्यति स्वाभिपक्षं विश्वाधीशस्य वक्त्रं विशदथ सभयं प्राप्तबोधो व्यरंसत् । तस्माज्जातानि जीवन्त्यपि परमहसा यत्प्रयन्तीति भूम- गीतो बोधो य आसीत्स हि मुरलिकया गीत एवाभवत्प्राक् ॥ १८॥ सारथ्यं पाण्डवस्य स्वचरणशरणस्याचरन्नाजिभूमौ सारं स्वं शात्रवं चाकलयति नितरां फल्गुने स्यन्दनस्थे । सारम्भान् बन्धुमित्रप्रियगुरुनिवहान् वीक्ष्य चापे निरस्ते सारं बोधाय योऽदात्स गुरुरिह मुदे गीतवान् वेणुनादम् ॥ १९॥ पार्थस्यापार्थभावप्रशमनमिषतस्सात्वतानां शरण्यः पार्थक्यं पार्थिवश्रीमदकृतमिति यद्बोधयामास गीताम् । पार्थ त्वं कर्ममात्रं कुरु फलविषये मुञ्च चिन्तां दुरन्तां पार्थप्रेष्ठो यदूचे तदनु च गदितं वेणुगानेन पूर्वम् ॥ २०॥ नित्यो मुक्तोऽमृतोऽयं परशिवसुखचिच्छाश्वतो वा पुराणः आत्मा तस्माच्छरीरे हतिमुपलभते नैव चाहन्यमाने । तद्धित्वा जीर्णवस्त्रं नवमिवपुरुषो देहमन्यद्बिभर्ति को मोहस्तत्र शोकः विजय इतीवाह वेणुप्रणादः ॥ २१॥ गोपीमण्डलमण्डनो मुरलिकां पाणिद्वयेनोन्नमन् आताम्राधरबिम्बमन्दमरुता मन्दं मुदा पूरयन् । गोपीचन्दनकल्पितोर्ध्वतिलकं वक्त्रं समुद्योतयन् पायाल्लोकममन्दमोदजलधावामज्जयन् केशवः ॥ २२॥ वंशीनादे मुरारेर्वनभुवि मधुरे मूर्च्छति श्रोत्रयुग्मं कर्तुं पद्मोद्भवस्य श्रममतिवितथं मन्यते सर्वलोकः । स्वं स्वं कर्तव्यमर्थं झटिति च विगणय्यैव तत्रैव लीनो लग्नश्चित्रे यदासीदिव च निगमवाग्भातयोगप्रतिष्ठः ॥ २३॥ नादारोहावरोहैर्मधुरिपुमुरलीप्रोत्थितैः कालचक्रे भ्राम्यज्जीवव्रजस्य प्रतरणविधये योग एवोपदिष्टः । गानारूढस्य नस्तो जनिमृतिदुरिते पश्यताशेषजीवाः ब्रह्मप्राप्तो विमृत्युः किल भवति यथा तत्त्वमस्यादि वाक्यात् ॥ २४॥ आलापारोहवीचीचलदुरुशिखरान्मन्दमन्दावरोह- भङ्ग्या निष्यन्दमाने यदुपतिवदनाद्वेणुनादामृतोदे । तापात्तीरे पयोधेर्विहरणशरणास्तत्तरङ्गार्द्रवात- सिक्ता हृष्टा यथात्राप्यपरिमितसुखास्तापमुक्ता भवन्ति ॥ २५॥ पीयूषास्वादलोले दिवि सुरनिकरे मोदमग्ने मुनीन्द्रे वीणागानैकलीले सुरवरगणिकामण्डले नृत्यति द्राक् । उद्युक्ते स्वस्वकर्मण्यचरचरगणे गीयमानो मनोज्ञ- नादोऽतानीत्समेषाम्मधुरिपुमुरलीक्वाणघोषान्तरायम् ॥ २६॥ विक्षिप्याशेषहैमामृतभृतचषकान्यम्बरस्थास्सुरौघा निश्चेष्टाध्वस्तवीणस्स खलु सुरमुनिः श्लाघया मौलिकम्पी । चित्रारब्धा इवासन् कुतुकितहृदयादेववध्वो मुरारि- कान्ताताम्राधरोष्ठार्पितमधुमुरलीमोहनालापमग्नाः ॥ २७॥ केलीलोले कदाचिन्मरकतमणिसच्छायकाये निशीथे निद्राऽऽक्रान्ते जनौघे शशिसुभगतमे यामुने सैकते च । देवे पद्मासनस्थे करयुगलसमुन्नीतवेणुप्रकाण्ड- गानस्वानप्रबुद्धास्सुरनरनिकराः पादमापुः परस्य ॥ २८॥ वेदैर्वेद्योऽहमेविप्यखिलजनमनस्सन्निविष्टः श्रुतीना- मूर्ध्नां कर्तावबोद्धा प्रकृतिगुणगणासङ्गशुद्धोऽथ नित्यः । तन्मां वेदान्तवीथ्यविचिनुतहृदये साधवस्साधनाय स्वान्ते शान्त्येति बोधं दिशति हि भगवान् वेणुवेदोपदेशात् ॥ २९॥ सर्वे वेदाः पदं यत्परममभिवदन्त्याप्तुकामाः फलं य- दासेवन्ते तपांसि प्रियमिति किमु वा ब्रह्मचर्यं चरन्ति । तत्सत्यं धाममात्रात्रितयसुविवृतब्रह्मनादाख्यवेद- बीजोद्गीथो मुरारेर्मुरलिनिगदितस्सिद्धिमृद्धां विधत्ताम् ॥ ३०॥ भूषादिप्रेन्द्रचापो यदुकुलगिरिभूर्भक्तिपौरस्त्यवात- नुन्नो हैमाम्बरश्रीक्षणलसितवृतश्चारुपिञ्छावचूडः । श्रीकृष्णाख्या प्रसिद्धः करधृतमुरलीनादपीयूषवर्षी स्निग्धश्यामाम्बुवाहः कलयतु कुशलं योगिकेकिप्रकर्षः ॥ ३१॥ कान्तं तातं सुतं वा दुहितरमथवा मातरं वान्यबन्धून् एत्यानन्देन युक्ता रुषमथ च गता वेश्मधर्मे निरूढाः । श्रुत्वा कस्मात्तु लीलामनुजमधुरिपोर्वेणुनादामृतं तत् पायं पायं न तृप्ताश्चरणमुपगता गोपिकाश्चक्रपाणेः ॥ ३२॥ वृन्दारण्ये विहारी सुरनरशरणो गोपिकाजीवधातु- र्गोविन्दाख्याप्रसिद्धो व्रजभुवि विलसन् सुन्दरो नीलमेघः । भक्तानं कामवर्षी कनकमयलसच्चेलविद्युत्परीतः श्रेयो दद्यात्कराब्जोद्धृतमुरलिकया नादधाराभिवर्षी ॥ ३३॥ मन्दं मन्दमुपेत्य सुस्मितशरत्पूर्णेन्दुबिम्बोल्लस- द्वक्त्रं प्रोज्ज्वलचारुरत्नविरणन्मञ्जीरपादाम्बुजम् । स्निग्धश्यामलकोमलाभ्रतुलितानङ्गायुतश्रीधरं देवं हस्तगृहीतवेणुशकलं बालं कदाऽऽलोकये ॥ ३४॥ मा मा मर्त्य विषीद मामकमिदं रूपं समालोकय वीक्षस्वामलशारदाखिलशशिप्रस्पर्धि वक्त्रं मम । मज्जापाङ्गकृपोदके श‍ृणु रवं मञ्जीरजं पीयतां वंशीनादसुधा च माधव कदा मामित्यहो वक्ष्यसि ॥ ३५॥ आविर्भूय ममाग्रतश्शतसहस्रार्काधिकप्रोज्ज्वलः नीलाम्भोधरचारुताहरवपुः पीताम्बरालङ्कृतः । नानारत्नविचित्रभूषणधरो वेणुं रसात्कूजयन् गोपीमण्डलमध्यगो मम कदा कुर्यान्मुदं चक्षुषोः ॥ ३६॥ आदौ भाण्डीरवृक्षं तदनु च परितो गोसहस्रं सखींश्च गोपान् गोपीश्च मध्ये यदुकुलतिलकं वृक्षमूले निषण्णम् । मेघश्यामं शुभाङ्गं करधृतमुरलीगानलोलं कृपालुं दीनं मां सान्त्वयन्तं जनुषि मम कदा नेत्रपात्रीकरोमि ॥ ३७॥ वामांसाञ्चितवामकुण्डलभरो दभ्रोन्नतभ्रूलता- रम्योद्भ्रान्तसुदीर्घपद्मनयनसुस्मेरवक्त्राम्बुजः । बर्हापीडचलच्छिराः करसमुन्नीतार्यवेणुं मुदा कुञ्जत्ताम्रशुभाधरार्पितपदं गायन् स पायाच्छिशुः ॥ ३८॥ तेजःपुञ्जं पुरस्तान्नवघनवपुषं सर्वभूषादिरम्यं विद्युद्विद्योतिचेलं भुजधृतमुरलीं नादयन्तं स्मरामि । देवो दीनार्तिहन्ता मम कलुषभरं भञ्जयन्नब्जनाभः आविर्भूयात्कदा नु प्रणवमयसुधानादमोदं वितन्वन् ॥ ३९॥ श‍ृण्वन् वंशीनिनादं निमिषमिव नयन् वासरान् वत्सरान् वा गानानन्दामृताब्धावनुपमसुखदे गाढजातावगाहः । विस्मृत्याशेषलोकान् भवविपिनगतिं तापवर्गं च हित्वा पादं दामोदरस्य ध्रुवशिशुविषयं प्राप्नुयां भाग्यतः किम् ॥ ४०॥ (कारुण्याब्धे कथं वा तव चरणरतिं प्राप्नुयां नाथ दीनः ॥ ४०॥) अज्ञे मे निगमादिकर्तुरनघे वेदस्मृतीशाश्वते यस्तूल्लङ्घ्य यथेच्छमत्र विहरत्याप्नोति घोरां गतिम् । इत्युद्घुष्य जगत्परीक्षणविधौ वेणुं क्वणन्नादरा- न्नादामग्नचराचरं स भगवान् पश्यन्ननृत्यन्मुदा ॥ ४१॥ तात्पर्यं परमं हि पाण्डवसखे सर्वश्रुतीनां मतं पाराशर्यवचस्सु तत्प्रतिपदं विद्योतते सुस्फुटम् । तत्साक्षादिह कर्तुमाश्रितजनत्राता स्ववंशीवरं गायन्नादवशीकृताखिलजनं पादाश्रितं प्रैक्षत ॥ ४२॥ गायन्तं वेणुमुच्चैर्वनभुवि दयितं वल्लवीसुन्दरीणा- मावीतं नारदाद्यैरसुरसुरगणैस्सिद्धसाद्ध्यैश्च नाके । गोपीगोगोपवृन्दैर्वलयितमतसीगुच्छसच्छायकायं मायाबालं कदा वा नयनयुगमुदालप्स्यसे नन्दसूनुम् ॥ ४३॥ रासेशं रासगोष्ठ्यां व्रजकुलयुवतीमन्तरेणान्तरेण नृत्यन्तं नर्तयन्तं करधृतमुरलीं कूजयन्तं जयन्तम् । पश्येयं भागधेयाद्भवजलधिमहादुर्गपोतं वरेण्यं मायागोपालबालं कलरवकलितानन्दसान्द्रं मुकुन्दम् ॥ ४४॥ जारं मत्वापि गोप्यो यदुपतिमुरलीनादमोदातिभार- स्तब्धाङ्ग्यो नन्दसूनुं नवघनसुभगे बर्हिबर्हावतंसे । सम्मग्नाश्चारुरूपे शुचमपि विजहुः प्रापुरैक्यं पदाब्जे तत्सद्बुद्ध्या प्रपन्नाः किमु चरणतरिं नाप्नुयुः केशवस्य ॥ ४५॥ भक्त्या त्वय्यादिदेव व्रजकुलवनितास्त्वामबध्नन् महेश त्वद्भक्ताग्रेसरत्वं जगति हि सकले लेभिरे राधिकेश । तादृक्कारुण्यसिन्धो निरुपमकृपया देवकीभगधेय दीनं मां पाहि पाहि स्वकरधृतनदद्वेणुमन्त्रोपदेशात् ॥ ४६॥ कन्दर्पायुतकोटिकोटिसुभगं पीताम्बरालङ्कृतं ग्रैवेयाङ्गदकङ्कणादिलसितं चारुक्वणन्नूपुरम् । विस्मृत्यापि भवन्तमीश भवतस्ताम्राधरारोपित- श्रीवेणूच्चरदार्द्रनादलहरीं नो विस्मरेयं विभो ॥ ४७॥ मा गा मा गा विषादं त्यज मनसि भयं शान्तिमन्तर्भजस्व मत्पादाब्जं प्रपन्नो न हि भजति जनो दुर्गतिं तात सत्यम् । तत्त्वं तत्त्वं मदीयं श‍ृणु परसुखदं मा रुदो मा रुदेति नादालापेन वेणोर्मम मनसि कदा मोदमीशो विदद्ध्यात् ॥ ४८॥ श्रोतव्यो मन्तुमर्हस्तदुपरि नितरां ध्यानगम्यश्च वेदे- ष्वात्मावारेति मर्त्यं विपदि निपतितं प्रेक्ष्य सूत्रं दयार्द्रम् । तत्र श्रोतव्यमेव प्रवरमिति यतस्तत्त्वबोधो विभाती- त्येवं श्रीवेणुनादश्रुतिधृतमनसां कृष्णभक्त्या स्फुटं हि ॥ ४९॥ श्रुत्या श्रुत्यन्तगीर्भिर्भवभयदलने ब्रह्मविद्यैव गम्ये- त्येवं तात्पर्यधृत्या स्फुटतरमपि या बोधिता माधवेन । लब्धा चेत्सद्गुरोस्सा विदधिकशुभदास्यादितीर्त्थं जनाना- मन्तर्बोधाय मोदात्परमगुरुरसौ वेणुनादं जुघोष ॥ ५०॥ आत्मारामा मुनीन्द्रास्सततमननतश्छिन्नपाशाः प्रशान्ताः निर्द्वन्द्वा अप्यनन्ते रतिमधिकमुदा तन्वते चित्रमेतत् । तन्मूलं वन्यमालाललितजलदनीलाभमायाकिशोर- कूजद्वेणुप्रमूर्च्छन्मधुरनिनदितामग्नतां मन्महे च ॥ ५१॥ योगेनान्तर्निरुध्यानिलमथ यमिनो मोदनादानुबन्धं प्रेष्ठं लब्ध्वा विरक्ताः परमहसि युता इत्ययं सुप्रसिद्धः । तादृङ्नादानुभावं स्थिरचरनिकरप्रीतये दातुकामः कामाकल्पाभिरामः कलरवमुरलीनादमोदं वितेने ॥ ५२॥ दासीपुत्रोऽतिबालो द्विजवरकृपया प्राप्तसेवानुभावो ध्यायन् देवं मुकुन्दं सकृदिह सरसं प्रैक्षताक्षेण साक्षात् । भूयो द्रष्टुं स यत्तो न हि पुनरिह मां द्रक्ष्यसीतीरितोऽथ भूत्वा वीणामुनीन्द्रो मुररिपुमुरलीगानलोलोऽजनिष्ठ ॥ ५३॥ नादास्वादानुभावं विबुधमुनिवरः प्राप्तुकामे यशोदा- सूनोश्छात्रत्वमादावभजत मुरलीगानमाकर्णयच्च । तत्तत्त्वानिश्चयेनाकलुषितहृदयः वीणया साधयन् यः कालेनानन्तलीलारसकथनमहागायकत्वं प्रपेदे ॥ ५४॥ अन्तर्णादप्रणालीपरिचयविधये प्राग्यशोदासुतस्य वंशीनादानुसन्धामकुरुत सुचिरं नारदश्छात्रभावे । आचार्यस्येति वेणुं करपरिकलने नास्म्यहं शक्नुयामि- त्याचारेणादरेण स्वनिगमदमतं वीणयैवाजुघोष ॥ ५५॥ देवस्यैव प्रसादादखिलजनिमतां देशिकेन्द्रस्य कामं त्रैलोक्यान्तर्यथेच्छं विहरणपरमो वीणयाबोधयच्च । वेणोर्नादप्रभावं मुररिपुगदितं मर्त्यवर्गस्य शान्त्यै नादान्ते बोधदं चाकलयत मुरलीहस्तमित्यभ्रनीलम् ॥ ५६॥ सामोदं हस्तपद्मोन्नमितशुभलसत्पक्वबिम्बाधरोष्ठं न्यस्तश्रीनादधानीमणिमयमुरलीगानलीलाविलोलः । धाम स्वं नादधारापतितपरवशप्रेष्ठपादाश्रितानां जीवानां सन्ददानः करिवरवरदः पातु देवो मुकुन्दः ॥ ५७॥ यद्वेणुप्राणनादश्रवणहृतधियां स्थावराणां चराणां नासीद्भेदो न चाभूज्जनिकृतविषमप्रत्ययो वा तदात्वे । सद्यस्ते धूतपापास्सकुतुककरुणापाङ्गधाराभिषिक्ताः कामं नादामृतादास्सततमपि तथा भावमावव्रिरे च ॥ ५८॥ यद्यद्वा मधुसूदनस्य चरितम्माधुर्यधुर्यम्मतं तत्रापि प्रियमेकमेव बहुशः प्रेश्क्ष्यापि वीक्षामहे । यन्मायाशिशुभावमेत्य सदयं गोगोपगोपाङ्गनाः सद्यः श्रीमुरलीनिनादविजितत्रैलोक्यबोधं व्यधात् ॥ ५९॥ वृन्दारण्यस्थलेषु प्रकटितकपटश्यामडिम्भं कदाचित् गोवत्सांश्चारयन्तं मधुमथनविभुं गोपबालैर्ललन्तम् । प्रेक्ष्याजोऽजावशं तं निखिलमपि हरन्नप्यसौ स्वेशशक्त्या सृष्ट्वा सर्वं पुरेव स्वरितमधुझरीं वेणुनेशो ववर्ष ॥ ६०॥ अब्दान्ते मायि मायां सुनिपुणमवलोक्येशितुस्तां विभूतिं धाताभूच्छान्तदर्पःस्वकलितदुरितं क्षन्तुमीशं ययाचे । अस्तौद्वंशीनिनादामृतभणितिसमाकर्णनानन्दमग्नो भूम्नस्तत्पादपङ्केरुहविरहभियानिन्ददाद्यस्स्वधाम ॥ ६१॥ कर्मज्ञानेशभक्तिप्रकरणगहनापारवेदाम्बुराशिं स्वेच्छामन्थानदण्डावलितगुणविदा यत्नहस्ताञ्चलेन । मथ्नन् मायाकिशोराकृतिरिह जगतीबालकस्यार्तिशान्त्यै वंश्यादान्नादवेदामृतमतिमधुरम्म्मोदयन्नादिदेवः ॥ ६२॥ प्राणानायम्य सम्यङ्नियमितमनसा येगिभिः स्वाद्यमानो नादश्चानाहताख्यः किमु सुखद इति प्राप्तशङ्काकुलानाम् । वैशद्यायान्तरं तं निनदितममृतास्वादवेणुप्रगीर्णं सम्मोदायाजुघोष व्रजभुवि विहरन् कोऽपि गोपीमनोज्ञः ॥ ६३॥ वेदो धर्मार्थकामामृतपदगमकस्तत्तदिच्छानुरूप- सारस्सेव्यज्जनानामिति तु सुविदितस्तद्वदत्रापि मर्त्याः । वेदप्रोक्तुर्मुरारेर्मुरलिनिनदितानन्दनादाख्यवेद- सेवालोला भजन्ते फलमपरिमितं पादभक्तिं च भूम्नः ॥ ६४॥ ओमित्येवं प्रणादस्त्रिविधनिगमवाक्सारभूतोजविष्णु- रुद्रात्मा लोकरूपी श्रुतिमय उभयब्रह्मरूपी प्रसिद्धः । तं नादं वेणुनासौ सरसमनुनदन् नादवेदार्थरूपी तुर्यं स्वं धाम भक्तान् प्रतिनिगमयति श्रीहरिः पादभक्त्या ॥ ६५॥ गानाकृष्टास्तदन्ते मधुरसविरहात्पादमूलं प्रपन्नाः त्वं वै सर्वं त्वदन्यं न हि निखिलगुरो वेद्मि मां पाहि दीनम् । इत्थं नादान्तदीप्तं परमपि पुरुषं बोधयित्वाञ्जसैव नादस्योङ्कारतत्त्वं स्फुटमपि कलयन् वासुदेवो बभासे ॥ ६६॥ शिञ्जद्रत्नप्रदीप्तप्रणिपतितजनाभीतिदानैकदक्षं मञ्जीरं मञ्जुपादाम्बुजलसिततमं तालदाने नियुज्य । देवो दीनार्तिहन्ता मम मनसि मुदं स्यन्दयन् वेणुगानं लीलालापप्रकारं किमु मम पुरतः स्वीकरिष्यत्यनन्तम् ॥ ६७॥ आत्मा सच्चित्सुखात्मा व्यपगतकलुषद्वन्द्वमोहः स्वदीप्त्या सर्वं व्याप्यावतिष्ठन्नकृतकवचनैर्वेद्यरूपो विभाति । तं चात्मानं रसो वै स इति रसघनं यं समाश्रित्य याति चानन्दं चेति वेदं निगमयितुमसौ वेणुनादं जुघोष ॥ ६८॥ राकाचन्द्राभिरम्यैर्निशि विपिनतटे वेणुमुच्चैर्विनाद्य सद्यस्संप्राप्तगोपीजननिवहवृतस्ताभिरीशस्तु रेमे । तास्त्यक्त्वान्तर्धिमाप प्रभुरिति महता शोकभारेण गोप्य- स्ताम्यन्त्यस्तत्तु नादं मणिमुरलिभवं शुश्रुवुः श्रीधरस्य ॥ ६९॥ श्रुत्वा नादं मुरल्याः क्वनु किल मुरलीगानलोलो भवेदि- त्येवं नादाख्यतन्त्या नियमितमतयस्तत्समीपं ययुस्ताः । यातार्याः मात्रवासं कुरुत कुलवधूदूषणं चेति गोप- बालोक्ताश्शोकतान्ताः कलमुरलिरवैस्तोषयामास तन्वीः ॥ ७०॥ चन्द्र त्वं पूर्णचन्द्रप्रतिभटवदनं हेत(??)मालामलाभं कुन्द त्वं कुन्ददन्तं नलिनि तु नलिनीपत्रनेत्रं त्वपश्यः । एवं गोप्यस्सकामा यदुजलधिशशिं देवमन्विष्य याताः कान्त्या कन्दर्पतुल्यं मणिमयमुरलीगानलोलं स्वपश्यन् ॥ ७१॥ शर्वब्रह्मेन्द्रमुख्या गगनभुवितता व्योमयानैर्निलिम्पा- श्चित्रन्यस्ता इवासन् स्थिरधृतकरणाः कौतुकाकम्पिशीर्षाः । राधाकान्तस्य कान्तस्वनितमुरलिकानादमाधुर्यसक्त- चित्ताश्शक्ता न तत्त्वं सुनिपुणमनुचिन्त्यापि वक्तुं च वेत्तुम् ॥ ७२॥ आनन्दोद्रेकरूपान्मधुरसमधुराद्यन्मनोज्ञान्मनोज्ञ- मानन्दं स्वादु हृद्यं मधुरिपुमुरलीनादमाधुर्यधाम । नित्यं सत्यं विधत्तां मम हृदि कुतुकं मत्तमत्तेभहन्ता स्वान्तं मे गानशैलीपरिचयविशदं चास्तु शान्तं नितान्तम् ॥ ७३॥ गाने पीयूषधाराधिकमधुरतमे स्यन्दमाने मुकुन्द- सेवाहेवाकिदेवप्रकरमुनिजनानन्दसन्दहरूपे । को देवः को मनुष्यः किमु जडमितरच्चेति विभ्रष्टभेद- भावाल्लीनं यथाभूदुपरतसकलं यत्पुराभासत द्राक् ॥ ७४॥ मत्स्ये दृष्टं न चैतत्सकरुणचरिते कच्छपे नैव दृष्टं एवं कोले नृसिंहे सुरमुनिविनुते वामने नापि जातम् । रामे रामे न रामेऽप्यभवदिह यदुष्वेष कृष्णेति नाम्ना यच्चक्रे चक्रपाणिर्मणिमयमुरलीगानलीलाविनोदात् ॥ ७५॥ त्रातुं देवान् कमलनयन त्वं पुरा कल्पसिन्धौ धृत्वा मात्स्यं वपुरपि विभो चित्रचर्यां कृतोऽसि । किं चापास्त्वं रविसुतमनुं चाक्षुषे सम्प्लवे च सर्वं भूमन् तव मुरलिकानादधारासमं किम् ॥ ७६॥ उद्धृत्य क्ष्मां दितसुतबलप्रापितां श्रीवराह- मूर्तिं धृत्वा जलनिधितटं प्राप्य दैत्यं च हत्वा । धात्रीं यज्ञः पुनरपि पुरेवाब्धिमध्ये निवेश्य यत्कृत्यं ते ननु मुरलिकानादधारासमानम् ॥ ७७॥ पीयूषं प्राप्तुकामे दितिजसुरगणे क्षीरपाथोनिधानं मथ्नत्या मग्नमन्थक्षितिधरमधरः पृष्ठतः कूर्ममूर्तिः । चित्रं यत्तत्कृपाब्धे तव शुभचरितं श्याममूर्ते तथापि कृष्णस्सन् वेणुनादामृतरसकलनाचित्र तुल्यं नु भाति ॥ ७८॥ दैतेयानामघं द्राक् शमयितुमखिलत्रास्ति देवो मुकुन्द- इत्युक्तिं भक्तवश्यः पदकमलभृतस्सत्यमेवाथ कर्तुम् । भित्वा स्तम्भं सभायां नरहरिवपुषाभ्येत्य दैत्यं विदीर्यन् देवांश्चापादितीदं चरितमपि विभो वेणुनादेऽधमर्णम् ॥ ७९॥ उपेन्द्रः प्राग्भूमिं दिवमथ च शीर्षं स्वकपदै- स्त्रिभिः क्रान्त्वा दैत्यं बलिमथ रुरोधातलभुवि । पुरा खर्वः पश्चादुरुधृतशरीरस्सुरपतिः व्यधाच्चित्रं वृत्तं तदनु मुरलीनादतुलितम् ॥ ८०॥ अयोध्यायां श्रीमान् दशरथसुतो राम इति च स्वयं जातस्तातप्रकथितमृतं कर्तुमटवीम् । अटन्नब्धिं बद्ध्वा दशवदनमाजौ च हतवान् चरन् देवाभीष्टं तदपि न तुला वेणुविहृतेः ॥ ८१॥ कृष्टे दुश्शासनेन द्रुपदतनुभुवः कौरवाणां सभायां केशे कौशेयके च व्रजपतिशरणां केशव द्वारकेश । हा कृष्णेत्यारुदन्तीं सकरुणहृदयस्तामनाथामरक्षः किं मां दीनं न पासि प्रियमधुमुरलीनादधारामृतेन ॥ ८२॥ यूथैर्मोदात्तटाकं द्विरदकुलपतौ गाहमाने महोग्र- ग्राहाक्रान्तेति दीने बहुतरमभियुज्यापि वैफल्यभाजि । त्रायस्वानाथबन्धो वरद इति नदत्यात्तचक्रोऽथ नक्रं भित्वा रक्षां व्यतानीः किमु मम शरणं वेणुगानं न रासि ॥ ८३॥ कंसप्रेक्ष्यां कदाचित्तव सदनगतामिन्दिरासुन्दराङ्गीं डोलायां राजमानं मरकतवपुषं छद्मगोपालबालम् । धृत्वा स्तन्यं दिशन्तीमहनदपि ददौ यो गतिं योगिगम्यां दीने किं वा कृपाब्धे न किरसि मुरलीनादधारामृतोदम् ॥ ८४॥ आर्तानामार्तिशान्त्यै जगति सुविदिताभीष्टदा नादधारा तत्ते हृद्यं पदाब्जं भवकलुषहरं हे मुरारे भजेऽहम् । तन्मह्यं क्षुत्पिपासापरवशितहृदे देहि ते बालकाय क्षिप्रं त्वद्वेणुनादामृतमधुरपयःपूरमानन्दरूपम् ॥ ८५॥ कैशोरे वेणुगीतं सरसमुपनिशम्यापि कालातिपातात् पार्थो नष्टस्मृतिस्त्वां सुहृदमथ रणे स्यन्दनस्थं ह्यपृच्छत् । सर्वं तद्गीतिकार्थं यदुकुलतिलको बोधयस्त्वं हि साक्षात् तन्मूसं वेणुनादं क्वनु किल सुकृती माधवाकर्णयेयम् ॥ ८६॥ मायामर्त्यस्य मायामयचरितशतेष्वप्यसङ्घ्येषु जाग्र- त्स्वत्र श्रीगोपनारीजनरमणकृतं चित्रमेतच्चरित्रम् । तत्रापि श्रीयशोदासुतवदनमरुत्पूरितानन्दनाद- धारासारेण वेणोः कलिमलमथनं यच्चरित्रं पवित्रम् ॥ ८७॥ मात्रा कालकलाकलापविवृतेषूच्चावचत्वं गते- षूच्चैस्ताललयादिजातिविलसद्रागेषु नैकेषु च । मूर्च्छत्सूत्सुकदेवकीसुतमुखाम्भोजोच्चरद्वंशिका- नादानन्दसुधाझरीषु विहरन् धन्यो भवेयं किमु ॥ ८८॥ पारावारात्प्रगद्भत्तरलतरतरङ्गालिमालेव रम्यो भूयो भूयोऽनुगच्छद्गतिलयललितोद्गीतरागप्रकाण्डः । लीलागोपालबालस्मितसुभगतमारक्तबिम्बाधरोष्ठ- न्यस्तश्रीवेणुनादः श्रवणपुटगतः स्याद्यदि स्यां हि धन्यः ॥ ८९॥ नादानन्दामृतोदा नवरसभरिता रागकल्लोलमाला मात्रातालप्रपञ्चप्रकटितविविधावर्तगर्ता मनोज्ञा । नादारोहावरोहक्रमसमविषमा गीतिकाबुद्बुदा च वेणुद्वारेण दिव्या निपतति तटिनी भूतये नः कृपार्द्रेः ॥ ९०॥ नादे वंशीसमुत्थे श्रवणपुटगते देवतिर्यङ्नराणां सिद्धानां चारणानां स्थिरचरजगतां स्वान्तपद्मानि जग्मुः । सर्वं ब्रह्मेति तत्त्वं भवसि च मनसो यन्मनश्चेति तत्त्वं मोदादालग्नभावाः परमहसि रता वासुदेवाभिधाने ॥ ९१॥ यच्छ्रेयः श्रेयसोऽपि प्रियतमविषयं प्रेयसोऽपीष्टमिष्टात् कान्तं कान्तान्मृदिम्नो मृदुगुरुगुरुणो यद्ध्यणोरप्यणीयः । मूर्च्छन्नाभीरयोषित्प्रियशिशुमुरलीमोहनालापनादो भूयाः कामाय नः स्यादभिमतसकलाभीष्टदस्सर्वदापि ॥ ९२॥ राकाचन्द्रसमुज्ज्वलाच्छयमुनातीरे स गोपैर्वृतः मूले नीपतरोर्नवीनजलदश्यामो मुरारिर्मुदा । मन्द्रं मञ्जुकराङ्गुलीर्विवरकेष्वालोलयन् यादव- प्राणो मोहनवेणुगानरसिकः पायाद्यशोदाशिशुः ॥ ९३॥ वृन्दारण्ये तृणचरगणानुद्रुतश्शक्रनील- च्छायादीप्यन्मदनमदनो नन्दगगोपालसूनुः । वेणुं कूजन् वनभुवि चरन्मुग्धगोपालबाल- मित्रैर्वीतः प्रहसितमुखः पातु वंशीविनोदः ॥ ९४॥ गोपीकामावतारस्सुललितविचलन्मूर्धनेत्राभिरामः बिम्बोष्ठन्यस्तवंशीमधुमधुरगिरा मोदयन् योगिवृन्दम् । व्यत्यस्ताङ्घ्रिर्मुरारिर्व्रजकुलवनितामण्डलान्तर्विलासा- न्नृत्यन्नत्यन्तमीशः प्रदिशतु सकलं मङ्गलं गानलोलः ॥ ९५॥ नीपस्कन्धं किसलयसुमव्रातसंवीतचारु- कश्चित्स्थित्वा सुरपतिमणिश्यामकामाभिरामः । हस्ताब्जेन स्वरदसुषिरान् छादयन्नन्यहस्ते- नोष्ठप्रान्ते परिचयवता वेणुना सञ्चुकूज ॥ ९६॥ पर्यायेण स्वयमभिमृशन् हस्तशाखाभिरेव द्वाराण्यारादुपरि मधुरे न्यस्य बिम्बाधरोष्ठे । वेणुं गायन् कमलनयनः कोऽपि तापिञ्छवर्णः कामान् दुग्धे कलरवसुधानादमग्नाशयानाम् ॥ ९७॥ वंशीरत्नं नलिनसुभगेनाग्रहस्तेन चारु बिम्बस्तम्भाहरणमसृणारज्यदोष्ठे निधाय । दन्तानीषच्छशिकरनिभान् भासयन्नन्तरेण वक्त्रेन्दुस्ते जयति जगताम्मोहकस्ते प्रगातुः ॥ ९८॥ (गानारम्भे तव मुखशशी राजते मे हृदब्जे) लोकान् सप्ताप्यमितनिजसन्नादभूम्नामृतेन सिञ्चन् रन्ध्राकलितरुचिराग्राङ्गुलीन्यासमित्रः । वक्त्राब्जे ते भ्रमरसुषमं नृत्यरङ्गे सुनृत्य- न्नेत्रद्वन्द्वं बहु विजयते लोकतापापहारी ॥ ९९॥ नादाक्रान्ते जगति हि जनस्सद्य एवातिमोहा- दाविष्टान्तास्सममनुपतन्त्यर्भकैर्दारवर्गैः । भुक्त्वा दुक्त्वा निरवधिसुखं भूय एवातितृप्ताः सङ्कल्पेनाप्यविदितभिदस्त्वां हि नाथं भजन्ते ॥ १००॥ आरुह्यामन्दमोदात्प्रसवभरलसन्नीपवृक्षं समन्ता- च्छीतांशोरंशुजालैर्धवलितविषये हन्त दिक्चक्रवाले । जाते कस्मान्निशीथे जनरवरहिते श्यामगम्भीरवेषो विश्वेषाम्मोहनाय श्रितकपटनयो वेणुना सञ्चुकूज ॥ १०१॥ राकाखण्डेन्दुबिम्बद्युतिहरवदनोल्लासि बिम्बाधरोष्ठे मन्दं मन्दं करेण प्रखचितमणिमद्वेणुखण्डं निवेश्य । सान्द्रानन्दामृताब्धिर्मुखलवमरुतापूर्य सम्मोहनाख्यं रागं रागेद्धरन्ध्रार्पितकरकलिको मोहयन् सन्ननाद ॥ १०२॥ गत्वा वृन्दावनान्तं तरुवरनिबिडं गोपयोषाविभूषाः नीपस्कन्धाधिरूढं मणिमुरलिधरं बालगोपालवेषम् । नीलापाङ्गैस्तरुण्यस्सुरपतिमणिसच्छायकायं किरन्त्यः प्रेम्णा कन्दर्पदर्पप्रमथनवपुषः पादपद्मं प्रपन्नाः ॥ १०३॥ वेणुद्वारेषु सप्तस्ववहितमनसा चारयन्नङ्गुलीनां वृन्दं गानामृतेनत्रभुवनमपि सम्मोहयन् श्यामधाम । गोपानां कामपूरं झटिति च कलयन् कम्प्रमूर्धेक्षणश्च जीयाद्गोपालबालः स्मितरुचिरमुखो गोपिकावृन्दमध्ये ॥ १०४॥ आकर्ण्याकालगीतं मुरलिनिगलितं छद्मगोपालबाल- जल्पं मुग्धाः प्रमुग्धा व्रजकुलवनिताः सम्भ्रमात्त्यक्तनिद्राः । मुक्त्वा कालेऽपि गेहं पतिसुतनिकरं सर्वमेवावशास्ता- स्सञ्चेलुर्यत्रवंशीविलसितनिपुणश्यामकामाभिरामः ॥ १०५॥ प्रेम्णा बालं स्वकीयं स्तनकलशयुगस्यन्दि दुग्धं सुहृद्यं नर्मोक्त्या पाययन्ती परिचितमश‍ृणोद्दिव्यगानं समन्तात् । जीमूतध्वाननृत्यच्छिविगण इव चात्यन्तमोदातिभारात् प्रायाद्वंशीधरस्यान्तिकमतिकुतुकात्त्यक्तबाला तु कापि ॥ १०६॥ आर्तं कान्तं हि काचित्परिचरणपरा भोजनाद्यैः प्रसाद्य शय्यायां स्वास्तृतायां शयनविधिमुखे वेणुगानं निशम्य । सन्त्यज्य द्रागुपेता यदुकुलतिलकस्यान्तिकं गोपकान्ता मन्त्रेणेवावकृष्टा फणिकुलवनिता जातरागावतस्थे ॥ १०७॥ काचिद्व्यत्यस्तवस्त्राभरणसमुदया वेणुगानश्रवेण क्षिप्रं गोपालबालाननशशिसुषमां द्रष्टुकामा हि वामा । स्वैरं यान्ती ललज्जे न हि पथि दयिते श्यामले बद्धभावा दृष्ट्वा कामाभिरामं कलिमलहरणं मोदपूरे ममज्ज ॥ १०८॥ पीठं पीठेऽधिरोप्य प्रभुरुपरि समारुह्य हैयङ्गवीनं कृत्स्नं मृष्ट्वाथ दृष्टां त्वरितमुपगतां काञ्चिदाभीरनारीम् । मातः किं श्रोतुकामा मधुरमुरलिकानादसौभाग्यधामे- त्युक्त्वा कोपं तरुण्यास्सरसमपनयन् पातु देवो हि गायन् ॥ १०९॥ गोविन्दो गोपनारीभवनमनुविशन् मित्रगोपालबालै- रावीतः कामवेषः कपटशतपटुश्चौरनाट्यं वितन्वन् । शिक्यस्थाद्गव्यभाण्डाद्दधिघृतनवनीतादिसर्वं मुषित्वा सन्तृप्तस्तर्पयंश्च स्वरमयमुरलीमूर्च्छनामाललाप ॥ ११०॥ श्यामाङ्गः क्वापि भाण्डं नवनलिनदलस्पर्धिनेत्रस्समीक्ष्य प्रांशुप्रालम्बियन्त्रस्थितमथ कुतुकाद्दण्डपातैः प्रभिद्य । तद्द्वारोपान्तधारानिपतितमखिलं मित्रवृन्दैः पिबन्तं गव्यं दृष्ट्वा गतान्या सरभसमुरलीगानलीना विमूढा ॥ १११॥ अन्यत्रानन्दरूपी दधिघृतनवनीतादिकालाभरोष- दोषाविष्टो बभञ्चान्तिकनिहितमसौ भाजनानां सहस्रम् । क्रोशन्तीं चोरचोरेत्यभिमुखपतितां वीक्ष्य कोणे निलीनः मुग्धां सद्यः स वेणुक्वणितमधुवशां राधिकेशो वितेने ॥ ११२॥ धृत्वा गोवर्धनाद्रिं नवघनसुभगः पद्मपत्रायताक्षः स्वाङ्गुल्या लीलयैव प्रियपदशरणान् त्रातुमेवानुकम्पी । बालोऽयं पारयेद्वा गिरिमिति तमसा दैन्यभाजां विषाद- शान्त्यै कान्ताननेन्दुः कलरवमुरलीमुच्चकैराजुघोष ॥ ११३॥ (कृत्स्नं भाण्डात्प्रमुष्णन् त्वरितमुपगतां काञ्चिदालोक्य गोपीं) मुष्णन्तं कृष्णमारात्त्वरितमतिरुषा बद्ध्य मातुर्नयन्ती सान्निद्ध्यं मार्गमध्ये सुमहति सदसि प्रेष्ठवंशीनिनादम् । कूजन्तं मोदयन्तं स्थिरचरनिकरं मज्जयन्तं सुधाब्धौ गानाख्ये नन्दभाग्यं सकुतुकनयना प्रेक्ष्य तस्थौ शिलेव ॥ ११४॥ गोपिमण्डलमध्यगोऽतिललितस्तिष्ठंस्त्रिभङ्ग्या कर- प्रान्तोन्नीतशुभारुणाधरपुटन्यस्ता मुदा वंशिका । नादानन्दसुधामयीं श्रुतिसुखां वृष्टिं सुपुण्यात्मनां संसारानलतप्तचित्तजनतामोदाय वर्षन् बभौ ॥ ११५॥ गोप्यः क्षीरादिगव्याभृतकलशचयं शीर्ष्णि कामं वहन्त्यः विक्रेतुं वीथिकासु प्रियवचनशतैरालिभिस्संव्रजन्त्यः । दृष्टाः कृष्णेन मन्दं तरुवरमधिरुह्याहृते गव्यकुम्भ- स्तोमे सन्त्रस्तगोपीश्रवणपुटयुगे वेणुनादं जुघोष ॥ ११६॥ श्रुत्वा कस्मान्निशीथे मुरलिमधुरवं गाढनिन्द्राप्रबुद्धा गन्तुं सज्जाथ रुद्धा निजजननिवहैर्वेश्मनोऽभ्यन्तराले । इच्छाभङ्गान्निरीहा हृदि घनसुभगं चन्द्रकोटिप्रकाशं ध्यायं ध्यायं प्रशान्ता मधुपतिचरणाम्भोजसायुज्यमाप ॥ ११७॥ ग्रीष्मे मार्ताण्डबिम्बे तपतिवनभुवि स्वोग्ररश्मिप्रतानैः गावो ग्लानिं प्रयाता मृदुतृणकबलभ्रान्तभास्वन्मरीच्यः । ताम्यन्तीस्ताःकृपार्द्रस्तरुवरनिबिडच्छायमभ्येत्य रम्य- माह्वातुं वेणुमुच्चैररणयदनघो गोपकन्याभुजङ्गः ॥ ११८॥ नादे मोदप्रपूरे श्रुतिपथपतिते प्रेष्ठगोपालबाल- धेन्वः कृष्टान्तरङ्गा यदुपतिनिकटं प्रत्यधावन् प्रहर्षात् । उत्पुच्छास्सत्वरास्ता मुरलिमधुरवानन्दमग्नाः प्रकामं ध्यानामीलदृ(द्दृ?)शस्तत्पदकमलपुटं योगिचर्याः समीयुः ॥ ११९॥ गानानन्दे निमग्ना वनचरनिवहा स्थावरा जङ्गमा वा जीवास्साफल्यमीयुर्जनिकृतमखिलं कश्मलं तत्यजुश्च । क्षुत्तृट्कामानुपेताः परमसुखसुधाम्भोधिमग्नाः परस्य पुंसः श्रीवेणुनादामृतजलदभवे वल्लवीभागधेये ॥ १२०॥ सिद्धास्साध्यास्सुरौघा मुनिजननिवहाः श्रीमदाभीरनारी- जारोद्गीतातिधीरश्रुतिमधुरमधुस्यन्दिवेणुप्रणादे । मग्ना लग्नाश्च लीना वनभुवि यमुनातीरपुण्यप्रदेशे- ष्वेको वा स्यां तृणोऽपीत्यथ हृदि नितरां मेनिरे भाग्यमेतत् ॥ १२१॥ स्पृष्टे भाण्डे परेण स्वनमुखरचलच्छिक्यसंसक्तखण्डा- सन्नादोद्बुद्धगोप्यास्सचकितनयनप्रेक्षणीयोरुभीतिम् । बद्ध्वा पाशैर्नयन्त्या पथि तमनुययुर्वेश्म नन्दस्य याताः दृष्ट्वा वेणुं क्वणन्तं चिरमथ निभृतास्तस्थुरत्यद्भुतेन ॥ १२२॥ देव श्रीघोषनारीरमण मधुपते मामकाभ्यर्थनां त्वं कारुण्याच्छ्रोतुमर्हस्यखिलगुणनिधे कर्तुमप्यर्हसीश । पापिष्ठोऽहं तथापि प्रणतजनकृपासागरानाथबन्धो दीनं मां वेणुनादामृतसरसि सुखं स्नापय श्रीमुकुन्द ॥ १२३॥ आपद्बन्धो प्रणष्टं निरवधिदुरितध्वान्तदुर्द्दान्तभूमिं त्रायस्वाकर्णयेश प्ररुदितगदितं प्रार्थये पार्थबन्धो । छिन्दीमं भिन्दिचेति प्रकटकटुगिरा भर्त्स्यमाने कृतान्त- दूतापातेऽन्तकाले मणिमुरलिरवानन्दनेनाशु पाहि ॥ १२४॥ नादं वाऽऽकर्णयेयं मधुमुरलिगलद्गानमाधुर्यधाम सान्द्रानन्दामृतोदं सकृदपि कलनाच्छ्रोत्रमात्रेण भव्यम् । पश्येयं भाग्ययोगात्किमु परमहसो वासुदेवस्य लीला- रङ्गं वृन्दावनं वा हरिमणिमहसं चापि वेणुं क्वणन्तम् ॥ १२५॥ श्यामाङ्गान्मारकोटिज्वलदतुललसत्सारलावण्यपूरात् शिञ्जाना मञ्जुरत्नप्रकरविलसितश्रीपदाम्भोजयुग्मात् । देवान्मोदात्कराब्जोद्धृतललितसुताम्रोष्ठविन्यस्तवेणु- गानादाभीरनारीसुकृतसमुदयाद्देवमन्यं न जाने ॥ १२६॥ आर्तत्राणपरायणाखिलगुरो त्वामर्थयेऽहं पुनः पापैकावसतिर्मुहुः कलिलतां प्राप्तो निराशोऽवशः । कण्ठास्कन्दिकफादिदोषनिचयो प्रोच्चण्डदण्डायुध- प्रेष्याभर्त्सनताडनादिविकले मां पाहि वेणुस्वनात् ॥ १२७॥ प्राणापायदशोपयातयमराडुच्चण्डदूतार्दिते काले संवृतबन्धुमित्ररुदितप्राये महादीतिदे । अश्रुव्याकुललोचनोघनिचयं स्मृत्वाहितं नाचरन् दीनोऽयं ननु यादवेन्द्रमुरलीगानेन सन्तोष्यताम् ॥ १२८॥ पश्येयं वा कदाहं नवघनसुभगं पीतकौशेयवासं श्रीवत्साङ्कं सुहारं पदधृतविरणन्मञ्जुमञ्जीररम्यम् । गोपालं कौस्तुभश्रीयुतरुचिरमहावक्षसं स्वक्षमीशं धन्यश्रीवन्यमालाधरमहमनिशं वेणुगानैकलोलम् ॥ १२९॥ गायन् वेणुं कनकरशनादामदीप्यत्कटिश्री- भास्वद्धेमाम्बरसुललितो नीलमेघाभिरामः । नृत्यन्तालक्रममनुसरन् विक्षिपन् पादपद्मे भायादायान्मम तु पुरतः वल्लवीभाग्यरत्नम् ॥ १३०॥ नाहं प्रीये सुरपतिपदावाप्तिमैश्वर्यसिद्धिं साम्राज्यं वा निखिलमपि वा भोगयोगं मुरारे । प्रीये ह्रीये मुहुरपि विभो सान्द्रनादामृतोद- वंशीनादे महति सरिति स्नानमानन्दरूपम् ॥ १३१॥ मन्दं मन्दं पदकमलके विक्षिपन् चारुवेणु- गानं कुर्वन्ननु च मधुरं मोदयन् मां व्रजेशः । आगच्छेद्वा दुरितनिचयं भञ्जयन्नञ्जनाभः सौधीमक्ष्णोः किमु स वितरेद्वृष्टिमानन्दरूपाम् ॥ १३२॥ यावज्जीवं मुरल्या मधुमयसरसानन्दगानामृतोदा- सारेणासिक्तकर्णः किमु हृदिकमले देवदेवं वरेण्यम् । ध्यात्वाखण्डप्रमोदं निरतिशयमहो किन्नु लप्स्ये कृपाब्धे छित्वा निश्शेषतापप्रकरमहमहो त्वत्पदे किन्नु युञ्ज्याम् ॥ १३३॥ पादाब्जान्निस्सरन्ती सगरसुतगतिप्रेष्टसोपानपङ्क्तिः गङ्गा भागीरथीति त्रिजगति विदिता पापहन्त्री नराणाम् । नादाख्येयं तु गङ्गा व्रजयुवतिजनप्रेमपात्राम्बुजात- वक्त्रप्रोतार्यवेणुस्रवदमृतरसा मोक्षदा भाति हृद्या ॥ १३४॥ (वक्त्रपद्मोन्नीतार्यवेणुक्वणितमधुझरी मोक्षदा भाति हृद्या) कारुण्याब्धे मुरारे मुरलिनिनद भो त्वामहं नौमि साक्षा- न्नादज्योतिस्स्वरूपं सकलमुनिमनोध्यानगम्यं सुसूक्ष्मम् । देव त्वा मूर्तमन्तर्मम हृदि कुतुकान्मूर्तिमाकल्प्य लीला- लोलं मोदाम्बुराशिं परसुखनिलयं धारयाम्यादरेण ॥ १३४॥ पायं पायं न तृप्याम्यतिमधुरतया देव ते वेणुगीत- नादानन्दामृताम्भःश्रवणपुटभृतं स्वादु नः स्वादु भूरि । तद्भो गोविन्द मोहाद्दुरितशतकृतोऽप्यस्य नादेऽतिभक्ति- र्भूयात्कारुण्यसिन्धो शरणद भगवन् जन्मजन्मान्तरेषु ॥ १३५॥ गायन्तं वेणुमुच्चैर्घनरुचिममलं सूर्यकोटिप्रकाशं नृत्यन्तं नर्तयन्तं पदकमलरणन्मञ्जुमञ्जीरघोषम् । आयान्तं मा बिभीहि त्यज मनसि रुजं सोऽहमस्म्यभ्युपेत इत्येवं मां गदन्तं यदुकुलतिलकं किं कदा वा निरीक्षे ॥ १३६॥ अज्ञोऽहं ते गुणानामणुमपि नितराम्मन्तुमीशो न चास्मि बोद्धुं वक्तुं च देवि श्रितसकलजनत्राणदीक्षे नमस्ते । क्षन्तव्यं साहसं मे निरुपधिकरुणे दीनदीनस्य मातः सान्द्रानन्दावबोधे यदुपतिमुरलीनादधारे नमस्ते ॥ १३७॥ नमस्ते पीयूषप्रिय मधुरसौभाग्यविभवे चिरात्पुण्यैर्लभ्ये मयि कुरु कृपामम्ब सदये । पुरस्ते पश्चात्ते स्वरमयि नमः पार्श्वत इदं कृतं चोर्ध्वं मातः कलमुरलिकानादलहरि ॥ १३८॥ मुकुन्दाखण्डेन्दुप्रतिमवदनाहं तव विभो सुधाधाराहृद्यां तव मुरलिकानादलहरीम् । दुरन्तामल्पज्ञः किमपि कणमात्रं गदितवान् क्षमस्वागांस्यस्य श्रितचरणपद्म दयया ॥ १३९॥ किमपि वचनमीषद्वक्तुकामः परस्य प्रियमुरलिनिनादानन्दधाराप्रभावे । अकरवमिदमस्मिन् दोषपङ्कं प्रमृज्य प्रियजनपरिदत्तं स्वीकुरुष्वामरेड्य ॥ १४०॥ आभीरवारनारीजारस्यामन्दमुरलिनिनदं मे मोदं सदा ददातु गीतरवाश्लिष्टमोहननिनादम् ॥ १४१॥ बाला वृद्धास्सकलमपि गोकुलं यस्य नाथ- स्याकर्ण्य द्रागमृतमधुरं वेणुगानं मनोज्ञम् । प्रापुः प्रेम्णा सकलजगतां नायकस्याभिराम- पादाम्भोजं विवशहृदयास्त्यक्तकार्यप्रपञ्चाः ॥ १४२॥ वेणुं क्वणन्तं गोपालबालमानन्दविग्रहम् । नमामि जगताम्मूलं मुकुन्दमखिलेश्वरम् ॥ १४३॥ मुरलीमधुरध्वानमधुनिष्यन्ददायिने । मुरलीनादधाराख्यामर्पयामि मधुद्विषे ॥ १४४॥ रचितं सुब्बरामाख्यद्विजेन भक्तिपूर्वकम् । मुरलीधरप्रीत्यर्थं तदङ्घ्रिषु समर्पितम् ॥ १४५॥ इति मुरलीनादधारास्तोत्रं सम्पूर्णम् । Encoded and proforead by PSA Easwaran psaweswaran at gmail.com
% Text title            : muralInAdadhArAstotram
% File name             : muralInAdadhArAstotram.itx
% itxtitle              : muralInAdadhArAstotram
% engtitle              : muralInAdadhArAstotram
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Latest update         : January 3, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org