नारायणप्रोक्तं श्रीकृष्णस्तोत्रम्
(नारायणप्रोक्तंश्रीकृष्णकवचम्)
वसिष्ठेन प्रदत्तेन मन्त्रं तं षोडशाऽक्षरम् ।
स्तोत्रं च कवचं तद्वै शृणु त्वं कमलेश्वरि ॥ ५४॥
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।
इमं मन्त्रं कल्पवृक्षं जानीहि षोडशाऽक्षरम् ॥ ५५॥
गोलोके कृष्ण ईशाय दत्तवान् च ततः परम् ।
ब्रह्मणे तु पुरा कृष्णः पुष्करे दत्तवाँस्तथा ॥ ५६॥
कुमाराय दत्तवाँश्च ब्रह्मा लोकपितामहः ।
ब्रह्माण्डपावनस्याऽस्य कवचस्य हरिः स्वयम् ॥ ५७॥
ऋषिश्छन्दश्च गायत्री देवोऽहं भगवान्हरिः ।
धमार्थकाममोक्षेषु विनियोगः सदा मतः ॥ ५८॥
त्रिलक्षवारजपनात् सर्वसिद्धिप्रदो भवेत् ।
प्रणवो मे शिरः पातु नमो रामेश्वराय च ॥ ५९॥
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ।
कृष्णः पायाच्छ्रोत्रयुग्मं श्रीहरिर्घ्राणमित्यपि ॥ ६०॥
जिह्विकां वह्निजाया तु कृष्णाय सर्वतो नमः ।
श्रीकृष्णाय स्वाहेति च काष्ठं पातु षडक्षरः ॥ ६१॥
ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ।
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ॥ ६२॥
दन्तपङ्क्तिमोष्ठयुग्मं नमो गोपीश्वराय च ।
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ॥ ६३॥
हरिर्वक्षःस्थलं पातु मन्त्रात्मा षोडशाक्षरः ।
श्रीकृष्णाय स्वाहेति ॐ कर्णयुग्मं सदाऽवतु ॥ ६४॥
ॐ विष्णवे स्वाहेति च कपोलं सर्वतोऽवतु ।
ॐ हरये नम इति पृष्ठं पादौ सदाऽवतु ॥ ६५॥
ॐ गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ।
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः ॥ ६६॥
दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ।
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ॥ ६७॥
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ।
सततं सर्वतः पातु हरिर्नारायणः स्वयम् ॥ ६८॥
गुरुमभ्यर्च्य विधिवद् वस्त्रालङ्कारचन्दनैः ।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥ ६९॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् प्रिये ॥ ७०॥
अस्य पाठान्महत्पुण्यं सर्वतीर्थफलं भवेत् ।
अपुत्रो लभते पुत्रमभार्यो लभते सतीम् ॥ ७१॥
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ।
भ्रष्टराज्यो लभेद्राज्यमैश्वर्यं सिद्धिकामनः ॥ ७२॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भक्तिं प्राप्य हरेश्चान्ते लभते धाम चाक्षरम् ॥ ७३॥
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् ।
पार्षदप्रवरो भूत्वा गोलोकं धाम याति च ॥ ७४॥
एवं गन्धर्वप्रवरः उपबर्हणसंज्ञकः ।
रेमे कालावशेषं च ताभिः पत्नीभिरादरात् ॥ ७५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने २०२-अध्यायान्तर्गतं
नारायणप्रोक्तं श्रीकृष्णस्तोत्रं तथा कवचं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय २०२/५४-७५॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 202/54-75..
Proofread by PSA Easwaran