नारदकृतं २ नारायणस्तोत्रम्
नारद उवाच ।
नमो नमस्ते भगवञ्जगद्गुरो नारायणाऽप्राकृत दिव्यमूर्ते ।
अनन्तकल्याणगुणाकरस्त्वं दासे मयि प्रीततरः सदा स्याः ॥ ९.३१.१०॥
त्वं वासुदेवोऽसि जगन्निवासः क्षेमाय लोकस्य तपः करोषि ।
योगेश्वरेशोपशमस्थ आत्मारामाधिपस्त्वं परहंससद्गुरुः ॥ ११॥
विभुरृषीणामृषभोऽक्षरात्मा जीवेश्वराणां च नियामकोऽसि ।
साक्षी महापूरुष आत्मतन्त्रः कालोऽभवद्यद्भ्रुकुटेर्महांश्च ॥ १२॥
सर्गादिलीला जगतां त्वमीश करोषि मायापुरुषात्मनैव ।
तथाप्यकर्त्ता ननु निर्गुणोऽसि भूमा परब्रह्म परात्परश्च ॥ १३॥
सत्यः स्वयञ्ज्योतिरतर्क्यशक्तिस्त्वं ब्रह्मभूतात्मविचिन्त्यमूर्त्तिः ।
बृहद्व्रताचार्य महामुनीन्द्र कन्दर्पदर्पापहरप्रताप ॥ १४॥
तपस्विनां ये रिपवः प्रसिद्धाः क्रोधो रसो मत्सरलोभमुख्याः ।
अप्याश्रमं तेऽपि कदापि वेष्टुं नेमं क्षमा ह्येष तव प्रतापः ॥ १५॥
छन्दोमयो ज्ञानमयोऽमृताध्वा धर्मात्मको धर्मसर्गाभिपोष्टा ।
उन्मूलिताधर्मसर्गो महात्मा त्वमव्ययश्चाक्षयोऽव्यक्तबन्धुः ॥ १६॥
निर्दोषरूपस्य तवाऽखिलाः क्रिया भवन्ति वै निर्गुणा निर्गुणस्य ।
धर्मार्थकामेप्सुभिरर्चनीयस्त्वमीश्वरो नाथ मुमुक्षुभिश्च ।
त्वं कालमायायमसंसृतिभ्यो महाभयात्पातुमेकः समर्थः ।
भक्तापराधाननवेक्षमाणो महादयालुः किल भक्तवत्सलः ॥ १८॥
धृतावतारस्य हि नाममात्रं रूपं च वा यः स्मरेदन्तकाले ।
सोऽपि प्रभो घोरमहाघसङ्घात्सद्यो विमुक्तो दिवमाशु याति ॥ १९॥
तं त्वां विहायाऽत्र तु यो मनुष्यो देहे त्रिधातावपि दैहिकेषु ।
जायाऽऽत्मजज्ञातिधनेषु सज्जते स मायया वञ्चित एव मूढः ॥ ९.३१.२०॥
त्वद्भक्तियोग्यो नरदेह एव यं कामयन्तेऽपि च नाकसंस्थाः ।
त्वद्भक्तिहीनं हि दिवोऽपि सौख्यमहं तु जाने नरकेण तुल्यम् ॥ २१॥
तपस्त्रिलोक्याः कुरुषे सुखाय तत्रापि ते भारतवासिपुंसु ।
अनुग्रहो भूरितरो यदत्र कृतावतारो विचरन्विराजसे ॥ २२॥
तस्याश्रयं ये तव नात्र कुर्वते त एव शास्त्रेषु मताः कृतघ्नाः ।
अतस्तवैकाश्रयमेव बाढं कुर्वत्यजस्रं मयि तेऽस्तु तुष्टिः ॥ २३॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे वासुदेवमासमाहात्म्ये एकत्रिंशाध्यायान्तर्गतं
नारदकृतं नारायणस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । वासुदेवखण्ड । अध्याय ३१/१०-२३॥
skandapurANa . vaiShNavakhaNDa . vAsudevakhaNDa . adhyAya 31/10-23..
Proofread by PSA Easwaran