नारदकृतं ५ श्रीकृष्णस्तोत्रम्
नारद उवाच ।
नमः कृष्णाय हरये वेधसे भूतधारिणे ।
देवदेव जगन्नाथ नमस्ते चक्रधारिणे ॥ १॥
नमस्ते नरसिंहाय दैत्यवक्षःप्रदारिणे ।
नमस्ते सकलेशाय निर्गुणाय गुणात्मने ॥ २॥
नमो वामनरूपाय मायालोकविहारिणे ।
नमस्ते क्रोडरूपाय दंष्ट्रया क्षितिधारणे ॥ ३॥
नमोऽश्वशिरसे तुभ्यं वेदाहरणरूपिणे ।
त्रिविक्रम नमस्तुभ्यं त्रयीरूप जनार्दन ॥ ४॥
नम ओंकारमात्राय त्रयीरूपाय विष्णवे ।
निर्मलज्ञानरूपाय विज्ञाननिलयाय च ॥ ५॥
उद्गीथाय नमस्तुभ्यं रथंतर नमोऽस्तु ते ।
यं विदुर्वेदतत्त्वज्ञा ब्रह्माद्याः सनकादायः ॥ ६॥
विचिन्वन्तः प्रदीपेन विज्ञानाख्येन केशव ।
सोऽसि देव जगन्नाथ यो दृष्टो ब्रह्मवादिभिः ॥ ७॥
यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः ।
सोऽसि देव पुराणात्मंस्तुभ्यं देव नमो नमः ॥ ८॥
त्वामहुः सकला वेदा ब्रह्मेति ज्ञाननिश्चये ।
त्वमेवेदं जगत्सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥ ९॥
त्वन्मायापटलच्छन्नाः प्राणिनः सर्व एव हि ।
अहं मानकृता भ्रष्ट्राः पतन्ति नरकेषु च ॥ १०॥
ये च त्वां विष्णुरित्याहुस्ते च त्वां यान्ति यत्नतः ।
ये तु ज्ञानसहा मर्त्या वेदान्तज्ञानबृंहिताः ॥ ११॥
ते तु त्वां देवदेवेश प्रविशन्ति पुरातनम् ।
तवैषा भगवन्माया यामश्रित्य जगन्मयीम् ॥ १२॥
प्राणिनो निःश्वसन्ति स्म दुःसहा सा हि नित्यशः ।
विहारः सर्व एवैष प्राणिनामुदयाय हि ॥ १३॥
पूर्वमासीज्जगन्नाथ वाराह इति संज्ञितः ।
अदधा भूतधात्रीं त्वं प्राणिनां च हिताय हि ॥ १४॥
पुनरश्वशिरा भूत्वा वेदानाहृत्य तिष्ठसि ।
आसीर्वामनरूपस्त्वमबध्ना बलिमध्वरे ॥ १५॥
आहृत्य राज्यं तस्मात्त्वमिन्द्राय प्राहिणोर्विभो ।
अभूस्त्वं नारसिंहश्च हतवान् दैत्यपुंगवम् ॥ १६॥
रघोरथ जगन्नाथ वंशे वंशवतां वर ।
आसीश्च रामसंज्ञस्त्वं रावणं हतवान् विभो ॥ १७॥
निष्कण्टकमिमं लोकमकरोर्देवसत्तम ।
अभूश्च जामदग्न्यस्त्वं गृहीत्वा परशुं प्रभो ॥ १८॥
हतवांस्त्वं महावीर्यं कृतवीर्यसुतं रणे ।
निःक्षत्रियमिमं लोकमददाः काश्यपाय वै ॥ १९॥
इदानीमपि गोविन्द लोकानां हितकाम्यया ।
मानुषं वपुरास्थाय द्वारवत्यां प्रतिष्ठसि ॥ २०॥
हतवान् पूतनां बाल्ये गोकुले विहरन् प्रभो ।
अर्जुनौ हतवान् भूयो बद्धोलूखलसंपुटः ॥ २१॥
पुनश्च क्रीडता विष्णो त्वयैव निहतो हयः ।
अदधास्त्वं पुनः शैलं गवां संरक्षणाय हि ॥ २२॥
गोवर्धनं महाशैलं सर्वगोपस्य पश्यतः ।
ननर्त भगवान् भूयो यमुनाया ह्रदे हरे ॥ २३॥
अकरोः कालियं विष्णो विमदं यमुनातटे ।
रङ्गमध्ये हतौ विष्णो त्वया चाणूरमुष्टिकौ ॥ २४॥
दुःसहं लोकविद्विष्टं हतवान् कंसमोजसा ।
उग्रसेनोऽभिषिक्तश्च राज्ये निहतकण्टके ॥ २५॥
स इदानीं स्थितो राज्ये त्वामाश्रित्येन्द्रवद्दिवि ।
किमनेन जगन्नाथ सर्वं त्वद्वशगं जगत् ॥ २६॥
सर्वात्मन् सर्वभूतेश सर्वभावन भावन ।
नमस्ते देवदेवेश नमो भूयो नमो नमः ॥ २७॥
इति हरिवंशान्तर्गतं नारदकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ२१.६४॥
harivaMsha . anubandha - parishiShTa . adhyAya a21.64..
Proofread by PSA Easwaran