श्रीनृसिंहध्यानश्लोकाः

श्रीनृसिंहध्यानश्लोकाः

गोखण्डं वारुणाण्डं परि विटि विटित दर्पणाण्डं मृणाण्डम् । डीण्डींश्च डीण्डीं डहमपि डह मैः झुम्प्र झुम्प्रैश्च झुम्प्रैः स्तैल्यास्तैल्यास्तु स्तैल्याः कुकुकुकुकक्कुमां कुङ्कुमां कुङ्कुमाङ्कं एतत्ते पादपद्मं वहतु गहतु मां पातु मां नारसिंहः ॥ सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥ उपास्महे नृसिंहाख्यं ब्रह्मवेदान्तगोचरम् । भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २॥ कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं पादादानाभिरक्तप्रभमुपरिसितं भिन्नदैत्येन्द्रगात्रम् । शङ्खश्चक्रश्च पाशाङ्कुशकुलिशगदादारुणान् युद्धहन्तं भीमं तीक्ष्णाग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥ ३॥ गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हरन्तं रूप्यन्तं तापयन्तं दिविभुवि दितिजं क्षेपयन्तं शिरोऽन्तम् । क्रन्दन्तं रोषयन्तं दिशि दिशि सततं सरभन्तं हरन्तं वीक्षन्तं घूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि ॥ ४॥ माणिक्यादिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् । बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्राग्रवक्त्रोल्लस- ज्ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं विभुम् ॥ ५॥ क्षीराब्धौ वसुमुख्यदेवनिकरैरग्रादिसंवेष्टितः शङ्खं चक्रगदाम्बुजं निजकरैर्बिभ्रंस्त्रिनेत्रः सितः सर्पाधीशफणातपत्रलसितः पीताम्बरालङ्कृतो लक्ष्म्याश्लिष्टकलेवरो नरहरि स्तन्नीलकण्ठो मुदे ॥ ६॥ उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षच्छेदरक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ ७॥ ऊर्ध्वाभ्यामान्त्रमले तदनुदरमरिं खड्गखेटौ वहन्तं चापं बाणं दधानं मुसलमपि गदां पाशमप्यङ्कुशं च ऊर्वौ निक्षिप्य दैत्यं तदुदरकुहरं दारयन्तं च दोर्भ्यां रक्तज्ज्वाला-वमन्तं ज्वरभयसमये चिन्तयेदुग्रसिंहम् ॥ ८॥ लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् । सर्पाधीशकृतान्तपत्रममलं श्रीवत्सवक्षस्थलं वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ ९॥ उग्रं तं नारसिंहं विवृतभयमुखं रक्तनेत्राधरोष्ठं तेजोभिः प्रज्वलन्तं हुतवहसदृशं दुर्निरीक्ष्यं सुरेन्द्रैः । भिन्नौ दिव्यैर्नखाग्रैर्गजमदमलिनैर्दानवेन्द्रो हिरण्यः । सोऽयं नः पातु नित्यं त्रिभुवनविजयी सिंहरूपेण विष्णुः ॥ १०॥ अरुणकनकवर्णं नीलकण्ठं त्रिनेत्रं रथचरणपिनाकाभीत्यभीष्टाग्रहस्तम् । अमृतलहरिगौरं शेषभोगे शयानं प्रणमतशशिचूडं योगरूढं नृसिंहम् ॥ ११॥ नमन नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह । नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥ नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायण पुच्छसिंह । नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह । नमो नमो भीषण भद्रसिंह नमो नमो विव्ह्वलनेत्रसिंह । नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥ नमो नमो निर्जितकालसिंह नमो नमः कल्पितकल्पसिंह । नमो नमः कामद कामसिंह नमो नमस्ते भुवनैकसिंह । नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप । नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप । इति श्रीनृसिंहध्यानश्लोकाः सम्पूर्णा । Proofread by M K Barman
% Text title            : Shri Nrisimha Dhyanashlokah
% File name             : nRRisiMhadhyAnashlokAH.itx
% itxtitle              : nRisiMhadhyAnashlokAH
% engtitle              : nRisiMhadhyAnashlokAH
% Category              : vishhnu, dashAvatAra, dhyAnam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org