श्रीनृसिंहपुरतीर्थमहिमावर्णनम्
दक्षिण प्रयाग माहात्म्य
प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ॥
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरम् ।
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ॥
सर्पाधीशकृतातपत्रममलं श्रीवत्सवक्षःस्थलम् ।
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ १॥
श्रुत्वा माहात्म्यमतुलं क्षेत्राणां सरहस्यकम् ।
सर्वार्थैकपदं गुह्यमपृच्छन् मुनयोऽमलाः ॥ २॥
को देवः सर्वदेवानां क्वास्ते कीदृगविधः कथम् ।
पूज्यो मन्त्रोऽस्य कः सूत सर्वं तच्च वदस्व नः ॥ ३॥
सूत उवाच ।
मुनयः साधुपृष्टोऽहं लोकानां हितमीप्सुभिः ।
वक्ष्ये गुह्यं भगवते नत्वा व्यासाय धीमते ॥ ४॥
एकदा रहसि स्थाणुं समाधिनिरतं सती ।
प्रणम्योवाच मधुरं जिज्ञासुर्गुह्यमात्मनि ॥ ५॥
देव्युवाच ।
सर्वज्ञ प्राणनाथेश प्रसादं कुरु शङ्कर ।
किं ध्यायसे चिरं चित्ते ध्येयस्ते कः परात्मनः ॥ ६॥
इत्थं चेत्कृपया तेऽद्य श्रोष्याम्यार्तार्तिनाशन ।
तव प्रसादादहमप्यन्तस्तं चितये विभुम् ॥ ७॥
श्रीशिव उवाच ।
शृणु देवि परं गुह्यमनाख्येयमपि क्वचित् ।
वक्ष्ये ध्येयं सदा यत्तदनिर्देश्यं मनोगिराम् ॥ ८॥
यदेकमजरं शान्तं सच्चिदानन्दरूपकम् ।
अनाख्यं नरसिंहेति प्रसिद्धं चिन्तायामि तत् ॥ ९॥
आत्मा यः सर्वभूतानामनादिनिधनोऽव्ययः ।
स्वप्रकाशः सुराधीशैरभिवन्द्यपदाम्बुजः ॥ १०॥
एषः स्वलीलया विश्वं सृजत्यवति हन्त्यजः ।
नानावतारैर्विश्वात्मा क्रीडत्यद्भुतविक्रमः ॥ ११॥
देवानां गुणलिङ्गानामेष कारणमक्षरम् ।
क्षराक्षरविभेदाभ्यामेष सर्वत्र राजते ॥ १२॥
अलिङ्गः सर्वलिङ्गात्मा प्राणलिङ्गो महेश्वरि ।
नृसिंहोऽखण्डमात्मस्थः स्वात्मना चिन्त्यते विभुः ॥ १३॥
देव्युवाच ।
देवेश जगदीशान सर्वज्ञ करुणाकर ।
ज्ञात आत्मा नृसिंहेति प्रसादात्तव शङ्कर ॥ १४॥
कथं ज्ञेयो महामूढैरजितात्मभिरीश्वरः ।
तन्मामाख्याहि यत्रासौ सुखेनावाप्यतेऽखिलैः ॥ १५॥
श्रीशिव उवाच ।
ज्ञेयो भक्त्यैव नृहरिर्लब्धवा सत्समागमात् ।
विरक्तः सर्वभोगेषु सर्वात्मा सर्वतोमुखः ॥ १६॥
बाला वा ज्ञानिनः सक्ता विरक्ता वा गुणात्मकाः ।
मुच्येरन् संसृतेर्भक्त्या हरेः सत्सङ्गलब्धया ॥ १७॥
भक्तिस्तदेकनिष्ठा या कायवाङ्मनसा सदा ।
बहुभिर्बहुधा प्रोक्ता सद्यः संसृतिहारिणी ॥ १८॥
अनन्तजन्मसाहस्रैः सञ्चितैः पुण्यराशिभिः ॥
भक्तिस्यान्नृहरौ भव्या सर्वात्मन्यखिलाश्रये ॥ १९॥
नानापातकयुक्तोऽपि मूढोऽप्यविजितेन्द्रियः ।
लीलयाप्नोति कैवल्यं नृहरेर्नामकीर्तनात् ॥ २०॥
दुराराध्यो नृभिर्मूढैरविपक्वेद्रियैरयम् ।
सुखेनावाप्यते यत्र तद्गुह्यं ब्रवीमि ते ॥ २१॥
पुरा त्रिपुरदाहेन तप्ताशेषतनोर्मम ।
सुधांशुगङ्गासङ्गोऽपि न शान्त्यैयदभूच्छिवे ॥ २२॥
तदा भीमतनोरग्रे सुराः स्थातुमनीश्वराः ।
गत्वा ब्रह्मादयो विष्णुं शरण्यं सुव्यजिज्ञपन् ॥ २३॥
देवा ऊचुः ।
जय शान्त बलाधार विश्वरूप परात्पर ।
विष्णो त्रिपुरसंहर्तुर्दाहं शमय माधव ॥ २४॥
एष वीरो महाभीम उग्रः क्रोधाग्निदीपनः ।
त्रिनेत्रो दाहसन्तप्तो ग्रासं कर्ता घनः स्फुटम् ॥ २५॥
पाहि पाहि त्रिलोकेश हालाहलगिलाननात् ।
अकाण्डे प्रलयो मा भूदच्युताश्रितदेहिनाम् ॥ २६॥
श्रीशिव उवाच ।
इति विक्लवितं तेषां सुराणां वीक्ष्य माधवः ।
प्रहस्य मेघगम्भीरां बभाषे वाचममृताम् ॥ २७॥
श्रीभगवानुवाच ।
अभयं वोऽमरा अस्तु शिवलीलानिवेशतः ।
एतस्मान्नहि साधूनां भीतिर्विश्वात्मरूपिणः ॥ २८॥
भीमोऽयं किल भीमानां मृत्योर्मुत्युञ्जयोऽसौ ।
कालस्यापि महाकालः शिवानां तु शिवं स हि ॥ २९॥
अयं मे हृदयं शम्भुरस्याहं हृदयं परम् ।
इति जानाति तत्त्वेन यः समुच्येत सङ्कटात् ॥ ३०॥
अस्ति तत्र सरित् पुण्या भीमा भीमाङ्गसम्भवा ।
नीराकारं वपुः कृत्वा विधास्ये तत्र सङ्गमम् ॥ ३१॥
अतोऽहं द्रवरूपेण स्वां शक्तिं प्रेरयन् सुराः ।
तमद्यद्रवरूपेण क्रीडन्तं समुपैमि भोः ॥ ३२॥
तत्र यूयं समायात सर्वे सर्वार्थसाधकम् ।
द्रष्टुं भीमाद्रवायोगं लोकान्ना हितमीप्सवः ॥ ३३॥
श्रीशिव उवाच ।
इत्यादिश्य सुरान् विष्णुस्तत्रैवान्तरधीयत ।
देवः सद्योद्रवाकारं दद्दशुर्विस्मितान्तराः ॥ ३४॥
तदैव मे ह्यङ्गभूता नदी सर्वाघहारिणी ।
चचार नीरया भीमा पावनी सर्वदेहिनाम् ॥ ३५॥
देवा उभयतः कूले पश्यन्तो हृष्टमानसाः ।
ययुर्यत्रोभयोः सङ्गः प्रत्यगात्मा हरिः स्थितः ॥ ३६॥
आलोक्यात्मैकसौख्यं श्रीमन्दिरं सुन्दरोत्तमम् ।
प्रणम्य स्तुतिभिः स्तुत्वा दिव्यपुष्पैरवाकिरन् ॥ ३७।
नदीसङ्गमसुस्नाता हतपापतमोभराः ।
नृसिंहदर्शनानन्दनिर्भरास्तेऽभवन्सुराः ॥ ३८॥
तद्देवि परमं क्षेत्रं सिद्धीनां परमायनम् ।
आस्ते यत्रानिशं देवो नृसिंहो भक्तवत्सलः ॥ ३९॥
सुदर्शनमित्यभिहितं क्षेत्रं यद् वेदविद्वरैः ।
तन्नाभिरेष भूगर्भे क्षेत्रराजो विराजते ॥ ४०॥
कलिकल्मषबुद्धीनां महापापकृतामपि ।
दर्शनात्पापराशिघ्नो भजनाद् भुक्तिमुक्तिदः ॥ ४१॥
अत्रैव मृग्यः सर्वात्मा नृसिंहो भवभीरुभिः ।
ध्येयः पूज्यो नमस्योऽयं सर्वार्थैकामरद्रुमः ॥ ४२॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये शिवपार्वती संवादे
क्षेत्रोत्पत्तिकथनं नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः
देव्युवाच ।
कासौ शक्तिद्रवीभूता विष्णोस्ते जीवितेश्वर ।
किं नाम कथमाख्याभूद्युदयोरिति शंस मे ॥ १॥
श्रीशिव उवाच ।
या शक्तिर्वैष्णवी देवि द्रवीभूतामलाशिवा ।
सा नीरेति समाख्याता विष्णुतत्त्वैकवादिभिः ॥ २॥
नयनी सर्वभावान्नां नीरा या कथ्यते बुधैः ।
सा नीरा प्रथिता लोके विष्णोः शक्तिः परेश्वरी ॥ ३॥
निःशेषरमणा नीरा चिद्रसानन्दवर्धिनी ।
नीराकारा हरितनुः सेव्या सुरमुनीश्वरैः ॥ ४॥
नानासिद्धिप्रदा पुण्या पुण्यवदभिरवाप्यते ॥।
तथा भीमेति विख्याता ममशक्तिः शिवाशिवे ॥ ५॥
नाशं नयति पापानि लोकानां या स्वरूपतः ।
भीमस्य मे द्रवतनुर्भीमा लोकेषु पठ्यते ॥ ६॥
इयं हरति लोकानां भीतिं हि भवसिन्धुतः ।
नीराहरिरहं भीमा द्वयोर्योगः सुदुर्लभः ॥ ७॥
सङ्गमोऽयं भुवि ख्यातः प्रयाग इति पावनः ।
अभवद्यजनं यत्र प्रहर्षमगमन् सुराः ॥ ८॥
प्रयागमिति विख्यातं प्रयागात्कोटिपुण्यदम् ।
महर्षिभिः कथितो यस्य महिमा शृणु पार्वति ॥ ९॥
नीराभीमरथीयोगं ये श्रृण्वन्ति विदूरतः ।
ते पापपञ्जरं हित्वा यान्ति विष्णोः परं पदम् ॥ १०॥
किं पुनः शृद्धया नित्यं ये सेवन्ते महाधियः ।
नृसिंहमूर्ति सन्द्दष्ट्वा पुरीं प्राप्ता महोदयाः ॥ ११॥
नीरा नीरेति भीमेति सकृन्नाम जपन्ति ये ।
तेषां नामैव गृणतां यमदूता न गोचराः ॥ १२॥
नीराभीमाम्बुकल्लोलदर्शनोदितचेतसाम् ।
पितरो नरकाद्यान्ति बहिर्विमलिताशयाः ॥ १३॥
इच्छन्ति ते सदात्येतदहो नः कुलदीपकः ।
कश्चिद्गता नरो योगं नीराभीमोद्भवं सुधीः ॥ १४॥
तर्पयिष्यति सुस्नातः श्राद्धं भक्त्या करिष्यति ।
तेन तृप्ता दिवं गत्वा वत्स्यामः शाश्वतीः समाः ॥ १५॥
नीरा भीमरथीयोगं द्रष्टुस्तुष्टाः पितामहाः ।
पुष्टिं ददाति धर्मस्य कष्टान् दूरे दधत्यलम् ॥ १६॥
नीराभीमरथीयोगे स्नातस्याङ्गेषु बिन्दवः ।
तावन्त्यबद्सहस्राणि वसतिः स्मर्यते दिवि ॥ १७॥
यमुद्दिश्याञ्जलिं दत्ते नीराभीमाम्बुसङ्गमे ।
स विमानमुपारुह्य तत्क्षणान्मुच्यते भवात् ॥ १८॥
नीरा भीमरथीयोगे श्राद्धं कृत्वा विचक्षणः ।
आकल्पं नयते तृप्ति पितृनेकोत्तरं शतम् ॥ १९॥
ये नानायोनिगतारो ये नानानरकार्दिताः ।
ते मुच्यन्ते क्षणादेव नीराभीमाम्बुतर्पणात् ॥ २०॥
एकं सम्म्भोजयन्जीवं नीराभीमाम्बुसङ्गमे ।
त्रैलोक्यतृप्ति विधिवन्नयेदाकल्पिकीं नरः ॥ २१॥
यत्र श्रीमान् नरहरिः कैवल्याद्यखिलार्थदः ।
भक्तानुग्रहवानास्ते सरूपोऽरूपवानपि ॥ २२॥
अहो क्षेत्रस्य माहात्म्यं को विजानाति तत्त्वतः ।
सहस्रवदनोऽप्याहो यत्र मूक इव स्थितः ॥ २३॥
एवं नरहरेः साक्षात् सच्चिदानन्दरूपिणः ।
शरीरं क्षेत्ररूपेण प्रतिष्ठामाप्तमत्र हि ॥ २४॥
वालुकाविष्णुरूपेण तरवो विबुधोत्तमाः ।
पक्षिणो मुनयो यत्र मानवाश्चिद्रसात्मकाः ॥ २५॥
सदा पुण्यतमः कालो देशः पुण्यतमः सदा ।
सदा पात्रं पवित्रं हि यत्र देवो नृकेसरी ॥ २६॥
तत्तीर्थं तीर्थतरणं तत्साधनमनुत्तमम् ।
सा सिद्धिर्महती देवि यन्नृसिंहेति कीर्तनम् ॥ २७॥
यस्य लीलातनोः पूर्वं पश्चाद्वापार्श्व इत्यलम् ।
न शक्यतेऽधिकं कर्तुं परिपूर्णस्य सर्वतः ॥ २८॥
तथापि लीलया तस्य गतीनां नियमः कृतः ।
तेनैव पश्यतां देवि ब्रह्मादीनां पुरः पुरा ॥ २९॥
देवाग्रे मुक्तिरुद्दिष्टामृतानां पृष्ठतोधनम् ।
वामे स्वर्गोऽथ विज्ञानं दक्षिणे परमात्मनः ॥ ३०॥
लब्घा भरतवर्षेऽत्र जन्ममानुषमुत्तमम् ।
न गच्छेन्नृहरेः स्थानं स शोच्योवञ्चितो बत ॥ ३१॥
नृशब्दो जीववाचीह सिंशब्दो बन्धवाचकः ।
नृसिं हन्ता नृसिंहोऽयं जीवबन्धविनाशकः ॥ ३२॥
नृसिंहेणाभितो ज्ञानं भक्तिवैराग्ययोगतः ।
पूर्ण पुरं त्रिलोकस्थैर्नृसिंहपुरमीर्यते ॥ ३३॥
एतद्रहस्यं त्रिषु विष्टपेषु रहस्यमेतत् त्रिषु वैदिकेषु ।
एतद्रहस्यं त्रिगुणेश्वरेषु सङ्गीयते वेदशिरोभिरार्यैः ॥ ३४॥
एतत्त्रयाणां लोकानामुपरिष्टात्पुरास्थितम् ।
मदनुग्रहतो भूमौ ख्यातिमागादनुत्तमाम् ॥ ३५।
ब्रह्मणा तु पुरा प्रोक्तं रहस्यं मे प्रसङ्गतः ।
मया प्रोक्तं नारदाय सुरेभ्यः प्राह यो मुदा ॥ ३६॥
ततो लोकेषु विख्यातमभूत्पापहरं परम् ।
सद्यः सिद्धिकरं देवि महामोक्षैकसाधकम् ॥ ३७॥
विना जपं विना ध्यानं विनाचेन्द्रियसंयमम् ।
यथात्र भुक्तिर्मुक्तिश्च न तथान्यत्र कुत्रचित् ॥ ३८॥
सन्ति पुर्योवनानीह सरिच्छैलसरांस्यहो ।
न नृसिंहसमो देवो नीराभीमाकृतालयः ॥ ३९॥
एकतः सर्वतीर्थानि नृसिंहपुरमेकतः ।
न भवन्ति समान्यायें भुक्तिमुक्तिमहर्द्धिभिः ॥ ४०॥
कलिकल्मषबुद्धीनां पुरतो मृण्मयं स्फुटम् ।
भविष्यति महाक्षेत्रं सर्वतेजोमयं त्विदम् ॥ ४१॥
न कर्लिन च वा कालो नाधिर्नव्याधिरुल्बणा ।
यत्र जागर्ति चण्डोग्रो मृत्योर्मृत्युर्नृकेसरी ॥ ४२॥
तावत्पातकमातङ्गा गर्जन्ति भुवि निर्भयाः ।
यावद् भीमातटोल्लासि सिंहनाम न वाक्पथे ॥ ४३॥
प्रसङ्गादुपहासाद्वा सङ्केतादुपकीर्तितम् ।
नृसिंहेति सकृन्नाम दहेत् पापौघपञ्जरम् ॥ ४४॥
स यत्र लीलामास्थाय रमतेऽनन्तशक्तिमान् ।
ततः किं परम्म लोके वर्णनीयं फलार्थिभिः ॥ ४५॥
देवि तत्रास्थितो जन्तुर्लीलयाप्नोति यां गतिम् ।
सा योगैरुत यागाद्यैः प्राप्तुमन्यत्र दुर्लभा ॥ ४६॥
अलं योगैरलं यागैलं दीनव्रतादिभिः ।
प्राप्तिर्यदिस्यान्नहरेः पदस्यास्यमहौजसः ॥ ४७॥
श्रीनृसिंहकराग्रेण कल्पान्तनखरोज्ज्वलम् ।
त्रिकोणमस्त्रमेतद्धि राजते परमर्द्धिभिः ॥ ४८॥
तत्तीर्थं वरमद्यापि श्रूयते पुण्यगौरवात् ।
यत्र श्रीसिंहवदनः श्रवणादेव मोक्षदः ॥ ४९॥
नीरामीमासमुत्पत्तिमाहात्म्यं नृहरेः पुरम् ।
श्रृणुयात्कीर्तयेद्भक्त्या यः स पापैः प्रमुच्यते ॥ ५०॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
नृसिंहपुरक्षेत्रमहिमावर्णनं नाम द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः
सूत उवाच ।
नृसिंहपुरमाहात्म्यं श्रुत्वा देवी मुदान्विता ।
पुनः पप्रच्छ भावेन प्रणम्य गिरिशं सती ॥ १॥
देव्युवाच ।
साधु साधु महापुण्यं रहस्यं कथितं त्वया ।
माहात्म्यं पुरवर्यस्य महापापौघनाशनम् ॥ २॥
कियत्प्रमाणं तत्क्षेत्रं किमारभ्य भुवं गतम् ।
तीर्थान्यत्र कति स्वामिन् सर्वं वर्णय विस्तरात् ॥ ३॥
श्रीशिव उवाच ।
शिवे साधु महाक्षेत्रमेतद् बुद्धेरगोचरम् ।
प्रमाणं यावदाकाशं यावच्चित्तस्य विस्तरः ॥ ४॥
एतद्गौणमपि प्रायो मुख्यं केचिद् हि मन्वते ।
अन्यानि क्षेत्रजातानि क्षेत्रं प्राहुर्विपश्चितः ॥ ५॥
लोकानां मूढदृष्टीनां तत्त्वज्ञाने कुचेतसाम् ।
संसाराब्धिप्लवो दृष्टः क्षेत्रराजोऽयमुत्तमः ॥ ६॥
पञ्चक्रोशं हरिपुरं नगरं योजनत्रयम् ।
देवालयं योजनार्थं प्रमाणमिति विश्रुतम् ॥ ७॥
गणराजोम्बिका दुर्गा शारदा बहिरास्थिताः ।
क्षेत्रस्यास्य महाविघ्नान् संहर्तुं दिक्षु वै क्रमात् ॥ ८॥
तदन्तरायुधान्यस्य दक्षिणोत्तरयोः पृथक् ।
रक्षन्ति सकलापद्भ्यो महाक्षेत्रमिदं भिये ॥ ९॥
देवालये सुरगणा मुनयः सिद्धचारणाः ।
गन्धर्वाप्सरसो नागा यक्षरक्षांसि किन्नराः ॥ १०॥
वसवोऽष्टौ तथा रुद्रा आदित्याः समरुद्गणाः ।
अहं ब्रह्मा विश्वरूपो गणेशः सनकादयः ॥ ११॥
देवा अन्ये च शतशो रक्षति क्षेत्रमुत्तमम् ।
निधिं यथा भूतगणा उग्रवेषाः समन्ततः ॥ १२॥
एतत्पुरा महाकल्पे ब्रह्मणोम्बुजशायिनः ।
अनुग्रहायाविरभूद् दिव्यं भुवि महाद्भुतम् ॥ १३॥
देव्युवाच ।
भगवन्ननुग्रहः कृतो ब्रह्मणो हरिणा कथम् ।
कथं भुवि गतं तच्च सर्वं विस्तरतो वद ॥ १४॥
श्रीशिव उवाच ।
कल्पान्ते योगशय्याया उत्थिते कमलापतौ ।
सिसृक्षासीत्पुरा तत्र पद्मनाभेरुदाययौ ॥ १५॥
तन्मध्ये रजसा युक्तो ब्रह्माभूद् विश्वसृक्पतिः ।
तस्य स्वमूलपद्मस्य मूलेक्षासीदये सति ॥ १६॥
स वर्षाणां शतं पश्यन् नालरन्ध्रेण तत्पदम् ।
नाविन्ददथ सङ्क्लिष्टो भूत्वा पद्मोपरि स्थितः ॥ १७॥
तत्र श्रीनृहरिः प्रेम्णा व्योमात्मा गूढमाहतम् ।
तपस्तपेति तं मत्वानुग्रहं स तताप ह ॥ १८॥
स वर्षशतमेकाग्रसमाधौ परितिष्ठतः ।
तस्येदं दर्शयामास रूपं नारायणो हरिः ॥ १९॥
सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुर्विश्वात्मा लोकान्व्याप्य व्यवस्थितः ॥ २०॥
दिव्याभरणशोभाढ्यो दिव्यगन्धानुलेपनः ।
दिव्यमाल्याम्बरधरो दिव्यायुधविभूषितः ॥ २१॥
सर्वलक्षणलक्षण्यः सर्वसौभाग्यशेवधिः ।
सर्वमन्त्रमयोदेवः प्राहालं तपसा विधे ॥ २२॥
इति पीयूषमधुरां निपीयाब्जभवोगिरम् ।
स सञ्जीव इव प्रेम्णा प्रफुल्लवदनाम्बुजः ॥ २३॥
प्रणम्य देवदेवेशं प्रणतार्तिहरं हरिम् ।
अस्तौषीदेकमनसा हरिदर्शनलब्धधीः ॥ २४॥
ब्रह्मोवाच ।
नमोऽस्तु लीलामयविग्रहाय स्वरूपदृष्ट्याहतसद्भ्रमाय ।
नमः परानन्दपरालयाय स्वभावसम्पत्तिमहोदयाय ॥ २५॥
नमो गुणानां पतये महिम्ने विकारधाम्नेऽखिलकारणाय ।
नमो जगद्भासयते गरिम्णे सते चिदात्माकृतये गुणाय ॥ २६॥
त्वमादिरस्यासि निदानमध्यं विश्वाकृतिस्त्वं प्रलयो विभुस्त्वम् ।
त्वं सर्वयोनिस्त्वमसर्वयोनिस्त्वं सर्वशोऽसित्वमसर्वशश्च ॥ २७॥
नमः पुरस्तादथ पार्श्वयोस्ते पश्चान्नमोन्तर्बहिरीश्वराय ।
पूर्णाद्वितीयाय नमः पराय अणीयसेऽनन्तचिदे परस्मै ॥ २८॥
वनेः स्फुलिङ्गा इव वारिम्भङ्गाः सिन्धोरिवौघा इव वासनानाम् ।
भवन्ति तिष्ठन्ति वियन्ति यत्र ब्रह्माण्डसङ्घास्तमजं प्रपद्ये ॥ २९॥
यदीक्षया जनिरस्याप्रमेयो विभुर्नृसिंहो वरदो ममास्तु ।
योनाहमस्मिन् विविधेऽत्रसङ्गे सम्प्रेरितः कालविनष्टदृष्टिः ॥ ३०॥
यस्यादेशात् सर्गकर्मप्रवृत्तो भूत्वाप्यहं कालसम्मूढचेताः ।
स पुण्यवाचा मम सृष्टिमेतामलङ्करोतु प्रभविष्णुरीशः ॥ ३१॥
इहैव लोको ह्यसमीक्ष्य बद्धो मायागुणैः कामयते नु कामान् ।
यच्छन्नमुष्मै य इहाप्रमेयो हरत्यनन्तो निमिषं प्रसीद ॥ ३२॥
नमो नियन्त्रे नियमालयाय नमो जगन्मोहतमोरुणाय ।
नमो नृसिंहाय विलासधाम्ने नमः शिवायामितविक्रमाय ॥ ३३॥
नमो मनोदूरचराय वाचां बाचामनिर्देश्यपदाय भूम्ने ।
नमः स्वभासाखिलभासकाय प्रमाणमात्रे जगदीश्वराय ॥ ३४॥
श्रीशिव उवाच ।
इति स्तुत्वा यथाप्रज्ञमजमात्मानमीश्वरम् ।
तूष्णीं बभूव विश्रान्त इव स्वे मनसीश्वरः ॥ ३५॥
ततः प्रसादमधुरस्मितपीयूषसन्मुखः ।
प्राह देवेश्वरो वाचा जीवयन्निगमानिव ॥ ३६॥
श्रीभगवानुवाच ।
अब्जयोने प्रसन्नोऽहं वरं वरय सुव्रत ।
आदेशान्मम यत्पूर्वं तपस्तप्तं त्वया खलु ॥ ३७॥
सर्वत्र मद्भावनया दूरयस्व रजो महत् ।
अहमेवाखिलं वस्तु सदसत्परमव्ययम् ॥ ३८॥
भूतं भव्यं भवच्चान्यन्नमत्तोऽस्ति चराचरम् ।
मय्येव मन आधत्स्व रजोगुणनिवृत्तये ॥ ३९॥
यदात्मनि न निर्भातमाभाति च निरर्थकम् ।
तत्तम बिम्बवन्मायां जानीहि हीनदर्शनम् ॥ ४०॥
मदात्मा मद्विकारस्त्वं मत्कर्मा मदवस्थितिः ।
मयात्मना सृजन् सर्वमपि नो लिप्यसे गुणैः ॥ ४१॥
सिद्धं सर्वेश्वर त्वत्तः सर्वं मे यदभीप्सितम् ।
कामद्रुममवाप्याहो कः शोचेत हि पण्डितः ॥ ४२॥
तथापि याचे ह भवतः शासनेन महेश्वर ।
स्थातव्यं भुवि देवेश रूपेणानेन सर्वग ॥ ४३॥
ये मूढा ये दुराचारा ये च कामहता नराः ।
तेषां मदान्धमनसां प्रसादं कर्तुमर्हसि ॥ ४४॥
श्रीभगवानुवाच ।
विधेद्यारभ्य तिष्ठामि भुवि लोकहितङ्करः ।
श्रवणाद्दर्शनाध्यानात्कायवाङ्मनसाघहृत् ॥ ४५।
जम्बुद्वीपे भारतेऽहं गोदाकृष्णान्तरावनौ ।
तिष्ठामि शम्भुना सार्धमेकरूपः सतां गतिः ॥ ४६॥
नृसिंहनामा जीवानां बन्धहा वरदेश्वर ।
स्थास्यामि दृश्यादृश्यात्मा नानाशक्तिभिरादरात् ॥ ४७॥
तवानुग्रहकामाय लोकानां हितमीप्सया ।
स्थितोऽपि पापैर्दुर्लभ्यः प्रायशोऽहं प्रजाधिप ॥ ४८॥
तथापि पूर्वदत्तं ते वचनं कर्तुमिच्छया ।
नीराभीमाम्बुकल्लोले विहरामि सुरेश्वर ॥ ४९॥
ततः प्रह्लादनामाग्रे दैत्यपुत्रो भविष्यति ।
स नारद वचसा करिष्यति तपो महत् ॥ ५०।
तत्तपस्तुष्ट आराद्वि नीराभीमाम्बुसङ्गमात् ।
स्थास्ये प्रत्यङ्मुखो ब्रह्मन् द्विभुजः सिद्धिभूषणः ॥ ५१॥
ततो मां भुवि सल्लोका भजिष्यन्ति सुसिद्धये ।
अष्टाक्षरमनुप्रोक्तं प्रजापनवराभयम् ॥ ५२॥
सर्वेषामिहभूतानां भजतां मामनारतम् ।
ददामि विपुलान् भोगानन्ते कैवल्यमद्भुतम् ॥ ५३॥
श्रीशिव उवाच ।
इत्युक्त्वा भगवान् विष्णुः प्रणतो ब्रह्मणार्चितः ।
अन्तर्धायात्मनोरूपं भुवि प्रादुर्भवं गतः ॥ ५४॥
इमं प्रादुर्भवाध्यायं यः श्रोष्यति पठिष्यति ।
सर्वान् कामानवाप्नोति प्रसादान्नृहरेहरेस्तु सः ॥ ५५॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
श्रीनृसिंहप्रादुर्भावो नाम तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः
श्रीदेव्युवाच ।
प्रह्लादो दैत्यपुत्रो यो भविष्यति महातपाः ।
तदाख्यानं कथं देव देवाविर्भावकारणम् ॥ १॥
दैत्या वै राजसाः क्रूराः स्तब्धाः पण्डितमानिनः ।
तदुद्भवेषूपशमस्तापसानां सुदुर्लभः ॥ २॥
श्रीशिव उवाच ।
पुरा वैकुण्ठनाथस्य दूतौ देववर्चितौ ।
जयोऽथ विजयो नाम्ना प्रसिद्धौ द्वारपालकौ ॥ ३॥
तयोः कदाचित्कुपिता ब्रह्मणो मानसाः सुताः ।
शापं ददुर्निषिद्धा ये हरिसन्दर्शनोत्सुकाः ॥ ४॥
यातं युवां महाघोरां चासुरीं योनिमुल्बणाम् ।
त्रिभिर्जन्मभिरायातं पुनः पदमनामयम् ॥ ५।
जनिं प्राप्य दितिसुतौ हिरण्यकशिपुस्तथा ।
हिरण्याक्ष इति ख्यातौ भवितारौ सुदुर्जयौ ॥ ६॥
हिरण्यकशिपुः कर्ता राज्यं त्रैलोक्यवन्दितः ।
हर्ता क्षोणीं हिरण्याक्षो वराहेण हतो रणे ॥ ७॥
हिरण्यकशिपुः स्वस्य भ्रातुः प्रेतस्य दुःखतः ।
तप्ता तपो बहुसमा विसृज्य सकलां श्रियम् ॥ ८॥
तावदिन्द्रोऽमरैः सार्धं प्रभज्य तत्पुरीं खलु ।
कयाधुं तस्य दयितामपहर्ता पुरीं हटात् ॥ ९॥
प्रजावती नारदेन दृष्टा पथि शुचातुरा ।
नीयमाना सुरेन्द्रेण मुनिना याचिता भवेत् ॥ १०॥
तस्यै सगर्भमुद्दिश्य ज्ञानं गुह्यं सधर्मकम् ।
ददाति सादरात्सूनोरुदयाय महौजसाः ॥ ११॥
कालं नेष्यत्याश्रमेऽस्य काङ्क्षन्ती दितिजागमे ।
भजन्ती मुनिशार्दूलं नारदं पितृवत्सती ॥ १२॥
विधेर्वरात्स कालेन आयास्यति पुरीं पुनः ।
प्रसोष्यति कयाधुर्वै तनुजांश्चतुरः प्रिये ॥ १३॥
प्रह्लादो भगवद्दासोऽनुगृहीतो महर्षिणा ।
भविष्यति सदाकाले करिष्यति तपो महत् ॥ १४॥
नीराभीमाम्बुसंयोगे स्तुवानो मे पुरोऽर्भकः ।
आयास्यति कृपाभारादुपदिष्टो महर्षिणा ॥ १५॥
प्रणतं सगुणं बालं प्रह्लादं सुन्दरोत्तमम् ।
अनुग्रहीष्यति गुह्येन मन्त्रेण मुनिसत्तमः ॥ १६॥
करिष्यति तदा बालो नृहरेः स्तवनमिच्छया ।
प्रतिमां सैकतीं तस्य द्विभुजां सुन्दरां प्रिये ॥ १७॥
तुष्टः सिंहाननो देवः प्रतिमायां विशन् हरिः ।
आविर्भविष्यति हि मा भैषीर्बालेति संवदन् ॥ १८॥
स ईशाश्वासितः प्रेम्णा गद्गदस्वरसङ्कुलः ।
अश्रुभिर्मीलिताक्षोऽमुं सन्नस्यति भावतः ॥ १९॥
उत्थाप्यालिङ्ग्य विश्वेशः कृपां तस्मिन्करिष्यति ।
स स्वामिगात्रस्पर्शेण पूतो ज्ञानमवाप्स्यति ॥ २०॥
पूजयित्वा जगन्नाथं नृसिंहं वरदेश्वरम् ।
स्तोष्यति स्वस्थभावेन परमानन्द सुन्दरम् ॥ २१॥
प्रह्लाद उवाच ।
जयदेव जगन्नाथ सर्वजीवनशेवधे ।
सुधालोकलवामोद जीविताखिलवृत्तिद ॥ २२॥
जय मायामहोर्मीणामाकरानन्दसागर ।
ब्रह्माण्डबुद्धदोन्नद्वविलासाकुलरोधस ॥ २३॥
जयानन्त महाभाग्य मोक्षलक्ष्मीं महीं कुरु ।
ब्रह्मभावफलोद्यानचिदेकामरपादप ॥ २४॥
जय काममहावल्लीसङ्घरोपितसत्फलैः ।
विस्तृतावनिसौराज्य सदेकानन्दगह्वर ॥ २५॥
जय जीवमहामोहबन्धध्वंसनपण्डित ।
जय देव वरेशान वरदाधीश सत्पते ॥ २६॥
जय मोहातिमायेश कालकाल नृसिंह भोः ।
जय ग्रस्तमहामृत्यो प्रसीद करुणानिधे ॥ २७॥
त्वमेकः स्तुतिरीशानः स्तोता स्तुत्यस्त्वमीश्वरः ।
न जाने त्वत्परं देवं भूमौ सदसदात्मकम् ॥ २८॥
श्रीभगवानुवाच ।
प्रह्लादार्भकवरश्रेष्ठ वरदोऽहं वरं वृणु ।
नमामालोक्य भूमानं कोऽपि शोचितुमर्हति ॥ २९।
प्रह्लाद उवाच ।
को वरस्ते वरेशान दर्शनादधिको मतः ।
यन्नामश्रवणात्पूतः सद्यः स्याद् गोवधादपि ॥ ३०॥
तथापि याचे सन्दिष्टः प्रभुणा किङ्करानुगः ।
स्वामिन्ननेन रूपेण विशास्यां प्रतिमां भुवि ॥ ३१॥
ये भजन्ति समर्चन्ति मानवाः प्रणमन्ति ये ।
तेषामभीष्टकामानां पूरको भव सर्वदा ॥ ३२॥
एष एव वरो देव नान्यं त्वत्तो वरं वृणे ।
मन्मनस्त्वत्पदद्वन्द्वे निर्द्वन्द्वं स्थिरमस्तु भोः ॥ ३३॥
श्रीशिव उवाच ।
एवं सन्दृश्य भगवांस्तुष्टो वक्ष्यति बालकम् ।
प्रफुल्लवदनाम्भोजस्फुरत्स्मितकलाधरम् ॥ ३४॥
श्रीभगवानुवाच ।
तथास्तु प्रतिमायां ते स्थास्याम्यत्र निरन्तरम् ।
पालयिष्यामि सुजन्दर्शनादेव स्वरैः ॥ ३५॥
ये मां द्विभुजमीशानं त्वदर्चाकृतविष्टरम् ।
भजन्ति भक्त्या परया ते वै यान्ति परां गतिम् ॥ ३६॥
मामुद्दिश्य सुदूरस्थो ददानो दानमर्थिनाम् ।
पूजां दधाति तस्याहं कामान् सम्पूरयेऽखिलान् ॥ ३७॥
किं पुनः शृद्धया धीमान् महायात्रां करोति यः ।
तस्य पुण्यकृतः पारो नास्ति पुण्यस्य कर्हिचित् ॥ ३८॥
नृसिंहदर्शनं लप्स्ये यस्य बुद्धिरिति स्फुरेत् ।
स सर्वपापविनिर्मुक्तो भवेदर्कोदये तमः ॥ ३९॥
ततः प्रयातस्य गृहात्पूजयित्वेष्टदेवताः ।
देवताः सम्प्रसीदन्ति ददते विपुलान्वरान् ॥ ४०॥
ततोऽध्वनि समायातः स्तुवतो नामरभिर्हरिम् ।
पदेपदेऽश्वमेधस्य फलं तस्य विनिश्चितम् ॥ ४१॥
महापुण्यभरैः प्राप्य क्षेत्रं मद्वल्लभं नरः ।
मानुषीतनुरूपोऽपि भवेन्मद्रूपसाम्यभाक् ॥ ४२॥
मामालोक्य सकृन्मर्त्यो वैकुण्ठे लभते स्थितिम् ।
मां भजन्म्वपुष्यन्ते सायुज्यं लभते खलु ॥ ४३॥
ये मामनिशमीशानं भजते शृद्धयान्विताः ।
ते देवा मर्त्यरूपेण ज्ञेयाः सर्वे चतुर्भुजाः ॥ ४४॥
अज्ञो वा ज्ञानवान्बालो वृद्धोनीचोथचोत्तमः ।
नृसिंह मां भजन्मुक्ताः सद्यो याति गतिं सताम् ॥ ४५॥
सकृत्प्रदक्षिणीकृत्य कृतास्याद् भूप्रदक्षिणा ।
सकृन्नत्वा दण्डवन्मां भवेद्विबुधसत्तनुः ॥ ४६॥
दर्शनात्पुण्यरूपोऽसौ पारमेष्ठयं पदं व्रजेत् ।
पूजनान्ममसारूप्यं भजनान्मयि संस्थितिम् ॥ ४७॥
त्वमप्यसुरराजेन वत्स द्रोहिष्यसे यदा ।
आप्विमुक्तये बाल तदा मत्स्मरणं कुरु ॥ ४८॥
यातनाः प्रशमं सर्वा यास्यन्ति मदनुग्रहात् ।
पितापि मम संस्पर्शात्पूतो यास्यति मत्पदम् ॥ ४९॥
यदायदा ध्यायसि मामधीशं चेतः समाधाय मदङ्घ्रिपद्मे ।
तदातदा तत्र हि तत्र सिद्धस्तिष्ठामि तेऽग्रे स्मृतिमात्रतोहि ॥ ५०॥
एतावदभयं दत्वा चिन्मयो दृश्यरूपधृक् ।
वालुकाप्रतिमायां वै तिष्ठेत्तत्र निरन्तरम् ॥ ५१॥
प्रह्लादोऽपितमीशानं त्रिः परिक्रम्य सन्नतः ।
पूर्णार्थः पुरमागत्य भविष्यति जडाङ्गवत् ॥ ५२॥
तं विरुध्य पिता तस्य क्षयमेष्यति तत्क्षणात् ।
उदीर्णवक्षःस्थलो भूत्वा नखरैर्नृहरेस्तदा ॥ ५३।
इति ते कथितं देवि प्रह्लादाख्यानमुत्तमम् ।
पठतां शृण्वतां नृणां पापघ्नं मङ्गलार्थदम् ॥ ५४॥
य एतत् पठति प्राज्ञः शृणोत्यवहितो नरः ।
स प्रसादं हरेर्याति प्रियः प्रह्लादवद्भवेत् ॥ ५५॥
प्रह्लादेन कृतं स्तोत्रं यः पठेत्प्रातरन्वहम् ।
तस्य मन्त्रभवा सिद्धिर्मासेनस्यात्परार्थदा ॥ ५६॥
अन्नं यशः सुतान् कामान् पुण्यमोक्षं सनातनम् ।
प्रभावादस्य स्तोत्रस्य मर्त्यो वै प्राप्नुयात् सदा ॥ ५७॥
इति ते कथितो देवि क्षेत्राविर्भावको भुवि ।
अधुना तीर्थमाहात्म्यं शृणु सिद्धिप्रदोत्तमम् ॥ ५८॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
क्षेत्राविर्भावकोनाम चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः
श्रीशिव उवाच ।
देवस्य वामभागेऽस्ति लक्ष्मीतीर्थमनुत्तमम् ।
तस्य प्रमाणं व्यायामः शतचापमिदं विदुः ॥ १॥
पुरा लक्ष्म्यातपस्तप्तं तत्र दिव्यं समाशतम् ।
चाञ्चल्यदोषशान्त्यर्थं प्रसादान्नृहरेः प्रभोः ॥ २॥
ततः प्रसन्नो भगवांस्तस्यै वरमदाच्छुभम् ।
प्रिये खिन्नासि तपसा दुश्चरेणापि योगिभिः ॥ ३॥
तवाभीष्टं ददाम्याशु वरं वरय मङ्गले ।
चाञ्चल्यमयि ते नास्तु स्वस्था तिष्ठा वक्षसि ॥ ४॥
भार्गवे वासरे ये त्वामत्रस्तोष्यन्ति भक्तितः ।
देवीसूक्तेन वा मन्त्रैः पौराणैरागमोद्भवैः ॥ ५॥
तेषां हराम्यहं शश्वद्विपदः सम्पदोऽर्पये ।
मोक्षलक्ष्म्या विशेषेण पात्रं ते स्युर्न संशयः ॥ ६॥
इत्युक्त्वालिङ्ग्य कमलां तूष्णीमासीच्छुचिस्मितः ।
प्रतीक्षमाणः पद्मास्य प्रीतोऽभूद्वचसा तदा ॥ ७॥
लक्ष्मी उवाच ।
सर्वज्ञ करुणाम्भोधे नाथ सिंहाननाच्युत ।
वरदश्रेष्ठ यदि प्रीतो देहि मे यदभीप्सितम् ॥ ८॥
अस्मिंस्तीर्थे कृतस्नानदानतर्पणभोजनाः ।
तव मन्त्रजपासक्ताः सर्वे सन्तु महोदयाः ॥ ९॥
नित्यं त्वदङ्करमणीं ये स्मरन्ति महालसाम् ।
तेषामनन्यमनसां मुक्तिः करगता भवेत् ॥ १०॥
भूयादत्र महाँल्लाभः सर्वदा सिद्धिसम्भवः ।
योगमन्त्रतपोदानव्रतानां त्वत्प्रसादतः ॥ ११॥
श्रीभगवानुवाच ।
एवमस्तु विशालाक्षि तीर्थेऽस्मिन्सर्वदा प्रिये ।
सदा स्थास्यामि भवतीमङ्केकृत्वा वरानने ॥ १२॥
सिद्धयः सन्तु योगाद्या मोक्षसिद्धिरपि प्रिये ।
मुक्तितीर्थं सिद्धितीर्थं लक्ष्मीतीर्थं मनोहरम् ॥ १३॥
नृसिंहतीर्थमित्याख्या भूयादस्य वरानने ।
अष्टपीठानि परितो भविष्यन्त्यस्य गुप्तये ॥ १४॥
पूर्वे कोल्हापुरं नाम कामाक्षं नाम दक्षिणे ।
पश्चिमे विरजं पीठं कामरूपं तथोत्तरे ॥ १५॥
त्रिकूटं हिङ्गुलासिन्धुजालन्दरमितिस्फुटम् ।
कोणेषु तानि स्थास्यन्ति नानासिद्धिप्रदान्यलम् ॥ १६॥
कलौ कलुषबुद्धीनां नूनं गूढं भविष्यति ।
लक्ष्मीतीर्थस्यमहिमा न केनापि क्षमोऽवितुम् ॥ १७॥
अत्राहं त्वं सदा गूढं तिष्ठामो योगसिद्धये ।
लक्ष्मीनृसिंहमनुना पूजितौ संस्तुतौ नतौ ॥ १८॥
श्रीशिव उवाच ।
इत्युक्त्वा सरमो देवस्तत्रैवान्तरधीयत ।
तदारभ्याभवत्तीर्थं सर्वेषां सर्वसिद्धिदम् ॥ १९॥
कालेन नीरा संयाता तस्योपरि शुचिस्मिते ।
ततो नारायणं नाम तीर्थं विद्वद्भिरुच्यते ॥ २०।
कदाचिदत्र संयातो वणिक्कश्चिद्धनी महान् ।
स्नात्वा विचारयामास कुतो मे सम्पदीदृशी ॥ २१॥
न मयाराघितः शम्भुर्न तया तर्पिता द्विजाः ।
न मया तोषितो विष्णुदीननाथाङ्घपालनात् ॥ २२॥
न तीर्थेषु न पात्रेषु न पर्वसु कदाचन ।
काकिणीमात्रमप्याहो दत्तमन्यस्य का कथा ॥ २३॥
इत्थं चिन्तातुरस्यास्य पुरतः कश्चिदागतः ।
सिद्धोऽवधूतो दिग्वासा दीप्तनेत्रो महाप्रभः ॥ २४॥
तं प्रणम्यादरेणासौ पृष्टवान्यद्विचिन्तितम् ।
ब्रूहि योगिन् कथं सम्पज्जाता मे धनदोपमा ॥ २५॥
प्रहस्याह महायोगी का ते सम्पद् विवर्णय ।
स प्रोवाच महाभाग श्रूयतां यदि रोचते ॥ २६॥
एतेऽष्टकोटयोऽर्थानां कोटयोऽश्वतरीगणाः ।
महामरकता नीला गारुडास्तादृशा मम ॥ २७॥
मुक्ताफलानां नवतीः कोटीनां मद्गृहे तथा ।
सत्येवं मणयोऽनन्ता वाससां पर्वता इमे ॥ २८॥
धातूनां शिखराण्याह दशलक्षं गृहे मम ।
तादृशाः कोटिगुणिताः सम्भाराः सन्ति हे प्रभो ॥ २९॥।
धान्यक्षेत्रगजानीकस्यन्दनादिभिरुज्जवलाः ।
सर्वदेशेष्वहं मान्यो घनाढ्यानां महत्तमः ॥ ३०॥
केन पुण्येन सञ्जातो न जानाम्यत्रकारणम् ।
स प्रोवाच महाभाग कथ्यतां कृपया हि तत् ॥ ३१॥
अवधूत उवाच ।
पुरा त्वं याचको दीनो विप्रो जन्मनि सप्तमे ।
यावज्जन्म परान्नेन तुष्टो लुब्धोऽतिशोच्यधीः ॥ ३२॥
स कदाचिच्चरन्नुर्वीं नीरातीरमुपागतः ।
एकादश्यां फलाहारमपिनो लब्धवानिह ॥ ३३॥
क्षुघातुरस्य दीनस्य रात्रिरन्नैककाङ्क्षिणः ।
जागरेण व्यतीता सा भ्रमतो देवमन्दिरे ॥ ३४॥
प्रसङ्गाद्दैवतो रात्रौ पूजानरहरेरलम् ।
भक्तैः कृतालोकिता ते नामानि शृण्वतो हरेः ॥ ३५॥
प्रभाते सङ्गमे स्नात्वा लक्ष्मीतीर्थमुपागतः ।
पल्लवस्थान्यवान्प्रादाः कस्मैचिद् द्विजलिङ्गिने ।
ततः कालवशं यातः प्रापितो यमसन्निधौ ।
तावद्यमेन प्रयता गच्छ गच्छेति भाषितः ॥ ३७॥
तदैव दक्षिणे देशे द्राविडेषु नरेश्वरः ।
जातस्त्वं सर्वभोगाढ्यः पञ्चवारं सुजन्मसु ॥ ३८॥
पञ्चप्रदक्षिणा रात्रौ भ्रमता विहितास्त्वया ।
तेन पुण्येन राजेन्द्रः पञ्चजन्मनि भोगवान् ॥ ३९॥
तेन गन्तासि वैकुण्ठं यतो नावर्तनं पुनः ।
अधुनोपोषणं यत्ते कृतमेकादशीदिने ॥ ४०॥
पूजादर्शनपुण्येन प्राप्तवानद्य सन्मतिम् ।
यवदानेन सम्पत्तिं गतोऽसि वणिजाम्पते ॥ ४१॥
अत्राण्वपि हि यत् किञ्चित्सुकृतदुष्कृतं कृतम् ।
न तस्यान्तोऽस्ति कल्पान्ते यत्रोदाहरणं भवान् ॥ ४२॥
श्रीशिव उवाच ।
इत्युक्त्वा स तु योगीन्द्रो दत्तात्रेयो महामुनिः ।
तत्रैवान्तर्दधे सोऽपि विस्मयं परमं गतः ॥ ४३॥
दत्वा सर्वस्वमार्यभ्यो यज्ञैरिष्ट्वा सुदक्षिणैः ।
तत्रैव संस्थितो निन्ये शेषमायुरकिञ्चनः ॥ ४४॥
जितेन्द्रियो जितश्वासो ध्यायन्नरहरिं हृदि ।
ददर्शाग्रे स्थितं दिव्यं विमानं तैजसं महत् ॥ ४५॥
सद्यश्चतुर्भुजोपेतो दिव्यालङ्कारभूषणः ।
दिव्यवेषो विमानं तदारुरोह मुदायुतः ॥ ४६॥
स वैकुण्ठे हरेर्दासो विष्णुदास इतीरितः ।
अद्यापि राजते श्रीमान् विष्णुचिन्हैरलङ्कृतः ॥ ४७॥
इति सूत्रेण महिमा लक्ष्मीतीर्थस्य वर्णितः ।
अस्य स्मरणमात्रेण महापापैः प्रमुच्यते ॥ ४८॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
श्रीलक्ष्मीतीर्थप्रभाववर्णनं नाम पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः
देव्युवाच ।
लक्ष्मीतीर्थस्य महिमा श्रुतो देव मुखात्तव ।
अन्येषां तीर्थवर्याणां माहात्म्यं वक्तुमर्हसि ॥ १॥
श्रीशिव उवाच ।
लक्ष्मीतीर्थात् पृष्ठभागे धनुषां पञ्चविंशतिः ।
पद्मतीर्थं महापुण्यं सर्वेषां सिद्धिदायकम् ॥ २॥
भगवद्दर्शनानन्दविकलायाः कराग्रतः ।
पद्माया गलितं पद्मं पद्मतीर्थं ततो विदुः ॥ ३॥
कुबेरो यत्र सम्प्राप्तो यतः पद्मनिधि पुरा ।
अद्यापि पद्मतीर्थस्य सेवका न दरिद्रिणः ॥ ४॥
वामे पद्मनिधेः पूर्वे भागे शङ्खनिधिः स्थितः ।
गदातीर्थं पवित्रं च विद्यते शृणु पार्वति ॥ ५।
चतुर्णामिहतीर्थानां महिमा दुर्लभः कलौ ।
स्मरणात्सर्वपापघ्नो दर्शनान्मुक्तिदो मतः ॥ ६॥
देवस्य वामे पुरतो गदातीर्थमनुत्तमम् ।
गदाधरो यत्र देवो गयापुण्यं ददात्यसौ ॥ ७॥
नीरायां लक्ष्मीतीर्थात् धनुषां पञ्चविंशतिः ।
गदातीर्थं गयायास्तु कोटिश्राद्धफलप्रदम् ॥ ८॥
पितरः सर्वदेच्छन्ति गदातीर्थोदकक्रियाम् ।
श्राद्धस्याकल्पिकी तृप्तिराकल्पं तीर्थं हि स्मृतम् ॥ ९॥
गदातीर्थे कृतस्नानतर्पणश्राद्धदानतः ।
मनुजो लभते सिद्धिं प्रसादान्नृहरेः प्रिये ॥ १०॥
पुरा कश्चिद् द्विजश्रेष्ठो दाक्षिणात्यः शुचिव्रतः ।
पितॄणां निष्कृति प्रेप्सुर्गच्छस्तीर्थ व्रती गयाम् ॥ ११॥
आगतो नीरया यत्र गदातीर्थ सुसंस्कृतम् ।
कृतवान् स्नानदानादि शृद्धायुक्तः पितृव्रतः ॥ १२॥
तावद्ददर्श दिव्याङ्गान् विमानैश्चरतो दिवम् ।
स्वपितृन्परिसन्तृप्तान् साधु साध्विति वादिनः ॥ १३॥
त ऊचुर्ब्राह्मणवरं पुत्र ते तारिता वयम् ।
गदातीर्थप्रभावेण गच्छामो हरिमन्दिरम् ॥ १५॥
गृहं त्वं गच्छ तीर्थानि कृतानि नो विनिष्कृतिः ।
अधुना प्रयोजनं नास्ति वत्स तीर्थाटनस्य ते ॥ १५॥
श्रुत्वा पितृवचोऽभीक्ष्णं विस्मितोऽभूद् द्विजोत्तमः ।
गदातीर्थे चिरं स्थित्वा देहान्ते हरिमाप सः ॥ १६॥
(??)पश्चिमतो धनुषामेकविंशतिः ।
पिशाचमोचनं नाम तीर्थं पावनमस्ति हि ॥ १७॥
तत्र किञ्चित्पुरावृत्तं देवि ते कथयाम्यहम् ।
विष्णुशर्मेति विप्रोऽभूदथर्वण इति स्मृतः ॥ १८॥
स्मरन्नरहरिं नित्यं सदाचारो दयान्वितः ।
कदाचित्काशिकां द्रष्टुमीयुषां सहचारिणाम् ॥ १९॥
सङ्गाद्गच्छन्पथि श्रान्तो विन्ध्याद्रेरधरे स्थितः ।
तावदग्रेऽभवत्तस्य धूमराशिर्महोल्बणः ॥ २०॥
चक्षुषा केवलं वृक्षानुत्तुङ्गानपि यो दहन् ।
तन्मध्ये ददृशे तेन विप्रेण सहसा तदा ॥ २१॥
अस्थिमात्रैकसञ्च्छन्नो दीर्घग्रीवा भयानकः ।
पिङ्गश्मश्रु धूम्रत्वचः प्राणिनां प्राणहारकः ॥ २२॥
बहुभिः परिनृत्यद्भिः परीतः प्रेतवृन्दकैः ।
भीषयन् पथिकान् खादन् विप्राग्रेऽवस्थितः खलु ॥ २३॥
विष्णुशर्मा नृसिंहेति जगदोच्चैः सहानुगैः ।
स तत्तीर्थोदकं तेषामुपरि प्राक्षिपत्तदा ॥ २४॥
तज्जलस्पर्शमात्रेण नृसिंहनामकीर्तनात् ।
सद्यो दिव्यतनुर्भूत्वा विमानस्थोऽभवन्मुदा ॥ २५॥
प्रेत उवाच ।
मोचिता भवता विप्र तीर्थाम्बुस्पर्शनाद्वयम् ।
गच्छामो विष्णुभवनं प्रसादात्तव पावनम् ॥ २६॥
दिव्यं ज्ञानं ममोत्पन्नं नृसिंहाख्यास्मृतेर्वरम् ।
इदानीं पृच्छ यद्वाञ्च्छा सर्वं ते कथयाम्यहम् ॥ २७॥
विष्णुशर्मोवाच ।
कस्त्वं प्रेतवपुः पापात्कस्माज्जातमिदं प्रभो ।
जलस्य कस्य संस्पर्शाद् गतोऽसि हरिमन्दिरम् ॥ २८॥
प्रेत उवाच ।
पुराहं राजवर्यस्य भोजनाम्नो यशस्विनः ।
पुरोहितोऽभवं विप्रो वेदवेदाङ्गपारगः ॥ २९॥
एते सहाय्यका विप्रा मम शास्त्रविशारदाः ।
एतैर्मया पराभूता बहवः पण्डितोत्तमाः ॥ ३०॥
छलेन परिहारेण वृत्त्या ते परिहारितः ।
राज्ञा न पूजिताः केचिन्मया तृणसमाः कृताः ॥ ३१॥
दानव्रततपोहोमैरर्चयित्वा धनं बहु ।
अदान्ता उग्रकर्माणो ब्रह्मद्वेषेण सर्वदा ॥ ३२॥
प्राप्ता पापीयसीं योनिः पैशाचीं स्मृतिनाशिनीम् ।
भवता मोचिता ह्यद्य जलस्पर्शेण सन्मते ॥ ३३॥
विष्णुशर्मोवाच ।
कुतोऽस्य महिमा साधो जलस्य प्रेतमोचने ।
त्वर्णय यदि कृपा मयि ते स्यादलौकिकी ॥ ३४॥
प्रेत उवाच ।
साधो य एष कलशो हस्ते ते वर्ततेऽधुना ।
पिशाचमोचनजलस्यैतस्मिन्नार्द्रताभवत् ॥ ३५॥
तत्सङ्गात्पावनं वारि बभूव कलशेस्थितम् ।
येन प्रेतत्वमुत्सृज्य प्राप्ता दिव्यां गतिं द्विज ॥ ३६॥
गदातीर्थाग्रतो दीप्तं वर्तते तीर्थमुत्तमम् ।
पिशाचमोचनं नाम येन सम्मोचिता वयम् ॥ ३७॥
पिशाचमोचने स्नात्वा तर्पयित्वा पितॄन् द्विजान् ।
उद्धरेन्नरकाम्भोघेः पितॄन् प्रेतांश्च पूर्वजान् ॥ ३८॥
नित्यं परिचरेद्यस्तु तीर्थं पैशाचमोचनम् ।
तस्याज्ञानपिशाचत्वं सद्यो नश्यति बन्धकृत् ॥ ३९॥
पुरात्र हरिणा दत्तो लोकानां हितकाम्यया ।
पिशाचमोचने मुक्तिः वरः कामफलप्रदः ॥ ४०॥
असंस्कृताः संस्कृतास्तु संस्कृता मोक्षभाजनाः ।
न तथान्यच्छोभते तीर्थं यथेदं तीर्थमुत्तमम् ॥ ४१॥
अत्राहं गुरुरूपेण स्थित्वा स्नानार्द्रवर्ष्मणाम् ।
चित्ते दिशामि तज्ज्ञानं येन बन्धाद्विमुच्यते ॥ ४२॥
दूरस्थेनापि पापेन स्तुतिः पैशाचमोचिनी ।
श्राव्या शृद्धान्वितो भूत्वा मत्कृता मोक्षप्राप्तये ॥ ४३॥
इत्युक्त्वा नृहरिस्तत्र बभूवान्तर्हितो द्विज ।
नीरा तस्योपरिगता पुण्या या नृहरेस्तनुः ॥ ४४॥
अधुना त्वरं तीर्थं तीर्थानामुत्तमं खलु ।
वर्तन्ते दिव्यवपुषो यत्र स्नात्वा द्विजोत्तम ॥ ४५॥
श्रीशिव उवाच ।
श्रुत्वा प्रेतस्य वचनं द्दष्टवा गतिमनुत्तमाम् ।
विष्णुशर्मा विस्मितोऽगात्पुनर्नीरातटं शुचिः ॥ ४६॥
पिशाचमोचने स्थित्वा स्तुत्वा नरहरिं तदा ।
मुक्तोऽभव्विष्णुशर्मा भवबन्धात्तदा प्रिये ॥ ४७॥
पिशाचमोचनाख्यानं ये शृण्वन्ति नरोत्तमाः ।
तेऽपि मुक्ता भवोद्वन्धाद्यान्ति विष्णोः परं पदम् ॥ ४८॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
पिशाचमोचनतीर्थवर्णनं नाम षष्ठोऽध्यायः ।
सप्तमोऽध्यायः
देव्युवाच ।
पिशाचमोचनाख्यानं श्रुतं परममद्भुतम् ।
इदानीं श्रोतुमिच्छामि स्तुतिं पैशाचमोचिनीम् ॥ १॥
हरिः कस्मादिमां पुण्यां कृतवान् स्तुतिमुत्तमाम् ।
त्वर्णय महादेव यया बन्धाद् विमुच्यते ॥ २॥
श्रीशिव उवाच ।
पुरा कल्पादिसमये विष्णुर्नाभेरभूदजः ।
चतुर्युसहस्त्रान्ते तस्य निद्रामुपेयुषः ॥ ३॥
विष्णुकर्णमलोद्भूतौ सञ्जातौ मधुकैटभौ ।
ताभ्यामुपाहृताः सर्वे वेदा विश्वस्य साधनम् ॥ ४॥
काले सिसृक्षात्तावद् वेदा अस्मरणं गताः ।
ततः पिशाचवज्जज्ञे ब्रह्मा दानवभीतितः ॥ ५॥
तस्य नारायणोऽनन्तो दिदेश स्तोत्रमुत्तमम् ।
ब्रह्मणः पुरतो स्थित्वा मन्त्रराजात्मकं शिवम् ॥ ६॥
तेन प्रबुद्धो भगवान् ब्रह्मा लोकपितामहः ।
अस्मरद्वेदमखिलं ज्ञानं यत्पौर्वकालिकम् ॥ ७॥
तदहं तेऽभिघास्यामि नारायणवरादिदम् ।
श्रुतं ब्रह्ममुखाद्देवि सर्वार्थानां प्रसादकम् ॥ ८॥
विशुद्धमजमानन्दमेकमात्रमखण्डितम् ।
सच्चिन्मात्रं परं शान्तं यत्तद् ब्रह्म नमाम्यहम् ॥ ९॥
यद्भासा निखिलं भाति यस्यनान्यत्प्रकाशकम् ।
पुराणमव्ययं ज्योति तद्धि ब्रह्म नमाम्यहम् ॥ १०॥
यदेकं सर्वरूपेषु प्रतिरूपतया स्थितम् ।
ज्योतिर्यथोदपात्रेषु तद्धि ब्रह्म नमाम्यहम् ॥ ११॥
यदन्तः सर्वभूतानां यत्तद्रूपमबाधितम् ।
मेवाभरणादीनां तद्धि ब्रह्म नमाम्यहम् ॥ १२॥
यदेकं सर्वभावानां निरन्तरमदूषितम् ।
चिन्मात्रं निष्फलं पूर्णं तद्धि ब्रह्म नमाम्यहम् ॥ १३॥
येनार्थान् भजते जन्तुरन्द्रियेषु मनस्यपि ।
निरहङ्कारमानन्दं तद्धि ब्रह्म नमाम्यहम् ॥ १४॥
यन्मनो मनसां प्राणः प्राणानामिद्रियं वरम् ।
सर्वात्मकमखण्डं सत्तद्धि ब्रह्म नमाम्यहम् ॥ १५॥
यन्नामगुणरूपाद्यैर्विचित्रमपि सर्वगम् ।
अज्ञेयं पशुबुद्धीनां तद्धि ब्रह्म नमाम्यहम् ॥ १६॥
यस्मादुदेति स्विश्वं येन जीवति वर्धते ।
यस्मिन्प्रलीयते सर्वं तद्धि ब्रह्म नमाम्यहम् ॥ १७॥
यतो वागादयो भावा उत्थिताः स्वस्वकर्मसु ।
प्रवर्तते साक्षिरूपात्तद्धि ब्रह्म नमाम्यहम् ॥ १८॥
सकलं निष्कलं व्योम मायातीतं निरञ्जनम् ।
अस्ति नास्ति द्वयातीतं तद्धि ब्रह्म नमाम्यहम् ॥ १९॥
यद् ग्रासकं ग्रासकाणां वीराणां च विवर्धनम् ।
व्यापकं व्यापकानां च तद्धि ब्रह्म नमाम्यहम् ॥ २०॥
यज्ज्वालयति कालाद्यांस्तमो येन प्रकाशते ।
महाज्वालातमोरूपं तद्धि ब्रह्म नमाम्यहम् ॥ २१॥
यत्सर्वतो वदनवत्सर्वतः करपाच्छिरः ।
सर्वतो नयनं श्रोत्रं तद्धि ब्रह्म नमाम्यहम् ॥ २२॥
यद्विचारवतां नृणां बन्धोऽनादितमोभवः ।
सद्यो नश्यति शारीरस्तद्धि ब्रह्म नमाम्यहम् ॥ २३॥
यस्याज्ञयानिलार्केदुर्मृत्युवन्हिग्रहादयः ।
सर्वे कर्मसु वर्तते तद्धि ब्रह्म नमाम्यहम् ॥ २४॥
यन्नाम मङ्गलतमं मङ्गलानामनुत्तमम् ।
स्तुतिभिस्तूयते वेदैस्तद्धि ब्रह्म नमाम्यहम् ॥ २५।
यस्यात्मत्तां विन्दां मृत्युरनादिम्रियतेक्षणात् ।
मृत्युमारणमापूर्णं तद्धि ब्रह्म नमाम्यहम् ॥ २६॥
निषिध्य सर्व लोकेऽस्मिन्यच्छेषमुपलभ्यते ।
सत्तामात्रमनिर्देश्यं तद्धि ब्रह्म नमाम्यहम् ॥ २७॥
पूर्णमन्तर्बहिः पूर्णं येन पूर्णेन पूर्यते ।
पूर्णस्य पूर्णमाकाशं तद्धि ब्रह्म नमाम्यहम् ॥ २८॥
एतद्देवि महास्तोत्रं महापैशाचमोचनम् ।
यत्र कुत्र स्मरन् जन्तुर्ब्रह्मसायुज्यमश्नुते ॥ २९॥
कैवल्याद्यखिलार्थानामिदमेवेहकारणम् ।
नृहरेर्मन्त्रराजस्य स्तोत्रं पैशाचमोचनम् ॥ ३०॥
एतत्पठणतो याति मुक्तिमात्यन्तिकीं नरः ।
किं पुनः सर्वभोगाद्यांस्तुच्छ्य् दीनेषुसम्मतान् ॥ ३१॥
एतत्प्रसङ्गतः प्रोक्तं स्तोत्रं तेऽभीष्टसिद्धिदम् ।
अधुना शृणु वक्ष्याभि शेषतीर्थानि सूत्रतः ॥ ३२॥
पिशाचमोचनात्पश्चात्तीर्थं गारुडसंज्ञितम् ।
गरुडेन तपस्तप्त्वा यत्र लब्धं महद्बलम् ॥ ३३॥
जित्वामरेश्वरं सङ्ख्ये सुधां हृत्वा बलात्ततः ।
विमुच्य मातरं दास्याद् विनतामजितोऽभवत् ॥ ३४॥
तोषयित्वा रणे विष्णुं तेनायं याचितो मुदा ।
वाहनन्त्व गतो जग्घ्वा पन्नगान्कोटिशोऽभितः ॥ ३५॥
तत्तीर्थे स्नानदानेन सर्ववेदसमुद्भवम् ।
पुण्यं प्राप्नोति कल्याणि यत्र कुत्र मृतोऽपि सः ॥ ३६॥
ततोनृसिंहतीर्थं वे क्रोशमात्रं वरानने ।
हिरण्यकशिपुं हत्वा यत्र देवो व्यवस्थितः ॥ ३७॥
तत्तीर्थस्य प्रभावो हि मया वक्तुं न शक्यते ।
सर्वार्थदं मोक्षबीजं तीर्थं तत्परमं प्रिये ॥ ३८॥
श्रीमन्नृसिंहः सम्पूज्यो भक्तविघ्नौघनाशनः ।
नानोपहारैः क्षेत्रस्य महाभीत्युपशान्तये ॥ ३९॥
एतानि तीर्थमुख्यानि वामे देवस्य चाग्रतः ।
एकैकस्मिन् वसन्तीह कोटिशस्तीर्थराशयः ॥ ४०॥
इन्द्रतीर्थं ततःपुण्यमन्वितं कोटितीर्थकैः ।
हरिर्नायासतो यत्र ररक्षेद्रं हि पातकात् ॥ ४१॥
श्वेततीर्थं च तस्याग्रे हंसतीर्थं वदन्त्यदः ।
हंसावतारो भगवान् यत्र ज्ञानमदीदिशत् ॥ ४२॥
तस्यैव परितः सन्ति तीर्थानि सनकादिभिः ।
कृतानि योगिभिः पुण्यान्ययुतानि चतुर्दश ॥ ४३॥
मरीचिरत्रिः पुलहो वसिष्ठः क्रतुरङ्गिराः ।
पुलस्त्यो देवलः सोमो दक्षो गीष्पतिरत्रिजः ॥ ४४॥
वरुणो धनदो वायुर्यमोऽग्निर्निऋतिर्वसुः ।
स्वनाम्ना तीर्थमुख्यानि कृत्वा सिद्धिं परां गताः ॥ ४५॥
सर्वतीर्थं ततः पुण्यं तीर्थैर्यत्र तपः कृतम् ।
नृहरेरर्चनात्प्राप्तं पापघ्नं पुण्यदं बलम् ॥ ४६॥
तारातीर्थं महापुण्यं यत्रतारा तपःस्थिता ।
रघुवीरप्रसादेन गता ज्ञानमखण्डितम् ॥ ४७॥
दुर्वासतीर्थमतुलं कपिलस्यच योगिनः ।
यत्रैकाक्षरजाप्येन गतावात्यन्तिकीं गतिम् ॥ ४८॥
एतान्यन्तरतो नीराभीमयोः क्षेत्रमध्यतः ।
तीर्थान्यन्यानि च कलौ प्रवक्ष्यन्त्यन्यनामभिः ॥ ४९॥
भीमामध्ये च तीर्थान्यधुना ते ब्रवीम्यहम् ।
एषां नामानि संस्मृत्य महापापैः प्रमुच्यते ॥ ५०॥
@इति श्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वती
संवादे तीर्थमहिमावर्णनं नाम सप्तमोऽध्यायः ।
अष्टमोऽध्यायः
श्रीशिव उवाच ।
दुर्गातीर्थं महापुण्यं सर्वदुर्गोपशान्तिकृत् ।
यत्र स्नानकृतां नृणां दुर्गतिर्नाशतां गता ॥ १॥
कालरूपं ततः पूर्वे महाकालस्य सन्निधौ ।
उज्जयिन्याः शतगुणं फलं यच्छति मज्जतः ॥ २॥
भीमानृसिंहपुरतो महानादेश्वरोऽर्चितः ।
क्षेत्रान्तरात्कोटिगुणं फलं यच्छति निश्चितम् ॥ ३॥
दुर्गया विमले तीर्थे देवोऽयं विमलेश्वरः ।
वाराणश्या अपि महत्फलं यच्छति पूजितः ॥ ४॥
कुरुक्षेत्रात्तीर्थवरात् स्थाणुर्यत शिलामयः ।
दानाद्यैः पूजितो भक्त्या फलं यच्छत्यसंशयम् ॥ ५॥
तत्रैव पञ्चहस्तेन कोटितीर्थं महाफलम् ।
तत्र स्नात्वा समभ्यर्च्य गोकर्णात्कोटिपुण्यभाक् ॥ ६॥
बहून्यन्यानि क्षेत्राणि विद्यन्ते च महेश्वरि ।
विदिक्षु दिक्षु परितः क्रमादेव निबोध मे ॥ ७॥
तेजस्तीर्थे महातेजाः शङ्कुकर्णो विराजते ।
सर्वतीर्थे कृत्तिवासा एकाम्बरसहायवान् ॥ ८॥
कालाञ्जने नीलकण्ठ ऊर्ध्वरेतास्त्रिदण्डके ।
छागलण्डे कपर्दीशः शोभते शृणु पार्वति ॥ ९॥
गङ्गायां च जयन्तो वै पुरुके चादिसंहतः ।
गोकर्णस्याभितः सौम्ये संस्थितः कुक्कुटः प्रिये ॥ १०॥
ततो भीमाजले रम्ये ब्रह्मावर्तेऽथ देवराट् ।
ततोऽग्नितीर्थे सोमेशः प्रभासेन सहस्थितः ॥ ११॥
ततो गयायां फल्गुस्थो धर्मेशः परमो महान् ।
वामेश्वराज्जटादेवो हरिश्चन्द्राद्धरीश्वरः ॥ १२॥
वृषध्वजाद् वृषेशश्च भवो वै वात्सनापथात् ।
भद्रकर्णाच्छिवः साक्षाद्धर्मलिङ्गाद्धरेश्वरः ॥ १३॥
नेपालात्पशुपो देवो दारुक्षेत्रात्तु दण्डधृक् ।
उग्रः कनकलादुद्रालयाद्रुद्रः समागतः ॥ १४॥
केदाराद् गर्भईशानः सहस्त्राक्षः सुवर्णतः ।
सर्वमेध्याच्च सर्वेशः श्रीशेलात् त्रिपुरान्तकः ॥ १५॥
जालेश्वरात् त्रिशूली च काश्मीराद्विजयेश्वरः ।
आम्लातकाच्च सूक्ष्मेशश्चण्डेशो मरुजाङ्गलात् ॥ १६।
रुद्रकोटान्महायोगी शूलटङ्कः प्रयागतः ।
महाव्रतो महेन्द्राच्च मरुकोटान्महोत्कटः ॥ १७॥
अयोगीशः पुष्कराच्च करवीरात्कपालभृत् ।
माहेश्वर् दीप्तिनाथो भूतेशाद् भस्मगात्रवान् ॥ १८॥
गङ्गासागरतो देवोऽमरेशोऽपि समागतः ।
विन्ध्याद् धरणिवाराहः कैलासाद् गणनायकः ॥ १९॥
हेमूकूटाद् विरूपाक्षः पातालाद् हाटकेश्वरः ।
किरातेशः किरातारव्याज्जललिङ्गाज्जलेश्वरः ॥ २०॥
अनलेशो वाडवास्यादोङ्कारोऽमरकण्टकात् ।
देवकायादुमानाथो विरजस्काद् विरोचनः ॥ २१॥
लङ्काया मरुकेशानो गङ्गाद्वाराद् हिमेश्वरः ।
नकुलेशात्स्वयम्भूर्वै लकुलीकात्परोहतः ॥ २२॥
सप्तगोदावरीतीर्थाद् भीमेओ भीमविक्रमः ।
कर्णिकाराद् गुणाध्यक्षो त्रागताद्धि गदाधरः ॥ २३॥
भूर्भुवः स्वः पतिर्देवो गन्धमादनतः प्रिये ।
काश्या विश्वेश्वरो देव उमानाथः समागतः ॥ २४॥
समागतानि तीर्थानि देवतैः सह सत्पुरम् ।
द्रष्टुं नृसिंहरूपं वै सर्वार्थैकामरद्रुमम् ॥ २५॥
भीमायां पञ्चहस्तानामन्तरेण स्थितान्यलम् ।
ऐकैकस्य महत्त्वं हि मया व्याख्यातुमक्षमम् ॥ २६॥
अनन्तसिद्धिमापन्ना एतेषु स्नानदानतः ।
मुक्ताः कति न जानेऽहं त्रिलोकेशोऽपि वै प्रिये ॥ २७॥
अत्राप्याख्या पुण्यतमा गीयन्ते नारदादिभिः ।
रहस्यं भीमरथ्याश्च सर्वेषां सर्वकामदम् ॥ २८॥
एकदा मुनयः सर्वे तीर्थयात्रां चिकीर्षवः ।
वृन्दशो धरणीं चेरुब्रह्मिष्ठाः सर्वदर्शिनः ॥ २९॥
विश्वोमित्रो वामदेवो भरद्वाज ऋभुः क्रतुः ।
अगस्त्यः कण्व उत्तङ्को देवलो भार्गवोऽसितः ॥ ३०॥
व्यासाद्याः सङ्घशः शिष्यैश्चरित्वाभुवत्रयम् ।
श्रान्ता अप्राप्तसन्तोषा बभूवुस्ते तदा प्रिये ॥ ३१॥
मार्गे तीर्थकथां स्वैरं कुर्वन्तो गुणबुद्धयः ।
मिथो विचारयामासुः किं श्रेष्ठं तीर्थमुत्तमम् ॥ ३२॥
कः काशीं कश्चनावन्ती केऽपि तीर्थान्यनेकशः ।
विवदन्तः प्रशंसतो नैवापुःस्थैर्यमात्मनः ॥ ३३॥
तेषु ज्ञानवतां राजा वसिष्ठो मौनमास्थितः ।
विज्ञापितो मुनिवरैर्मुने कस्मान्न भाषसे ॥ ३४॥
स प्रोवाच विवादे वो नास्त्येकोऽपि नियामकः ।
विनैकं नारदमृषिं महाभागवतोत्तमम् ॥ ३५॥
ते तद्वाक्यं प्रशंसन्तः प्रोचुःक्वासौ स नारदः ।
वञ्चयित्वाखिलान् गूढः किं तीर्थमनुसेवते ॥ ३६॥
एवं हि विचारपरा मनोयोगाद्धियोगिनः ।
विचिन्वाना ब्रह्मपुत्रं भीमातीरे स्थितं ययुः ॥ ३७॥
वीरासनास्थं विमलाम्बर सृजं विरागमानन्दभरेण पीवरम् ।
भ्रूमध्यदृष्टिं परमं समाधिना विलोकयन्तं नरसिंहमात्मनि ॥ ३८॥
वीक्ष्य भावेन देवर्षि ब्रह्मर्षिप्रवरा नताः ।
आस्थिता परितो यत्र भीमा दक्षिणवाहिनी ॥ ३९॥
प्रोचुः प्राञ्जलयः श्रान्ता वयं देव मुनीश्वर ।
अलब्धान्यत्र विश्रान्तिं प्राप्तास्तेऽतिकमादरात् ॥ ४०॥
मूढानां क्लेशखिन्नानामस्माकं तीर्थवेदने ।
संशयं वचसापोह्य सुखकर्तुमिहार्हसि ॥ ४१॥
नारद उवाच ।
अहो ब्रह्मर्षयः पुण्या हित्वा मानं धियं पराम् ।
श्रोतुं वाञ्छा यद्यस्ति वक्ष्ये वोऽसंशयं वचः ॥ ४२॥
पुरोक्तं ब्रह्मणा पित्रा पुत्रेभ्यो नः परं वचः ।
यत्र विष्णुशिवौ युक्तौ नानारूपौ जगत्पती ॥ ४३॥
तत्र क्षेत्राणि तीर्थानि देवा मुक्तिः क्रिया फलम् ।
तदहं मनसा ध्यात्वा सर्वतीर्थैकसङ्ग्रहम् ॥ ४४॥
ब्रह्मणो वचनादत्र वसामि सुखमादरात् ।
अत्र तीर्थानि सर्वाणि क्षेत्राणि च महर्षयः ॥ ४५॥
वसतिं करोति पुण्येयं भीमा दक्षिणवाहिनी ।
अत्र भुक्तिश्च मुक्तिश्च पुरुषार्थोऽत्रपुष्कलः ॥ ४६॥
इयं भीमा महादेवो नीरा साक्षाद्रमापतिः ।
उभयोः सङ्गमो यत्र तत्रैवात्यन्तिकी गतिः ॥ ४७॥
एतद्रहस्यं परमं निधानमिव पीठके ।
गुप्तं भूगोलके धात्रा सर्वेषां मोक्षसाधनम् ॥ ४८॥
श्रीशिव उवाच ।
श्रुत्वेदं नारदोक्तं वै दिव्यज्ञाना महर्षयः ।
ज्ञात्वा रहस्यं क्षेत्रेऽस्मिन्नास्थिता विश्रमं पदम् ॥ ४९॥
ततः प्रभृति बभूवुस्ते निर्भरानन्दमोदिताः ।
श्रीनृसिंहस्थितिजुषः क्षेत्रस्यास्य प्रभावतः ॥ ५०॥
याते कियति काले तैर्हतसर्वेन्द्रियक्रियैः ।
समाधिनिरतैः सर्वैर्ददृशे वै महाद्भुतम् ॥ ५१॥
सर्वतीर्थानि मूर्तानि क्षेत्राणि च महात्यंहो ।
पूजयन्ति स्म नृहरिं नीराभीमाम्बुसङ्गमे ॥ ५२॥
हरिपूजाभरालोकात्पुण्यौघमुपलभ्य वै ।
विचेरुः स्वेषु स्थानेषु नीडेषु पक्षिणो यथा ॥ ५३॥
सायं प्रातश्च मध्याह्नेनृहरेः पूजनोदये ।
सर्वतीर्थानि क्षेत्राणि द्रष्टुं यान्ति दिनेदिने ॥ ५४॥
इत्यालोक्याद्भुतं सर्वे विस्मिता नृहरेः पदम् ।
प्रशंसन्तो विचेरुस्ते स्वस्वमालयमादरात् ॥ ५५॥
@इतिश्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
भीमामद्यतीर्थवर्णनं नाम अष्टमोऽध्यायः ।
नवमोऽध्यायः
गोतीर्थं प्रथितं लोके शृणु त्वं मृगलोचने ।
यदाख्यानं पितृगणैर्मुदा संस्तूयते सदा ॥ १॥
प्रह्लादाय प्रसन्नाय प्रसन्नं जगतां पतिम् ।
ययुर्द्रष्टुं सुरेशानं मुनीन्द्राद्या वरूथशः ॥ २॥
आकीर्णवलयैः पुष्यैः स्तुत्वा स्तोत्रैरनेकशः ।
महाभिषेकसम्भारं चक्रुस्ते परमादरात् ॥ ३॥
पञ्चामृतानि सरितां पीठं पुण्यतमैर्जलैः ।
ओषधीर्धरणीदेवी पीठं शेषोऽप्युपानयत् ॥ ४॥
तदा कामदुहो गावो बभूवुर्वै सहस्त्रशः ।
नारसिंहं समालोक्य प्रस्तुतस्तनमन्धराः ॥ ५॥
आगत्य चिन्तामणिना कृतं नीराजनं प्रिये ।
वामे स्थितेन भक्त्या तं ववर्षुः पायसीं सृतिम् ॥ ६॥
पयसा स्नापयित्वेशं गावो दक्षिणतः स्थिताः ।
मार्गयन्त्यो नृहरेः प्रसादं विमलाशयाः ॥ ७॥
तां समालोक्य संसिद्धिं चेतसो भक्तिभावितम् ।
उवाचेदं प्रसन्नात्मा नृहरिर्भक्तवत्सलः ॥ ८॥
श्रीभगवानुवाच ।
वरो वः श्रूयतां गावो भक्त्या तुष्टस्य मे परः ।
भवतीभिः पयोधारा मुक्ता या मम मूर्धनि ॥ ९।
धारातीर्थं तदेवेदं गोतीर्थमिति विश्रुतम् ।
भविष्यति महापुण्यं पितॄणां तोषकारणम् ॥ १०॥
कुरुक्षेत्रे प्रयागे च गयायामन्यधामसु ।
या तृप्तिःशतवर्षैःस्याच्छ्राद्धे सा लभ्यते सकृत् ॥ ११॥
गोतीर्थे स्नानदानादि कुर्वतां वसतिः प्रिये ।
कल्पान्ते मत्प्रसादेन भवेद्धि सन्निधौ मम ॥ १२॥
दक्षे कामदुहो वामे चिन्तामणिगणेश्वरः ।
पृष्ठे कल्पद्रुमोऽश्वत्थः प्रियं मे त्रयमुत्तमम् ॥ १३॥
पर्वपर्वसु गोयात्रा चतुर्थ्यां गणपूजनम् ।
मन्दवारेऽश्वत्थसेवा नियता सफलार्थिनाम् ॥ १४॥
अहो तीर्थानि सरितो देवर्षिमनुजादयः ।
गोतीर्थे स्नाततृप्त्यर्थं पितॄणां कामसिद्धये ॥ १५॥
श्रीशिव उवाच ।
आदेशमिममाकर्ण्य सर्वे गोपयसां हृदे ।
चक्रःस्नानानि दानानि पितृणां तृप्तिहेतवे ॥ १६॥
तदा प्रजानां पितरस्तत्क्षणाद्दिव्यवर्चसः ।
मूर्तस्तुष्टाःपुष्टदेहास्तुष्टुवुर्नृहरिम्मुदा ॥ १७॥
यो लीलयात्मनिजगद्वितनोत्यनन्तः पुष्णाति निर्मलसुधानयनेन नित्यम् ।
सद्यःस्वरूपमहसाभिवृणोति सर्वं तस्याद्य तृप्तिकरणे कतमः प्रयासः ॥ १८॥
सर्वेषु देहिषु समं सदनन्तमाद्यं पूर्णे शिवं सदसतः परमेकसंस्थम् ।
यस्त्वद्वितीयमुदयास्तमयादिहीनं शश्वत्प्रशान्तमभयं तमजं पुराणम् ॥ १९॥
यस्येक्षयैवपरिजीवति जीवसङ्घो नश्यत्यसौऽनीक्षित एव तेन ।
जानन्नपि प्रभुवरं न भजत्यसौ त्वां हा हा हतः कथमहो तमसा विमूढः ॥ २०॥
त्वं विश्वमूर्तिमतः पितामहो नः पूज्यः स्वधाभिरनघः परिपूर्णकामः ।
आत्मात्मना रमयसेऽस्य विभूतिभाजस्तत्ते गुरो विलसनं सुहिताय पुंसाम् ॥ २१॥
अद्य प्रभो भवदनुग्रहतोऽतितृप्ताः सर्वे वयं पितृगणा न तथान्यतीर्थे ।
जानीमहे करुणया यदीक्षसे त्वं तत्पूर्णतां नयसि नूनममोघशक्ते ॥ २२॥
त्वन्नाममन्त्रमहिमार्थपराः प्रशान्ताः स्वात्मावबोधभरपूर्णमनोविलासः ।
कुर्वन्ति दृष्टिसुधयान्यजनान्विमुक्तान् त्वं तृप्तिमुन्नयसि नः किमहोऽत्रचित्रम् ॥ २३॥
अद्यप्रभृत्यवनताखिलकामन्दतत् त्वत्सन्निधौ स्थितामिहास्तु सुतृप्तये नः ।
यत्राभिमज्जनसुदानसुतर्पणाद्यैस्तृप्तिर्भपितृषु कल्पशतायुतैर्वै ॥ २४॥
यज्ञाय सर्वमतयेऽखिलदेवमन्त्रविप्राग्निसंस्थितहविः फलशुद्धिधाम्ने ।
योगावबोधवपुषे गुणकामसीम्ने सर्वात्मनाखिलदृशे बृहते नमस्ते ॥ २५॥
श्रीभगवानुवाच ।
अस्तुवः पितृ तृप्त्यर्थमेतद्गोतीर्थमुत्तमम् ।
एतत्संसेवनानृणां न कामानामातिग्रहः ॥ २६॥
यदहं पयसां पूरैः प्लावितोऽत्र हि मूर्धनि ।
सेवनात्तस्य तीर्थस्य दारिहरं नोपजायते ॥ २७॥
इयं भूः कामधुग्देवी कल्पवृक्षा महीरुहाः ।
चिन्तामणिगणाः सर्वे दृषदो मत्परिग्रहात् ॥ २८॥
एवं महाभिषेकेऽस्मिन्नभिषिक्तोऽस्मदादिभिः ।
नीराजितो देवताभिः संस्तुतो मुनिसत्तमैः ॥ २९॥
प्रार्थितोऽथ प्रसन्नात्मा प्रणतानन्दवारिधिः ।
देवेशः स्थीयन्ता प्रीत्या सर्वेषां हितसिद्धये ॥ ३०॥
तथेतिताननुश्रुत्य लक्ष्मीमालिङ्ग्य लीलया ।
सर्वरूपोऽनन्तशक्तिस्तत्रादृश्योऽभवत्क्षणात् ॥ ३१॥
इतस्ततः प्रगृणतां सर्वेषां नः कृपानिधिः ।
नभोरूपोऽवदद्देवो मुनयोऽहं वसामि वै ॥ ३२॥
इदमेव महद्रूपं व्योम मे सर्वकारणम् ।
जपतां ध्यायतां नृणां कैवल्याद्यखिलार्थदमं ॥ ३३॥
मन्त्रराजेन नाम्ना मां येऽत्र नित्यं स्तुवन्त्यहो ।
तेषां न चित्ततो दूरे भवामि व्कापि सर्वगः ॥ ३४॥
अहमदृश्यरूपेण स्थितः सर्वान्तरात्मनि ।
पूजितो भावितः प्रेम्णा ददाम्यात्मानमप्यजः ॥ ३५॥
यथा या सङ्कती मूर्तिः प्रल्हादार्भप्रतिष्ठिता ।
तथा ददामि सत्कामान्कैवल्यमति वाञ्छितम् ॥ ३६॥
भवन्तः शक्तिभिः स्वाभिरत्र तिष्ठन्तु सर्वदा ।
रक्षणायास्य परितः क्षेत्रराजस्य सत्तमाः ॥ ३७॥
इत्त्युक्तवन्तं मुनिवराः प्रणम्य व्योमरूपिणम् ।
शक्तीः स्वाः स्वाः प्रतिष्ठाप्य गताः स्वं स्वं पदं मुदा ॥ ३८॥
इति तेऽभिहितो देवि गोतीर्थप्रभवो मुदा ।
सङ्क्षेपाद् विस्तरं वक्तुं न क्षमोऽहं कुतोऽपरे ॥ ३९॥
गोतीर्थप्रभवं त्वेतं ये पठन्ति द्वजोत्तमाः ।
नयन्त्याकल्पिकीं तृप्ति पितृन् मम स्वरैः ॥ ४०॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
गोतीर्थप्रभवो नाम नवमोऽध्यायः ।
दशमोऽध्यायः
श्रीशिव उवाच ।
गोतीर्थात्पूर्वतोदेवि भानुतीर्थमनुत्तमम् ।
तपस्तप्त्वा रविर्यत्र प्राप्तवान् ज्ञानमुत्तमम् ॥ १॥।
तत्तीर्थमज्जनकृतां रवौ सूर्यग्रहक्रमे ।
ग्रहाः प्रशममायान्ति न विशत्यज्ञानजन्तमः ॥ २॥
सूर्य आत्मास्य जगतः प्रिये स्थित्वा महाप्रभः ।
आत्मावबोधसम्पन्नो नित्यं यत्र प्रकाशते ॥ ३॥
सर्वकामिकमेतद्धि तीर्थं सर्ववरप्रदम् ।
भवव्याधिहरं नृणां सेवनात्स्नानतर्पणात् ॥ ४॥
तस्याग्रे चक्रतीर्थहि प्रह्लादस्यावनाय यत् ।
हरिणा प्रेषितं चक्रं यत्रोदितमनुत्तमम् ॥ ५॥
चक्रतीर्थैकभक्तानां न भयं कालचक्रजम् ।
संसारचक्रव्यावृत्तिर्नच कल्पेत पार्वति ॥ ६॥
चक्रावतारो नृहरिः सदा रक्षति वै जगत् ।
भजतां कामदोऽत्यर्थं यथा कल्पद्रुमो नृणाम् ॥ ७॥
नन्दकाख्यं च तीर्थं वै सर्वानन्दमनुत्तमम् ।
तदग्रे पाशतीर्थं वै भवपाशनिकृन्तनम् ॥ ८॥
तदग्रे लाङ्गलं तीर्थं कषर्णं कामसम्पदा ।
तदग्रे मौसलं नाम दुःखपर्वतमर्दनम् ॥ ९॥
एतानि भीममग्नानि तीर्थानि परमाणि वै ।
प्रत्येकं धनुषां पञ्चविंशत्या गणितं प्रिये ॥ १०॥
अन्यानि बहुशस्तीर्थान्यादृतानि सुरेश्वरैः ।
पुराणेषु प्रपठ्यन्ते सर्वेषु प्राणवल्लभे ॥ ११॥
सर्वेयं तीर्थरूपाभूः सर्वदेवमयोहरिः ।
सर्वागमरसा भीमा नीरा सर्वफलौधिनी ॥ १२॥
स्नातव्यं सङ्गमे नित्यं तर्पणीया द्विजेश्वराः ।
पूजनीय नरहरिः प्राप्तव्यं परमं पदम् ॥ १३॥
अत्र तीर्थानि सर्वाणि मन्त्रा ण्यत्र प्रतिष्ठिताः ।
देवता नृहरिर्यत्र किमन्यदवशिष्यते ॥ १४॥
स्नानं दानं तर्पणं च पुमान्यत्र करोति यः ।
सर्वतीर्थोद्भवं पुण्यं प्राप्नुयात् स पदे पदे ॥ १५॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
भीमामग्मतीर्थवर्णनं नाम दशमोऽध्यायः ।
एकादशोऽध्यायः
देव्युवाच ।
विचित्रमिदमाख्यानं तीर्थानां भगवन्मुखात् ।
श्रुतं पापहरं पुण्यं सर्वेषां मोक्षसिद्धिदम् ॥ १॥
इदानीं कथय स्वामिन्यात्रानिर्णयमुत्तमम् ।
यं विज्ञाय नरो याति क्षेत्रं पुण्यफलं वरम् ॥ २॥
श्रीशिव उवाच ।
यात्रां सांवत्सरीं देवि मासां नित्यां तथा शृणु ।
नृहरेः प्रीयते या हि कृताः पूर्वमहर्षिभिः ॥ ३॥
जयन्त्यां माधवे शुक्ले भूते पाते च स्वातिभे ।
यात्रा सांवत्सरी कार्या वार्षिकी सिद्धिमिच्छता ॥ ४॥
तस्यां स्नानजपध्यानपूजाहवनतर्पणैः ।
कोटियागफलं स्फीतं भुक्त्वा यान्ति हरेः पदम् ॥ ५॥
रामस्य कृष्णस्य जयन्त्यां वा सर्वासु शिवरात्रिषु ।
यात्रा कार्या जयन्तीवत्तत्रोपोषणतत्परैः ॥ ६॥
यदा दैत्यो हतः सायं हरिणा सिंहरूपिणा ।
तस्मिन् कालेऽनिशं देवो दृष्टो हन्ति जनुःशतम् ॥ ७॥
पर्वपर्वसु गोतीर्थे स्नानं पूजाहरेः परा ।
सङ्क्रातिग्रहणर्केषु भानुतीर्थे तथैव च ॥ ८॥
सोमश्रवणयोगे तु प्रह्लादस्य हरिः स्वयम् ।
दर्शयामास सुरूपं तत्र यात्राहि मासिकी ॥ ९॥
सायं प्रातर्मध्याह्ने वै यात्रा दैनन्दिनी मता ।
सर्वकल्याणजननी सर्वाघौघविनाशिनी ॥ १०॥
जयन्त्यः शिवरात्रीश्च तथा हरिदिनानि वै ।
सदोपोष्याणि सुधिया जन्मसाफल्यमिच्छता ॥ ११॥
एतासु सर्व पापानि तिष्ठत्यन्नाश्रयेण वै ।
तस्मात्सर्वात्मना धीमानेतासूपवसेत् सदा ॥ १२॥
नवमी चैत्रशुक्लस्य श्रावणस्यासिताष्टमी ।
श्रवणद्वादशी भाद्रे राधे शुक्लचतुर्दशी ॥ १३॥
अनुराधोत्तरापुष्यरोहिणीश्रवणैर्युता ।
एकादशी द्वादशी वा मघायुक्ता चतुर्दशी ॥ १४॥
एतासु पुरुषो धीमान् नाश्नीयात् किमपि प्रिये ।
अन्नमश्न् प्रमादेन याति घोरांस्तु नारकान् ॥ १५॥
पूजाहोमस्तुतिगतं जागरो ब्राह्मणार्चनम् ।
उपवासः पारणान्ते विधिः साधारणोऽहि ॥ १६॥
नित्यं पूजां हरेः पश्यंस्तीर्थाणां फलमाप्नुयात् ।
प्राप्नुया वै यज्ञफलं पश्यन्नीराजनं हरेः ॥ १७॥
नैवेद्यसमये देवं यः पश्यति विमूढधीः ।
सर्वापराधमलिनो दण्ड्योऽसौ यमकिङ्करैः ॥ १८॥
नैवेद्यान्ते तु नृहरिं सुप्रसन्नं विलोकयन् ।
तीर्थकोटिफलं लब्ध्वा धन्यजन्मा भवेन्नरः ॥ १९॥
अपराधकृतां पुंसां तीर्थे वासो न शक्यते ।
तीर्थे पापकृतां यस्मात्सुखं नास्ति युगेष्वपि ॥ २०॥
परापवादनिरता हिंस्रा ये दुष्प्रतिग्रहाः ।
दुराचारा नरास्तेषां तीर्थे वासो न चोत्तमः ॥ २१॥
तीर्थे प्रवेशमापन्नाः सर्वे निष्पापपञ्जराः ।
तीर्थे वासकृता मर्त्या अप्यमर्त्या मताः शिवे ॥ २२॥
तीर्थे पापकृतां घोरां विष्वक्सेनस्य यातनाः ।
पश्यतां तु नृहरिं भक्त्या यमदूता न गोचराः ॥ २३॥
नृसिंहनामविध्वस्तपापकञ्चुकनिर्मलाः ।
प्रयान्ति नृहरेर्लोकं योगिनामपि दुर्लभम् ॥ २४॥
@इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे
यात्रानिर्णयवर्णनं नाम एकादशोऽध्यायः ।
द्वादशोऽध्यायः
देव्युवाच ।
श्रुतोऽयं निर्णयो देव यात्रायाः परमोत्सवः ।
मङ्गलानां नरो यस्मिन् प्राप्यते लीलया पदम् ॥ १॥
इदानीं श्रोतुमिच्छामि हरेः पूजाविधिं परम् ।
येनासौ पूजितस्तुष्टो ददात्यात्मानमीश्वरः ॥ २॥
श्रीशिव उवाच ।
देविं पूजाविधेरस्यानन्तस्यान्तो न विद्यते ।
सर्वार्थैकभुजस्यास्य सर्वेप्रत्ययसाक्षिणः ॥ ३॥
तथापि हितकामायास्तव प्रेम्णा नृणां प्रिये ।
वदामि सूत्रतो देवि पूजाक्रममनुत्तमम् ॥ ४॥
त्रिविधो योग ईशस्य वैदिको मिश्रतान्त्रिकौ ।
अधिकारविभेदेन कथितो हरिणा मम ॥ ५॥
वेदप्रयोगतो वेद्यस्तान्त्रिकस्तन्त्रशासनात् ।
उभयानुष्ठितो मिश्र इति जानीहि तत्त्वतः ॥ ६॥
एतेष्वेकेन नृहरिं मन्त्रराजैर्यजन्नरः ।
प्राप्नोति निखिलां सिद्धिमभीष्टामात्मदेश्वरात् ॥ ७॥
प्रतिमायां जले वायौ वन्हौं हृदि तथा प्रिये ।
आकाशे स्वात्मनि प्रेम्णा यजेन्तृहरिं पुमान् ॥ ८॥
स्वात्मन्यात्मतयात्मानमाकाशे वियदात्मना ।
तत्तत्तोषेण लोकेषु सर्वान्तर्यामिनिष्ठया ॥ ९॥
हृदिभावार्पणैरग्नौ हविषा चेष्टयानिले ।
जले जलोपचारेण पूजयेन्नृहरिं मुदा ॥ १०॥
प्रतिमा सैकती लेप्या लेख्या दार्वी शिलामयी ।
मणिरूपा धातुमयी पार्थिवेतीयमष्टधा ॥ ११॥
एतास्वावाहनोद्वासा उक्तौ पूजाविधिं शृणु ।
लेख्यालेप्यापार्थिवासु सस्नानं मार्जनं प्रिये ॥ १२॥
न गन्धलेपो लेख्यायामन्यः साधारणो विधिः ।
एष जङ्गमरूपासु कथितस्तत्त्वतो विधिः ॥ १३॥
स्थावरासु न चार्चासु विसर्गावाहन प्रिये ।
पूर्वमेव प्रतिष्ठा हि जाता देवस्य पार्वति ॥ १४॥
चरास्वपि च शैलासु शालग्रामादिषु स्फुटम् ।
हरेर्मम गणेशस्य तव साध्यास्तथैव भोः ॥ १५॥
अत्रैव भक्तराजेन स्थावरामूर्तिस्थापनम् ।
कृतं पूजाविधानेन तन्मे निगदतः शृणु ॥ १६॥
प्रातः शौचं विधायादौ दन्तानाशोध्य मन्त्रवान् ।
स्नायान्मृदादिभिः सर्वैर्मत्रैर्वारुणवैष्णवैः ॥ १७॥
वाससी परिधायाथ कृतसन्ध्यादि स्क्रियः ।
समुखः स्वस्थ आसीत पूजाभारैः सुसम्भृतैः ॥ १८॥
प्रिये कृत्वा न्यासविधिं प्राणानायम्य वाग्यतः ।
शोधयेद् वायुतेजोभ्यां पिण्डं पीयूषजीवनम् ॥ १९॥
हृत्पद्मकर्णिकामध्यं हृदयाकाशबन्धुरम् ।
नादान्ते भावयेदीशं ज्योतिरूपमखण्डितम् ॥ २०॥
तेन संयुक्तहृदयो निर्मलो गगनोपमः ।
सर्वदेवाधिरूपां तां मूर्ति ध्यायेद् विशुद्धधीः ॥ २१॥
सूक्ष्मात्सूक्ष्मतरं देवं भावयन् परमात्मनम् ।
शनैरग्रस्थितां मूर्तिचर्ययेद् विधिपूर्वकम् ॥ २२॥
मूलेन मन्त्रराजेन व्यूहे षोडशशक्तिभिः ।
युक्तं यजेन्नृहरिं पीठार्चनविधानतः ॥ २३॥
महाचक्रक्रमेणास्य कुर्यादावरणानि वै ।
ब्रह्माविष्णुशिवादीनां मन्त्रराजात्मकानि च ॥ २४॥
प्रत्येकावरणे श्रीशं योगपीठस्थितं हरिम् ।
पूजयेत्पर या भक्त्या मोक्षसाधनलिप्सया ॥ २५॥
पाद्यार्थ्याचमनस्नानवस्त्रसूत्रविभूषणैः ।
गन्धमाल्यादिभिर्धूपैर्नैवेद्यैः षड्रसैः सह ॥ २६॥
फलताम्बूलभोगाद्यैर्गीतैः स्तोत्रैः सुमङ्गलैः ।
तौर्यत्रिकैः पुराणाख्याज्ञानादेशैरनेकशः ॥ २७।
छत्रचामरकैर्यानैर्व्यजनैर्दर्पणादिभिः ।
नानोपहारबलिभिः सामनीराजनादिभिः ॥ २८॥
अन्यैर्महोपचारैश्च नानाविभवविस्तरैः ।
प्रदक्षिणाभिर्नतिभिश्चार्थयित्वा क्षमां गुरुम् ॥ २९॥
पुष्पाञ्जलि समयते शेषं देवाज्ञया मुदा ।
द्विजातिभ्यो विभज्याथ गृहणीयान्मोक्षसिद्धये ॥ ३०॥
देवानग्नि विप्रांश्च पूजयेद्यः समाहितम् ।
सर्वान्कामानवाप्नोति कैवल्यमपि वै पुमान् ॥ ३१॥
देवाग्रे पुष्पवाटी यो कुरुते भक्तितो नरः ।
यावत्पुष्पदलाग्राणि तावत्कल्पं स नाकभाक् ॥ ३२॥
देवपूजासु निर्वाहवृत्तिं यः कल्पयेत् सुधीः ।
दिने दिनेऽश्वमेधस्य फलं तस्य न संशयः ॥ ३३॥
जीर्णोद्धारेण सर्वेष्टं प्राप्य भोगान् प्रतिष्ठया ।
अर्चयाप्नोति वैकुण्ठ त्रयेणाप्नोति सद्गतिम् ॥ ३४॥
यस्तु वै द्विजवर्याणां वृत्तिं नाशयते कुधीः ।
यावल्लोमानि देहेऽस्य तावत्कल्पं स नारके ॥ ३५॥
इति ते सर्वमाख्यातं गुह्यं यन्मोक्षसाधनम् ।
नृहरेः पुरमाहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ ३६॥
देव्युवाच ।
स्वामिन्महोत्तमं क्षेत्रं नृहरेः पदभूषितम् ।
एतन्माहात्म्यमाकर्ण्य धीर्में पुष्टिं परां गता ॥ ३७॥
अत्र स्थेयं भगवता मयासह हितेच्छया ।
जनानां पुण्यकामानां मार्गं दर्शयता गुरो ॥ ३८॥
श्रीशिव उवाच ।
शिवे जानीहि नृहरौ त्रयो देवा वयं सदा ।
निवसामो जनानां हि हितार्थाय न संशयः ॥ ३९॥
अत्र मां वा विधिं विष्णुं भेददृष्ट्याभिमन्वते ।
तेषां कल्पशतेनापि न सिद्धिः पारमार्थिकी ॥ ४०॥
देहाकारो भवेद्ब्रह्मा नाममात्रो हरिः स्वयम् ।
पूजाभिमानी रुद्रो हि त्रयमात्मैव केवलम् ॥ ४१॥
एतन्मतं मे जानन्ति सनकाद्या महर्षयः ।
मरीच्याद्याश्च मनवो लोकपालाः खगेश्वरः ॥ ४२॥
गन्धर्वाप्सरसो नागाः प्रल्हादाद्यास्तथासुराः ।
किं देवाः किन्नरा यक्षा रक्षः किं पुरुषादयः ॥ ४३॥
सर्वे स्वलाभसन्तुष्टा अन्ते यास्यन्ति सद्गतिम् ।
मुक्ता वै बहवः सिद्धा एतेनैव मतेन मे ॥ ४४॥
य एतदवजानन्ति मूढा देहात्ममानिनः ।
न भवेन्मुक्तता तेषां त्रिषु कालेष्वपि प्रिये ॥ ४५॥
अथापि रूपवानग्रे देवस्य पार्श्वयोः ।
त्वया तिष्ठामि मध्ये च सर्वेषां सुखहेतवे ॥ ४६॥
एतत्पुण्यतमाख्यानं प्रयतः श्रुणुयात्पठेत् ।
सर्वान् भोगवरान् भुक्त्वा प्रान्ते नृहरिमाप्नुयात् ॥ ४७॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
सर्वपूजासु यत्प्रोक्तं प्राप्नुयादस्य कीर्तनात् ॥ ४८॥
सूत उवाच ।
एवमुक्त्वा शिवो गौरीं प्रेम्णालिङ्ग्य मुदायुताम् ।
उदरे नृहरेर्मूर्तेः प्रविवेश दयोदधेः ॥ ४९॥
एवं भोः कथितं गुह्यमितिहासेन सत्तमाः ।
नृणां निःश्रेयसार्थाय सर्वकामौघसिद्धये ॥ ५०॥
एतत्पुण्यतमाख्यानं व्यासेन परिकीर्तितम् ।
ज्ञानवैराग्ययुक्ताय पुत्राय शुकाय वै ॥ ५१॥
श्रुणुयात् कीर्तयेद् यो वा नृसिंहपुरवर्णनम् ।
दयार्णवस्य नृहरेः सायुज्यपदमर्हति ॥ ५२॥
व्यास उवाच ।
इति सूतात्समाकर्ण्य माहात्म्यं पुरसम्भवम् ।
प्रशंसन्तो मुदायुक्तास्तं प्रणम्य ययुर्गृहान् ॥ ५३॥
नृसिंहपुरमाहात्म्यं शृणोति पठतीह यः ।
किं तस्यान्येन पुण्येन मुक्तोऽसौ भवबन्धनात् ॥ ५४॥
किमत्र बहुनोक्तेन वर्तमानोऽपि सर्वदा ।
न लिपन्ति दुःखलेशेन स नरो नात्र संशय ॥ ५५॥
इति श्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वती
संवादे हरिपूजाविधिर्नाम द्वादशोऽध्यायः ।
ॐ तत्सत् ।
इति श्रीनृसिंहपुरतीर्थमहिमावर्णनं सम्पूर्णम् ।
Proofread by Manoj Kumar Barman