श्रीनृसिंहशतकम्

श्रीनृसिंहशतकम्

चण्डब्रह्माण्डभाण्डभ्रमणभरबृहद्धोषनिर्घातदैर्घ्यै- दुर्दैत्यव्याघ्रशीघ्रप्रमथनकथनं सर्वदिक्षु प्रकुर्वन् । कौटिल्यक्रूरदंष्ट्रोत्कटचटुलनटत्प्रह्वजिह्वामहोल्कः प्रह्लादाह्लादहेतुर्दहतु मम महद्रंहसांहो नृसिंहः ॥ १॥ नैष्ठुर्यौजस्विचण्डत्रिदशगिरिमहादण्डसन्ताड्यमान- ब्रह्माण्डातोद्यभाण्डोड्डमररवसुहृद्भावसम्भावनीयः । रुष्टेन्द्रद्वेष्टमुष्टिद्रुघणहतसभामण्डपस्तम्भगर्भा- दाविर्भूतो विभूत्यै भवतु नरहरेरादिघोषो विशेषात् ॥ २॥ देवद्वेष्ट्ट्प्रवेष्टोद्भटमदविटपिभ्रंशघोषाभिघोरो दैत्येन्द्रश्रीप्रकोष्ठोत्कटकटकघटाकूजकूटायमानः । निर्घोषो दुर्घटं द्राग्घटयतु विकटप्रेतराड्द्वाःकवाटो द्धाटाट्टध्वानकल्पः प्रकटकटकटाकाटवोत्पाटवोऽसौ ॥ ३॥ अंहःसङ्घातघातं घटयतु निनदो रंहसा नारसिंहः स्वर्गस्त्रीवर्गरङ्गस्थलपदकलनानन्दिनान्दीनिनादः । दैत्येन्द्रापत्यतत्युत्तममहिमभरोद्दामसौभाग्यभेरी- भाङ्कारो दिग्द्विदन्तश्रुतिचलनकलाध्यायसन्ध्याब्दशब्दः ॥ ४॥ ऊर्मि प्रेङ्खोलखेलामुखरजलनिधिध्वानगानातिपीनः क्रोधक्रूरस्य शक्रद्विषि हरिवपुषश्चक्रपाणेः प्रघोषः । कल्याणं लोकपाल्या विरचयतु हरित्कुञ्जरश्रोत्रपाल्या बाल्यप्राबल्यशाल्याशुगविकृतिहृतेः श्लाघितो दानपाल्या ॥ ५॥ संवर्ताम्भशुम्भज्जलदकुलगलस्तम्भिगम्भीरताभृ- न्मन्थाद्रिक्षुब्धदुग्धाब्धिजनिनदविधाजग्धिवैदग्ध्यदिग्धः । सम्भूयोज्जृम्भमाणे सुघटधनघृणो दीर्घनिर्घातवर्गे शीघ्रं निर्घोष एष स्फुरतु हृदि बृहद्धर्घराघोर ऐशः ॥ ६॥ मोहं सौवर्गवर्गे महति बहलयन द्राङ्महर्गेहभाजां निष्पीतश्रोतगीतो नु सनकजनकश्रोत्रबाधिर्यधुर्यः । दिक्कुम्भिस्तम्भकारी प्रतिनिनदसमुत्तालपातालतालु- श्चण्डो ब्रह्माण्डभेदी भवतु हरिरवः श्रेयसे भूयसे वः ॥ ७॥ ऊर्ध्वप्रोद्धृतधूमध्वज ऋजुज्वालमणिक्यदण्डं (विमलज्वालमणिक्यदण्डं) नीलपालम्बलीलप्रचलितरसनाराजिविभ्राजिबिम्बम् । दीव्यद्दर्वीकरोर्वीपतिविततफणाश्रेणिनिर्माणमन्तः निर्मायं भावयामः प्रभुशिरसि बृहत्तापमुक्तापहत्यै ॥ ८॥ क्षोणीभृत्पक्षपातादनुनृहरितनुक्षिप्यमाणैर्वितानैः बाणैर्वैमुख्यलक्ष्यैः श्वसितपवनतः क्षुण्णतत्कण्ठलक्षम् । उद्वर्णैर्मण्डलाग्रैरपि चरमचरे खण्डनायारिषण्डे लाङ्गूलोच्चण्डदण्डं दधदवतु विपन्मण्डलात्कुण्डलीन्द्रः ॥ ९॥ उद्दण्डैर्ज्वालषण्डैर्ज्वलदनलदृशोऽजाण्डदण्डोर्ध्वखण्ड- स्फोटो भावीति भीत्या प्रथितपृथुफणश्रेणिविस्तारितश्रीः । उर्वीवाहो विनेकार्बुदकुलकलनामौलिनिष्ठप्रतिष्ठः शीघ्रं नो दीर्घपृष्ठप्रभुरभयभृतो भूषणं भावनीयः ॥ १०॥ अग्रप्रोदप्रजाग्रन्मणिगणकिरणैस्तारकोन्मेषचोरं नीचैरुच्चैरुदञ्चद्विततपृथुफणश्रेणिशाखासहस्रम् । लग्नैरग्निस्फुलिङ्गैः स्फुटरुचि निटिलाक्ष्णोऽप्यभीक्ष्णं तथाधः क्रष्टा कष्टानि दृष्टं फणिपतिमुकुटं कूटसिंहोपरिष्टात् ॥ ११॥ सोमस्पर्शात्प्रकर्षं प्रवहति दधती यक्षिणीचित्रलक्ष्मीं यत्राभाते यदन्तर्विलसति सततं गुह्यकेशप्रसारः । गङ्गाम्भश्शुभ्रमभ्रङ्कषशिवशिखरभ्राजितं राजताद्रेः देवस्योपर्यहीनोर्जितफणपटलं पाटयेत् सङ्कटं नः ॥ १२॥ पायादाकाशकाशोज्ज्वलकुसुमसज्योतिरुज्जृभिताग्रा प्रत्यग्रप्राग्रथमुक्ताफलखचितशिखस्वर्णसूचीसखीना । क्षुद्रच्छिद्रालिमुद्राविधुपरिधिवलच्चालिनीशालिनीतिः लीलापारीन्द्रमूर्तेरतिपरुएरुषो भासुरा केसराली ॥ १३॥ वैकुण्ठोत्कण्ठितानामणिमगुणजुषां प्राणिनां प्रीतिभाजां गात्रादुत्क्रान्तमात्रे सुखमयनिलयप्रापणायापयत्नम् । ब्रह्माण्डस्योर्ध्वखण्डेऽरचिषत सृतयो निःसृतैर्यैर्विदार्य- च्छौर्यं हर्यक्षमू र्तेर्निदधतु हृदि ते केसरा भासुरा नः ॥ १४॥ हृत्कुण्डान्तःप्रचण्डप्रतिघहुतवहश्रीशिरोरोमकूप- स्तूपद्वारोद्यदंशुस्तबक इति जने बिभ्रति भ्रान्तिमुच्चैः । विद्युज्ज्वालावलीजप्रतिभयरसनाच्छिन्नचाञ्चल्यसम्प- ल्लुम्पेत् प्रत्यूहमत्यूर्जितमिह नृहरेर्भासुरा केसरालिः ॥ १५॥ यैरासीद्यैत्यहत्याहृषितहृदमरश्रेणिपूजावितीर्ण- प्रोन्मीलन्मल्लिपुष्पस्तबकितशिखरस्वर्णदूर्वासवर्णैः । विद्युल्लेखासदृक्षैर्नरहरशिरसि स्थूलनक्षत्रलक्षै - र्लक्ष्मीरक्ष्मीलभावं विदधतु वृजिनोज्जासने केसरास्ते ॥ १६॥ स्वीयश्रीलेशचौरीश्चिरमचिररुचः स्वोदरोदारदर्यां पर्याप्तीकृत्य गोप्तुं नभसि घनघटां कोटिकुन्तच्छटाभिः । निर्यत्कीलालकुल्यं किल परुषरुषा पाटयन्तीव चेतो दैत्योरःपाटनाटीकपटहरिसटाधाटिकाटीकतां नः ॥ १७॥ सप्तार्चिर्मित्रसूत्रत्रुटनसुरसृतिस्रस्तनक्षत्रमाला मल्लीजालाभिसृष्टिद्विगुणितसुमनस्सृष्टिसन्तानवृष्टिः । सन्ध्यासम्बध्धशोणम्बुदपटलपटीपाटनक्षेपलक्ष्मी- रज्यत्काष्ठावधूटीकपटहरिसटास्फाटिकाधूतिरव्यात् ॥ १८॥ स्तब्धाकल्पाब्ध्यनल्पोच्चलदुरुलहरीघोषकल्पादसीय- ध्वानादव्यक्तभक्तस्तुतिपदसदयग्राहिका साग्रहेव । रीत्या साजात्यभाजामतिपरुषरुषामिन्द्रियाणां चतुर्णां सङ्कोचं लज्जयेवोर्जितमतिदधती पातु कर्णद्वयी नः ॥ १९॥ द्रष्टणां दृष्टिसृष्टेरुपरिकृतभयाविष्टतावृष्टिरुष्टे न्द्रद्वेष्ट्ट्क्लिष्टजुष्टस्मरणनिजजनानिष्टमुष्टिन्धयं तत् । लीलाशैलाटमूर्तेरतिपरुषरुषोद्धाटयत्पाटलश्री- घाटं विष्णोर्ललाटस्थलमतिविकटं पाटयेत् सङ्कटं नः ॥ २०॥ नृत्यत्कृल्यावलीव प्रलयसमुदयत्कालरात्रीव खेल- च्चामुण्डामण्डलीवाट्टहसितविकटोत्तालिवेतालिकेव । उद्रिङ्गद्रौद्रलक्ष्मीरिव किमुत बृहद्भैरवोद्भासिगर्भा । भ्रश्यत्स्वर्भानुवर्गा ध्रुवमवतु विभोर्भीषणा भालभित्तिः ॥ २१॥ उद्यन्निर्धूमधूमध्वजमयनयनाङ्गारधान्याश्रितासौ तत्तिर्यङ्निर्यदर्चिर्निचयपरिचयेनेव रक्तावसिक्ता । साचिव्यक्तत्रिरेखीवलिविलयवती सूतकालाग्निरुद्रे- वेदानीमेव देवप्रवर तव हरे पातु भालस्थली नः ॥ २२॥ नृत्यन्ती कालरात्रीकरतलविचलत्साचिशूलानुकूला मुद्रा विद्राविरौद्रान्बुनिधिनाधिवलल्लोलकल्लोललीलाम् । बिभ्रत्येतन्मुखान्तःसमुपगतमहाकोपसोपानपालि- र्गोपायेन्नस्त्रिरेखी निटिलसहचरी चित्रपारीन्द्रमूर्तेः ॥ २३॥ गाङ्गेयाभिख्यया यज्जगति यदुदितं शान्तनुस्फारमोदे पार्थोनायोधनश्रीरपि यदधिपये चोर्ध्वतेजःप्रसिद्धिः । यस्यास्ते कृष्णवर्त्मानुसृतिपरमहो भालतारातिदाहि भ्रूवल्लीमध्यनेत्रं नरहरिवपुषो नौमि भीष्मस्वरूपम् ॥ २४॥ रुक्षाभिखयां विवस्वद्रथचरणरयक्षुण्णरूक्षेऽन्तरिक्षे स्फारं स्फारं स्फुरद्भिर्विदधति बहलैरुत्पतद्भिः स्फुलिङ्गैः । रूक्षश्रेणीसदृक्षे क्षिपति दिशि दिशि ध्वान्तजाले शिखोल्का- माला लालाटनेत्रे विहरतु नहरेस्तत्र चित्रे मर्तिनः ॥ २५॥ हृष्टान् वृष्टप्रसूनान्नभसि दिविषदो नूत्नरत्नप्रसूनैः स्फूर्जत्फुल्लरफुलिङ्गैः सुहृदि हिमहिमैर्ज्वालहस्तैरुदस्तैः । शीघ्रं प्रत्यर्घदिर्घीकरणबहुगुणे मज्जयल्लज्जिब्धौ नेत्रं सद्वीतिहोत्रं दहतु नरहरे रंहसांह स्तृणानि ॥ २६॥ वेल्लजिह्वोल्बणेन प्रचलितबहलज्वालजिह्वासहस्रं स्फारस्फूर्जत्स्फुलिङ्गस्फुटमणिपटलं प्रांशुरत्नांशुभासा । सार्धं मोर्ध्वर्ध्वासिन्धुस्थलवसतिजुषा भोगिमूर्धाभिषिक्ते- नाबद्धस्पर्धमद्धावतु हरिनयनं भालभद्रासनेद्धम् ॥ २७॥ लोके वारप्रवृत्तिः समुदयति यतः सन्नराजीवचित्ते बिभ्राणश्चक्रबन्धूकरणकुतुकितां यो निशाशेषभातः । नित्यं धत्ते सदृक्षोदयमनुविनतानन्दनोल्लासधारी सश्रीपारीन्द्रमूर्तेरपहरतु तमो भालहग्बालहेलिः ॥ २८॥ चूडापातालपालोल्बणमणिकिरणाकर्षणोदञ्चितैत- स्फूर्जत्फूङ्कारसङ्कोचितविततशिखापाणिरभ्यासभाग्भ्याम् । सार्धं दृग्भ्यां सखीभ्यामिव कुतुकवशादंशुपांसुप्रपञ्चै- रञ्चन्त्वन्योन्यखेलां जयति नरहरेर्भालदग्बालिकेयम् ॥ २९॥ खद्योतद्योतलेशो दिन इव न दरं द्योतते वैधुतोऽग्निः- यस्याग्रे नोग्रभावाग्रहमपि वहते स ग्रहग्रामणीश्च । और्वो दुर्वारदुर्वासित इव विगलद्गर्वमम्भोधिगर्भे लीनो यद्धेतिहीनो विहरतु नृहरेस्तत्र नेत्रे मतिर्नः ॥ ३०॥ यन्मित्रो वीतिहोत्रोऽप्यतिशयदहनाध्यायमध्यापितौ तौ- शक्तौ सम्यग्ग्रहीतुं न किमपि निबिडोत्ताडितावंशुवेत्रः । एको रक्तावसेकादरुण इति गतः ख्यातिमन्योऽपि धाम्ना दुःखाद्येवस्य तेजो गुरुनिटिलतटीलोचनं मोहयेन्नः ॥ ३१॥ लक्ष्मीवक्षोजकुम्भस्थलकृतललितालीकबाह्लीकलेपः प्रह्वप्रह्लादमौलावतुलवलयिनी शोणशाटी यदर्चिः । रूक्षेन्द्रद्वेष्ट्ट्सृष्टेरुपरि निपतिता पावकास्त्रस्य वृष्टि- र्द्यष्टिर्लालाटिकी नः कपटहरितनोः पाटयेत् सङ्कटं सा ॥ ३२॥ मञ्जिष्ठामञ्जुचेलव्यजनमिव वलत्तन्तुजालं समन्तात् आस्यान्तर्लास्यवत्याः श्रमशमनकरं रोषलक्ष्मीयुवत्याः । घोणादण्डोपरिष्टात् प्रकटितमरुणं श्लिष्टशोणांशुवेष्टं वृत्तं हन्ता नु दन्तावलदलनतनोरक्षि सन्तापमन्तः ॥ ३३॥ उद्वेल्लज्ज्वालवल्लीच्छलमृदुलचलच्छोणचेलाञ्चलश्री- स्फारैः फुल्लैः स्फुलिङ्गैः खलु खचितशिखामन्दमन्दारवृन्दैः । स्वध्यातृणां नृणां साभयवरकरता कीर्तिता सिंहमूर्तेः बन्धुकच्छायबन्धुच्छविरवतु विभोर्भैरवी भालदृष्टिः ॥ ३४॥ माद्यद् दुर्दानवोद्यन्मददलनफलं भक्तभूयोविपत्ति- प्रत्यादेशं फलं चाकलयितुमसुरश्रेष्ठनिष्ठा फलं च । कोपश्रीपाटलायाः कपटनृहरिहृद्भ्राजभानोद्भवायाः पुल्लत्फुल्लत्रयीवोल्लसतु मदशुभस्यापनेत्री त्रिनेत्री ॥ ३५॥ मायागन्धं निरुन्धन् भुवि पदकमलाभोगसम्पादहेतुः संवादी तापदाने परमहिमकरेणात्तकारुण्यसम्पत् । यत्पातः शत्रुजाते सुहृदि च सदृशो दिव्यपारीन्द्रमूर्ते- र्जैत्री सा नस्त्रिनेत्री भवभयविभवस्यापनेत्री भवित्री ॥ ३६॥ ज्वालावल्ली विशाला स्फुरति नरहरेर्भालनेत्रालवाले तामेवोच्चैः स्फुलिङ्गस्फुटकुसुमघटां कोटि देशे दधाना । अद्धा यद्धेतुकोच्चावचफलपटलप्रायतामायतालं संवर्तोद्वृत्तवाह्निद्युमणिगणबृहद्भानुदम्भोलिवर्गः ॥ ३७॥ सार्धं योद्धुं समृद्धैर्नभसि भपतिना दुर्जयैर्ध्वान्तयोधैः धृष्णिश्रेणीभटानामहमहमिकया सत्वरोदित्वराणाम् । वाहासङ्घट्टपिष्टाङ्गदमणिपटलीप्रांशुपिष्टातवृष्टाः कष्टानां सन्तु नष्टयै नरहरिवपुषो फालदृष्टेः स्फुलिङ्गाः ॥ ३८॥ भक्तप्राणिप्रहाणिप्रचलदसिलतापाणिदुर्दैत्यहत्या- तिक्रूरक्रोधयोधप्रचलनखचितश्मश्रुलेखासखी नः । रौद्रश्रीकाद्रवेयीद्रुतललनवलज्जिह्विका प्रोज्जिहाना- सा नागद्वेषिमूर्तेर्विहरतु हृदये वेल्लिता चिल्लिवल्ली ॥ ३९॥ लास्येनोल्लास्यमाना निरवधिविगलद्योधगोधिप्रतोली- यावत्क्रोधावकीर्णाञ्चलचपलचलच्चामरोड्डामरश्रीः । घोणादण्डाग्रजाग्रज्जयपरिचयकृद्वैजयन्ती जयन्ती रौद्रस्य द्रागभद्रं विघटयभु हठाद्भ्रूद्वयी नृद्विपारेः ॥ ४०॥ दुर्दान्तध्वान्तभेकप्रतिभयसरयश्वासफूत्कार घोरा प्रेङ्खोलश्मश्रुलेखाच्छलचलरसनाद्वन्द्वविभ्राजमाना । वेष्टुं वा लम्बमानाननबिलनिलयं भालभित्तेरधस्तात् । स्याद्धोणादीर्घपृष्ठी मदघविघटिनीकूटशैलाटमूर्तेः ॥ ४१॥ सूर्यादिज्योतिरुर्जस्वलकरपटलीमोटनालम्पटोऽसौ- दैत्येन्द्रोद्दामधामद्युमणिघृणिघटालङ्घनेनाभिघाती । लोकालोकाद्रिरीत्युत्प्रतिघ इव तदुत्तुङ्गश‍ृङ्गत्वभङ्गे जङ्घालो जङ्घनीतुच्छलहरिपरुषश्वासवातोऽघसङ्घान् ॥ ४२॥ क्रूरक्रोधाग्निकीलक्कथित इव पृथुश्वासभूमा नृसिंह- स्योग्राणामग्रगाणामनुतनुघटितरफारविस्फोटकोटिः । वार्धिनामैक्यमृद्धं घटयितुमिव जङ्घालजङ्घालताभ्रू (जङ्घालझम्झासमीरो) द्रागंहःसङ्घनीतिर्मतं सकलशुभोल्लङ्घनी जङ्घनीतु ॥ ४३॥ (नीतिर्मम, शुभोल्लङ्घने) द्वीपान्तर्द्योतमानक्षितिधरनिकरक्षुद्रतामुद्रितौजा लोकालोकाद्रिमूर्धाञ्चलचलनधनश्लाघनीयापदानः । द्राग्मित्त्याघातजातप्रतिघुरितरयभ्रान्तगाङ्गेयरेणु- भ्राजद्ब्रह्माण्डभाण्डः स्फुरतु हृदि हरेः श्वासरूपी नभस्वान् ॥ ४४॥ घोणाश्वभ्रोरुगर्भादतिपरुषखरश्वासधारानिरस्ता- कालव्यालद्वयीवोद्यतफणयुगलीश्रोत्रगर्भप्रदेशे नेत्रायुर्वायुयायिन्यसुरपरिषदः स्थूलतालालितान्ता (नेत्रायुर्वायुपायिन्य) स्मेरा श्मश्रुद्वयी नो द्विपदलनतनोस्तुङ्गभासङ्गताव्यात् ॥ ४५॥ कौटिल्येनैव ल्खल्वाचरितपरिचिता वक्रताशुभ्रताभ्यां न्यस्यन्ती क्षीरकण्ठद्विजनपतिघटाकण्ठपीठे प्रकोष्ठम् । ताभ्यां तिग्मत्वयुग्भ्यां नगरवरवधूनेत्रकोणान्तमैत्री दंष्ट्रधाटी स्फुटा नः कपटहरितनोः पाटयेत् पापकूटम् ॥ ४६॥ आविर्भूयास्यगर्भाद्रवमसुरवधूगर्भविभ्रंशभीमं जिह्वां चालोक्य दैत्यक्षतजरसझरीग्रासलोलामिवोग्राम् । कूरास्थिग्रन्थिकोटीविघटनकटुतोद्धाटिनीवातिघोरा पायाच्छैलाटचेष्टानुकृतिकृतिभृतो दन्तधाटी प्रभोर्नः ॥ ४७॥ प्रह्लादोद्रिक्तनिद्रप्रमदकुमुदिनीजागरारागराजो रुष्टेन्द्रद्वेष्ट्ट्द्य्ष्टिस्फुटपुटकघटादर्शिताक्षुद्रनिद्राः । विध्वस्तातिप्रशस्तामरनिवहमहासाध्वसध्वान्तधाराः लीलाशैलाटमूर्तेर्दशनशशिकलाश्रेणयः प्रीणयन्तु ॥ ४८॥ दैत्योरःपीठपाटप्रकटविकटरुट्कक्खटोघृष्टदंष्ट्रा सङ्घट्टस्पष्टदृष्टज्वलनकणगणश्रेणयोऽनिष्टनष्टौ । जायन्तां जागरूका विदलितदनुजव्यूहवाहोर्जितेजः पूगप्रोद्गीर्णचूर्णप्रचयसमरुचो रंहसा सिंहमूर्तेः ॥ ४९॥ निर्यल्लालाटदृष्टिज्वलनघृणिघटाप्लुष्टदुष्टौघवंश- स्थूलास्थिग्रन्थिकूटस्फुटनचटचटाट्टारवस्फारशङ्काम् । कुर्वन् गीर्वाणवर्गेऽद्भुतकलननभोभाजि निश्शेषयेन्नो दोषान् रोषप्रपोषो मिषहरिवपुषो दन्तसङ्घट्टघोषः ॥ ५०॥ मन्दारोदारसिन्दूरकशिशुबिसिनीबन्धुबन्धूकसन्ध्या- निर्यन्निर्यासकार्याकृतिरिव कलितारुण्यतारुण्यसम्पत् । सप्तार्चिस्तप्तखड्गप्रतिनिधिरधिकोल्लासिलौल्योल्बणश्री- रास्तां नस्तापभाजां नरहरिरसनावासनाशासनाय ॥ ५१॥ सौक्षम्येणाग्नेर्निदाने वदन इह सतः क्रोधदोधूयमान- प्राणद्राघिष्ठभस्त्राजवनपवनतो दीप्तिशीलेव कीला । क्रोधान्धानां नखानामसुरवरहृदो दर्शनायेव सम्यक्- प्रह्वा जिह्वा मदंहः प्रदहतु महिमोन्नाहभृन्नारसिंही ॥ ५२॥ निष्क्रान्तेवानयन्ताद्गलरववलतः साध्वसध्वस्तधैर्यात् (निष्क्रान्तेवानयनाद्गलरववलतः) प्रोन्मीलत्कम्पसम्पद्भयमयचरितोद्भावनप्रेक्षयेव । दंष्ट्राभिः स्पष्टरोचिःपटलकरघटाघट्टनीभिः प्रद्यष्टा- श्वासेव स्वान्तदेशे नरहरिरसना वासनाशासनी स्यात् ॥ ५३॥ दैतेयोद्दामधामद्रुमदहनधृताटोपनोपाग्निकीला प्रह्लादोद्रिक्तभक्तिच्छलनिलयचलच्छोणकेतुच्छीवर्नः । स्याज्जिह्वा नारसिंही विबुधपतिशुभा दृष्टवासन्तवार्ता- श्लिष्टश्रीवल्लिहृष्टप्रथमकिसलयश्रीरनिष्टप्रणष्टयै ॥ ५४॥ चञ्चत्पञ्चप्रकारे मुख इह भवितुं साम्प्रतं पञ्च जिह्वाः व्यक्तैकाग्रे महोग्रा पुनरपि भवितारश्चतस्रोऽधिपार्श्वम् । इत्यालोच्येव सीमाजिवटविषुतया कर्णजाहां जिहाने स्मर्तव्ये सिंहमूर्तेर्भुशमपशरणैः सृक्कणी चक्रपाणेः ॥ ५५॥ प्रेङ्खन्निःश्वासलेखं प्रकटकटकटस्फोटविस्पष्टदंष्ट्रं श्मश्रुस्मेरत्वभीष्मं कुटिलमविकटभ्रूकुटीभ्राजमानम् । क्रोधक्रूक्षिचक्रं सरभसरसनाभीमतं श्रीमतङ्ग- (सरभसरसनाभीषणं) द्वेष्टुर्द्राग्द्वेष्टु वक्त्रं मम विषमदशास्रष्टुरिष्टं गरिष्ठम् ॥ ५६॥ दंष्ट्रासङ्घट्टघोरज्वलदनलकणश्रेणिकर्णप्रसूने प्रोद्यन्निर्घोषवाद्ये प्रचलितबहलज्वालजिह्वामहोल्के । रौद्रश्रीलास्यरङ्गे प्रकटविकटरुट्सूत्रधारप्रचारे सद्यो विद्योतमानद्विपदलनतनोरानने नो रतिः स्यात् ॥ ५७॥ वह्निप्राचीरदीप्रप्रस्रुमरपरितःकेसरे स्पष्टदंष्ट्रा कुड्यासंश्लिष्टयष्टिप्रचयपरिचिते भ्रूलतातोरणाढ्ये । जाग्रत्प्रग्रीवमित्रप्रतिभयनयने प्रह्वाजिह्वालतोद्य- त्सोपाने रौद्रलक्ष्मीगृह इव नृहरेरानने माननास्ताम् ॥ ५८॥ निस्त्रिंशस्रंसनं प्राक्सृजति करतलाज्जिह्वया नारसिंहे दंष्ट्राभिः कृत्तशस्त्रीपटलविघटने भ्रूलताविभ्रमेण । कोदण्डभ्रंशचण्डे शितविशिखहरे श्रीकटाक्षच्छटाभिः दृष्टानां दृष्टिमात्रात् प्रतिकृतिकृतिनि प्रीतिरास्तां मुखे नः ॥ ५९॥ उद्यज्जिह्वामहोल्के मुखरिमखरनिर्घोषनिर्घातघोरे भ्रूवल्लीश्मश्रुलेखाविलसितविलसद्धूमकेतुप्रकाशे । सक्रोधा क्षुद्रचक्षुस्त्रिकविकसनसन्दर्शितार्कत्रयीके तस्यास्ये स्यान्नमस्यासुरकुलदलना दर्शिता जन्यसैन्ये ॥ ६०॥ दंष्ट्राधाटीकठोरक्रकचपरिचयेनाप्यखण्डस्वरूपा संङ्कोचं कण्ठघोषेण च न च दधती भीषणेनोल्बणेन । लोके जिह्वापुटेऽप्यस्वलितपदवती भारती यत्र वासं मा सन्धत्तेऽप्रमत्ते हृदि भवतु हरेर्द्रागुपास्यं तदास्यम् ॥ ६१॥ सप्तार्चिःखण्डषण्डस्तबकितकुहरा चुल्लिकेवोल्लसन्ती दीर्णा दीर्घादरीवोद्धुररुधिरसुहृद्धाराधुरीणा । पातालद्वारिवोद्यत्फणिफणमणिरुक्कन्दकीवृन्दलीढा- लीलाहर्यक्षमूर्तेः क्षपयतु विपुला वक्त्रकुक्षिर्मदंहः ॥ ६२॥ गर्जश्रीनिर्जिताम्भोधरपटलहठाकृष्टविद्युत्कलाप प्रायां प्राप्तां समुद्रादपि परिभावनो वैद्रुमी वल्लरीं वा । रौद्रश्रीवीरवर्यावरवरणविधादन्तबन्धूकमालां बिभ्रद्यैत्यान्त्रमालामतिपरुषरुषः पातु देवस्य कण्ठः ॥ ६३॥ माधुर्योद्रेकधुर्यं निजसहजपरिष्कारवर्यं विसृज्य- क्रौर्यश्रीवार्यमाणावसरमपरसन्दैत्यपालान्त्रनालम् । घोराकारां घृणायाः पदमपि दधती धार्यमाणां हठेन ग्रीवा श्रीर्वारणारेः शरणमिह परं पीवरी वामनी वः ? ॥ ६४॥ मायाहर्यक्षमूर्तेः क्षयसमयपयोवाहसाहस्रगर्ज- स्फूर्जन्निर्घोषसम्भावितविदलनदिक्सन्धिसन्धुक्षणाय । उन्मीलत्कान्तितन्तूत्कटकरजघटासूचिसाचिव्यभाजो विष्वद्रीचोऽनुविश्वोपकृतिकृतिभृतो भावये बाहुदण्डान् ॥ ६५॥ नम्रा दैतेयसम्राद्प्रतिभयपृतनाघातगुर्वीं किलोर्वीं दीव्यद्यर्वीकरोर्वीपतिफणपरिषत्खर्वतां पर्वतान्ताम् । उद्धर्तं प्रोद्धुरा नु प्रतिदिशवलिताः सर्वतोऽखर्वमूर्तेः साहस्रा बाहवस्ते मम हृदि महिमोन्नाहवाहः स्फुरन्तु ॥ ६६॥ दीप्रं यद्विप्रचित्तप्रभवमृगदृशां क्षिप्रमोददधानं निप्रघ्नद्विप्रवर्यप्रतिभयरयभृत्कैटभाटोपलोपम् । चक्रं हर्यक्षमूर्तेः शरणमहमहोरात्रमार्तो भृशार्ते रेमि द्राक्कालनेमिक्षतजरसलन्नेमि कस्माद्विभेमि ॥ ६७॥ वह्निज्वालाभजिह्वावगलनविकलत्वाम्बुना सन्नवक्त्रं (विकलस्वाम्बुना) निर्घोषैः कण्ठकम्बोश्चकितमिव महामौनमुद्रां दधानम् । घोणाघ्राणप्रहीणं जलजमिव सितं पाणिभूषायमाणं शत्रुभ्यस्त्राणहेतोः शरणय नृहरेरम्बुजाक्षस्य कम्बुम् ॥ ६८॥ ऋक्चक्रेणेव चक्रं प्रथनमधिमधुग्रासिकोग्राकृतीति क्रौर्येण क्रौञ्चभेदे पटुरिति विकटां श्रीमहासेनशक्तिम् । दम्भोलिं जम्भशत्रोरहिहननमहासाहसीस्रद्धसन्तो दैत्योरस्त्रोटयन्तस्तृणमिव नृहरेः पाणिजाः प्रीणयन्तु ॥ ६९॥ दैत्येन्द्रध्वानसन्ध्याध्वनिमुकुलितदिक्पालमालासुखर्धि- स्वाध्यायारम्भपूर्वोदितसतनुदशोङ्कारिकाकारिभाजः । नागानामिन्द्रियाणां दशसृणिसदृशाः प्राणिनां प्रीतिभाजां प्रायः पारीन्द्रमूर्तेर्मम दश नखरास्ते खराः स्युः सुखाय ॥ ७०॥ साक्षादालक्ष्यमाणं युधि दलदगदाघातशोथप्रथिम्ना दिङ्नागानां विषाणोरुमुसलशकलैः पाण्डुनिर्भग्नमग्नैः । दैतेयव्याघ्रवक्षःप्रबलमदगदं शीघ्रमुल्लाघयन्तो भूशल्योद्धारकल्याभवभयभिषजः पाणिजाः पान्तु युष्मान् ॥ ७१॥ उन्मीलत्कालखण्डोत्पलममलिनकङ्कालखण्टैः कुमुद्व- त्तद्वद्ये व्यक्तमुल्कामुकुलितकमलं स्रागसृक्काभिपूर्णम् । हंसापत्यातिरक्तं सुररिपुवरहृल्लक्ष्यहर्यक्षमूर्तेः क्रौर्यक्रीडातटागं क्षणमधिविदधुस्ते नखाः स्युः सुखाय ॥ ७२॥ उद्रिङ्गद्रक्तलेखारुणवसनलताकर्षमुच्चैस्त्रिलोकी लक्ष्मीदैत्येन्द्रवक्षःस्थलपृथुलशिलास्थेयसीमिर्ष्येयेव । आकर्षन्तो द्विरूढां विबुधपरिवृतेनैव बाढं विधातुं निर्भीति प्रीणयन्तु छलहरिवपुषः पाणिजाः प्राणिजातम् ॥ ७३॥ वक्षःसीमन्तयन्तो नभिदुरभिदुरोरच्छदछेददक्षा यत्किञ्चिद्विघ्ननिघ्ना इव घनमघवद्वज्रघातोत्थशोथैः । स्थूलास्थिग्रन्थिकूटे निबिडकडकडोड्डामराम्रेडितेन क्रीडन्तश्शक्रशत्रोर्नरहरिनखरास्ते खराः स्युः सुखाय ॥ ७४॥ चापल्येनापतन्तीमिव शिरसि रसज्ञां प्रतप्तासिलेखा- भीमामालोक्य सीमान्तरगतकमलाकौस्तुभश्रीव भीत्या । तारादारांशुधाराप्रतिमघनतमोल्लासवल्लोमवल्ली- लीनश्रीवत्सलक्ष्म क्षपयतु दुरितं लक्षहर्यक्षवक्षः ॥ ७५॥ अव्यादाकाशकाशस्तबकपरिणतः कूर्मलोम्नां विवर्तो दृष्टान्तश्यामश‍ृङ्गस्य च हरिदुदयच्चित्रलेखैकमित्रम् । मिथ्यद्वैरथ्यसज्जद्विपदलनतनोर्देहपूर्वापरर्द्धि- स्थित्यर्थापत्तिसाध्यं भवभयविकटान्मङ्क्षु नो मध्यमव्यात् ॥ ७६॥ दैत्येन्द्रो दीर्घनिद्रामधित शितशिखैस्तन्नखैः खण्डितोरः कण्डूतिर्यत्र हस्तस्खलदसिफलकस्फारपादप्रसारः । चञ्चज्जानूपधाना तनुरुहनिवहप्रच्छदनाढ्या मञ्चेतः स्थैर्यपट्वाक्रमतु कपटहर्यक्षदक्षोरुखट्वा ॥ ७७॥ न्यस्ते रोषेण साचिप्रसृमरपरितो दीधितौ यत्र रक्ते मध्ये नम्रत्वकम्रं कुवलयमभितः सङ्गतोत्तुङ्गताकम् । उत्तानस्वर्णदण्डायुतकनकशलाका[लिलालित्यशालि च्छत्राभामाप तापानपनुदतु हरेर्वामजङ्घाप्रकाण्डः ॥ ७८॥ स्तम्भोद्भूतस्य भूमेरूपरि लिपदसृक्चन्दनं स्यन्दमाना- धोऽनूनारुण्यलक्ष्यादिति सुतपृतनापादघातार्तिभाजः । फाले श्रीखण्डपुण्ड्रं लिखदिव नखरज्योत्स्नया वत्सलत्वात् प्रह्लादस्य प्रणामप्रवणितशिरसः पातु पादद्वयी नः ॥ ७९॥ रुन्धन्तीवारिबन्धूनधिरुधिरधुनीबन्धुबन्धूकमूर्ते- राकृष्याशानुविश्वाः स्वयमपि युगपद्योजयन्तीव भान्ति । द्वैतं द्यावापृथिव्योर्दलयितुमुदयन्मांसलानीचवीचिः विश्वद्रीची मरीचीततिररुणसमीचीनरोचिर्विचिन्त्या ॥ ८०॥ अस्थानद्वारि तिष्ठन् असुरवरहृदो दारुणायैकनिष्ट- क्रोधः श्रीपृष्ठनिष्ठप्रततफणबृहद्दीर्घपृष्ठस्थविष्ठः । प्रह्लादाप्तप्रतिष्ठः प्रबलदनुजनुःसैन्यविन्यस्तनिष्ठः पायाद्देवो वसिष्ठप्रभवभवनुतो देवगोष्ठीगरिष्ठः ॥ ८१॥ दन्तेभ्यः पाणिजेभ्यस्तुहिनगुभगिनीस्तोमलेखासुहृद्भयो नो बिभ्यत्यब्धिशब्दश्रवणपरवशाघोरगम्भीरघोषात् । और्वज्वालालतायाः कणकुसुमहृदप्युग्रजिह्वालताया- यस्याङ्के निर्विशङ्कं जयति जलाधिजा सैष देवोऽवताद्वः ॥ ८२॥ एष ब्रह्माण्डभाण्डामितविततवपुः सज्जनस्वान्तदेशे स्वच्छन्दामन्दलीलो विषयसमुदयाकुञ्चितत्त्वाञ्चितेऽपि । काष्ठाकैवल्यलक्ष्म्या जगति कतिपयैः कल्मिभिः कार्यदृष्टया देवः श्रीमान् नृसिंहोऽवतु परममहानप्यणोरप्यणीयान् ॥ ८३॥ उच्चैर्घुष्टप्रहृष्टत्रिदशगणघनश्लाघनाघूर्णनोद्य- न्मूर्धाधोध्वस्तपुष्पस्तबकविकसितैस्तारकाचक्रवालैः । दृष्टोरः पाटरुष्टिस्फुटविकटसटाकम्पसम्पत्तिचक्र- च्छिन्नैराच्छादिताङ्गच्छलनृहरितनुर्यच्छताद्वाञ्छितं नः ॥ ८४॥ आभातीतेन्दुधामासदरिदरकरः सर्वमानव्यमाभृ- त्कायोदारस्सदारोचितदशनखरः कोऽपि तत्त्वाधिकारी । आभातीतेन्दुधामा सदरि करः सर्वदा नव्यमाभृ- (सदर) त्कायोदारः सदारोचितदशनखरः कोऽपि तत्त्वाधिकारी ॥ ८५॥ तिष्ठन्नम्भोजपृष्ठे जलनिधिजनुषो रोचिषा राजमानो विद्युज्ज्वालाकलापोज्ज्वलविपुलसटाकीर्णविस्तीर्णवक्त्रः । जान्वोर्विन्यस्तहस्तः कटितटविवलद्योगपट्टस्फुटश्री- भाजोः शङ्खारिधारी जयति नरवपुश्चित्रपारोन्द्रवक्त्रः ॥ ८६॥ पातूरःपीठपट्टाश्रितजलधिजनिर्योगपट्टाभिरामो दैत्योरःपाटकट्टारकखरनखरो भ्राजदट्टाट्टघोषः । संसारक्लेशहट्टापहरणमहिमा यो हृदट्टाधिवासी भक्तानां देवभट्टारककलितनुतिः पीतपट्टांशुकः सः ॥ ८७॥ सत्रासत्राणर्त्री रिपुसुतविपदः साधु नाना धुनाना- मारामाराजिवक्षा नखविदलितदुष्टासुरा भासुराभा । सामासामादिगीता निजपदकमलालम्बतारावतारा भीमाभीमार्थदक्षा तनुरवतु सुधा भानुमालानुमाला ॥ ८८॥ प्राप्ता मुद्राविले शेन परममहता येन यः सन्तरण्या कारां पृथ्वीं दधानो वरभुजगवरत्रासरक्षां विभाति । गाङ्गश्रीशोभमानां स्वतनुमवतु नः शं खलूच्चैर्महिम्ना पारावारप्रभावः स नृहरिरपरा यस्य मैनीह मूर्तिः ॥ ८९॥ ज्यायस्याभासमाना भवति न तनुरुट्छालिनी यारिराजी- श्यामा क्षीरोदनीरोच्छ्वसनकुशलिनी या कृतोद्वृत्तपाता । हन्यान्मूर्तिर्हरेः सा दुरितमतिबला काच्छपी नाम मात्रा- तिक्रान्ता दीर्घपृष्ठं परमपि दधती मान्दरश्रीनिधानम् ॥ ९०॥ देहो यस्याम्बुवाहोपलसितरुचिभृद्यः सरस्वत्युपास्यः पातालक्ष्माखरांशुप्रतिमनखगणो यो हिरण्याक्षजेता । यो नन्दोल्लासकान्तो विलसति बहुलोमावली यस्य धाम्नि श्रेयो दद्यात् स देवो निजजनमहसे लब्धभूदारभावः ॥ ९१॥ उद्यत्प्रह्लादसम्पन्नखरकररुचिः सर्वदा राजदन्त- श्रीधारी योरिधा रास्त्रन्थरविवरणो योऽनुरज्यद्रसज्ञः (?) । (योरिदा) चिल्लीलास्याधिकारी विकसिततनुरुट्केसरी कोऽपि लोके कल्याणं स स्वतुल्यः प्रणयतु परितोऽलङ्क्रियाभासमानः ॥ ९२॥ लोकप्रह्लादसद्भाद्रपदजनमतिप्रोल्लसद्येवकार्या- यासाराम्भोदधानध्वनिविभववती चुम्बितार्काक्षमाला । कौपीनप्रीतधात्रीवलनियमलयालोकहर्षप्रकाशा शुक्लाक्षी स्फोटभीमा हरितनुरवताद्वामनी चाधिका सा ॥ ९३॥ प्रस्वापद्वर्धनीया शशिदरपरशुभ्राजिता दानवार्या पारीचर्यादितक्ष्मोपकृतिगुरुमहादेवशास्त्राधिकारा । भार्गव्याभासमाना हृदि मम बहुशोकार्तिवीर्याविरास्तां मूर्ति देवस्य कापि प्रतिदिनमविताम्नायशैलीमुखश्रीः ॥ ९४॥ यो गाधेयाग्निनेत्री गतदुरितशतानन्दसूर्या च तारा- भर्तुर्लक्ष्मीं दधाराह्रियत किल ययाप्युच्चकैरावणश्रीः । या वैदेह्याप्तभीतिक्षयकरमहिमा साधु सा राघवीति- ख्याता मूर्तिर्हरेर्नो वसतु हृदि पराभूतमायाकुरङ्गा ॥ ९५॥ योऽभूत् सन्तापसक्ता लवनखरघटाहारिहस्तो यदीया- सच्चक्रे सूतमृत्युङ्करणकुशलता सूर्यजाकर्षशीलः । यश्चेतोहारिहालाहलभृति बहलप्रीतिरुत्तालकेतुः प्रेयो वृन्दावनः कौरवगुरुरभितः श्रीहरी रक्षतां नः ॥ ९६॥ प्रत्यक्षादिप्रमाणोनभिमतपरलोकप्रहर्षो नयज्ञे प्रह्लादे चान्तनिष्ठे घृणयति घृणिमाल्यच्छविद्योतितो यः । सर्वेषां मूलहेतुः किल यदभिमतो भावहावप्रसिद्धः संसारादुद्धरेन्मां कपटहरितनुः शुद्धबुद्धस्वरूपः ॥ ९७॥ सार्धं दुष्टैः प्रवृद्धैः कलियुगमलहृत्सिन्धुजारोहशाली योऽभूद्येवाधिराजप्रणयवशतया लब्धजन्मानुकारः । संसारे सत्यधर्मा चरणपरवशो यः कृपाणां समुद्रः देवोऽभूद्रोगहन्ता भवतु नरहरिर्भास्वदन्तः प्रकाशः ॥ ९८॥ दैत्यानां कालदण्डः स्फुरतु हृदि हरेश्चण्डलाङ्गूलदण्डः शक्रश्रीलास्यदण्डः स्वजनघनकृपाकेतनोल्लासदण्डः । आपद्गोषण्डदण्डः सुरपुरतरुणीत्रासभाण्डौघदण्डः स्वर्लोकच्छत्रदण्डस्त्रिपुरनिजजनुर्घोषणातोद्यदण्डः ॥ ९९॥ स्वर्गे संसर्गवत्या दितितनुजभुजा वीर्यलक्ष्मीयुवत्याः प्रोदस्तं किन्नु दस्ता कलितकचकुलं क्ष्मातले पातनाय । क्रोधश्रीबाहुदण्डं वलयितसितरुङ्मण्डलं तत्प्रचण्डं चेतो ब्रह्माण्डकेतोः स्मरहरिवपुषो वालहस्तप्रकाण्डं (?) ॥ १००॥ ऊष्माकूष्माण्डषण्डो दयतु हृदि न ते यातु नो यातुनो भीः प्रेताः के तावदष्टौ त्यजत मयि महाभैरवा वैरवार्ताम् । रुष्टत्वेतेन दुष्टग्रहगणगणनाकालकङ्कालसम्प- त्सम्पन्ना ते मदास्यं मदायितुमुदभून्मापयन्नारसिंहं (?) ॥ १०१॥ क्षिपं सर्पापसर्प व्रज वनगजते विद्रव छिद्रदेशा- दद्रेर्निर्गच्छ तुच्छद्रविण न हि मदादच्छभल्ल प्रयच्छ । मा सिंह त्रास रंहः शरभ सरभसं याहि शार्दूल दूरा- दाह्वा जिह्वाञ्चलं नश्वपलयति यतश्चित्रपञ्चास्यमूर्तेः (?) ॥ १०२॥ कश्चित् कौत्सववंशकैरववनीप्राकाशराकापतिः कृत्वा मर्त्यहरेरमर्त्यकलितां श्लोकैः शतैर्मौक्तिकैः । मालां दूषणदूरणाय गुणवद्विज्ञानशाणार्चितां (दूषणदारणाय) सत्कण्ठार्पणतो जगाम परमानन्दं स गङ्गाधरः ॥ १०३॥ इति श्रीनृसिंहशतकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Nrisimha Shatakam 06-07
% File name             : nRRisiMhashatakam.itx
% itxtitle              : nRisiMhashatakam
% engtitle              : nRisiMhashatakam
% Category              : vishhnu, shataka, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-07
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org