नृसिंहस्तवनहारः

नृसिंहस्तवनहारः

नमो भगवते तुभ्यं पुरुषाय महात्मने । हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ १॥ वागीशा यस्य वदने लक्ष्मीर्यस्य वक्षसि । यस्यास्ते हृदयं संवित् तं नृसिंहमहं भजे ॥ २॥ सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थलं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षं चक्रपिनाकसाभयवरान् बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ ३॥ त्राहीति व्यावहरन्तं त्रिदशरिपुसुतं त्रातुकामो रहस्ये विसृस्तं पीतवस्त्रं निजकटियुगुले सव्यहस्तेन गृह्णन् । वेगश्रान्तं नितान्तं खगपतिममृतं पाययन्नन्यपाणौ । सिंहाद्रौ शीघ्रपातः क्षितिपिहितपदः पातु मां नारसिंहः ॥ ४॥ नरसिंहो महादेवो महादेवार्तिनाशनः । मुदे परो महालक्षम्या(क्ष्म्या) देवावर नमोऽस्तु ते ॥ ५॥ नृसिंह उत्सङ्गसमुद्रजायां समुद्रजद्वीपगृहे निषण्णः ॥ समुद्रजो हीनमतिः सदाव्यात् समुद्रभक्ताखिल सिद्धिदायी ॥ ६॥ राजा लक्ष्मीनृसिंहो जयति सुखकरं श्रीनृसिंहं भजेयं दैत्याधीशौ महान्तौ हरत नृहरिणा श्रीनृसिंहाय नौमि । सेव्यो लक्ष्मीनृसिंहादपर इह नहि श्रीनृसिंहस्य पादौ सेवे लक्ष्मीनृसिंहे वसतु मम मनः श्रीनृसिंहावभक्तम् ॥ ७॥ लोकानाकुलयन् नभः कवलयन् दिक्कुम्भितः कम्पयन् भूगोलं चलयन् त्रिरीत्विदलयन् अम्भोधिमुद्वेलयन् । दिग्वृन्दं भ्रमयन् मनोविकसयन् ब्रह्माण्डमास्फोटयन् स्तम्भादाविरभूद्भवं प्रति तदा वैकुण्ठकण्ठीरवः ॥ ८॥ तपनसोमहुताशनलोचनं धनविरामहिमांशुसमप्रभम् । अभयचक्रपिनाकवरान्करैर्दधतामिन्दुधरं नृहरिं भजे ॥ ९॥ श्रीमन्नृकेसरितनो जगदेकबन्धो श्रीनीलकण्ठ करुणार्णव सामराज । वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो ॥ १०॥ क्षीराब्धौ वसुमुख्यदेवनिकरैरग्रादिसंवेष्टितः शङ्खचक्रगदाम्बुजं निजकरैर्बिभ्रंस्त्रिनेत्रासितः । सर्पाधीशफणातपत्रलसितः पीताम्बरालङ्कतो लक्ष्म्याश्लिष्टकलेवरो नरहरिस्तां नीलकण्ठो मुदे ॥ ११॥ व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशंङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ १२॥ कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं पादादानाभिरक्तप्रभुमुपरिसतं भिन्नदैत्येन्द्रगात्रम् । शङ्खं चक्रं च पाशाङ्कुशकुलिशगदादारुणान्युद्वहन्तं भीमं तीक्ष्णोग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥ १३॥ चरणस्मरणप्रेम्णा तव देव सुदुर्लभम् । यथाकथञ्चिन्नृहरे मम भूयादहर्निशम् ॥ १४॥ क्वाहं बुद्ध्यादिसंरुद्धः क्व च भूमन्महस्तव । दीनबन्धो दयासिन्धो भक्ति मे नृहरे दिश ॥ १५॥ नरवपुप्रतिपद्य त्वयि यदि श्रवणवर्णनसंस्मरणादिभिः । नरहरे न भजन्ति नृणामिदमिति वपुच्छवसितं विफलं ततः ॥ १६॥ त्वदीक्षणवश क्षोभमायाबोधितकर्मभिः । जातान्संसरतः खिन्ना नृहरे पाहि नः पितः ॥ १७॥ अन्तर्यन्ता सर्वलोकस्य गीतः श्रुत्या युक्त्या चैवमेवावसे यः । यः सर्वज्ञः सर्वशक्तिर्नृसिंहः श्रीमन्तं तं चेतसैवावलम्बे ॥ १८॥ यस्मिन्नुद्यद्विलयमपि यद् भाति विश्वं लयादौ जीवोपेतं गुरुकरुणया केवलात्मावबोधे । अन्त्यन्तां तं व्रजति सहसा सिन्धुवत्सिन्धुमध्ये मध्ये चित्तं त्रिभुवनगुरुं भावये तं नृसिंहम् ॥ १९॥ संसारचक्रऋकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् । कथञ्चिदापन्नमिहप्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ॥ २०॥ मुकुटकुण्डलकङ्कणकिङ्किणीपरिणतं कनकं परमार्थतः । मदहङ्कृतिसप्रमुखं यथा नरहरे न परं परमार्थतः ॥ २१॥ नृत्यन्ति तव वीक्षणाङ्गणगता कालस्वभावादिभिः भावान्सत्वरजस्तमोगुणमयानुन्मीलयन्ती बहून् । मामाक्रम्य पदाशिरस्यतिभरं सम्मर्दयन्त्यातुरं माया ते शरणं गतोऽस्मि नृहरे त्वमेव तां वारय ॥ २२॥ मुञ्चन्नङ्गतदङ्गसङ्गमनिशं त्वामेव संञ्चितयन् सन्तः सन्ति यतो यतो गतमदास्तानाश्रमानावसन् । नित्यं तन्मुखपङ्कजाद्विगलितत्वत्पुण्यगाथामृत स्त्रोतः सम्प्लवसम्प्लुतो नरहरे नस्यामहं देहभृत् ॥ २३॥ त्रैविष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशुगदयाभिपतन्तमारा ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ २४॥ सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भो सभायां न मृगं न मानुषम् ॥ २५॥ सटावधूता जलदाः परापतन् ग्रहाश्च त्दृष्टी विमुष्टरोचिषः । अम्भोदयः श्वासहता विचक्षुभूः निर्हादभीता दिगिभा विचुत्रऋषुः ॥ २६॥ श‍ृङ्गारं पद्मया यः प्रथयति करुणं दैत्यपुत्रेण हास्यं वक्राकारेण वीरं रिपुवधविधिना सिंहवेषेण रौद्रम् । बीभत्सं रक्तजर्या शममपि मनसा भीतिमप्यगृहासैः स्तम्भोत्पत्याद्भुतं नः स नवरसमयः श्रीनृसिंहः पुनातु ॥ २७॥ इति नृसिंहस्तवनहारः सम्पूर्णः । Proofread by M K Barman
% Text title            : Nrisimhastavanaharah
% File name             : nRRisiMhastavanahAraH.itx
% itxtitle              : nRisiMhastavanahAraH
% engtitle              : nRisiMhastavanahAraH
% Category              : vishhnu, dashAvatAra, stava, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org