नृसिंहस्तवनहारः
नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ १॥
वागीशा यस्य वदने लक्ष्मीर्यस्य वक्षसि ।
यस्यास्ते हृदयं संवित् तं नृसिंहमहं भजे ॥ २॥
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थलं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयवरान् बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ ३॥
त्राहीति व्यावहरन्तं त्रिदशरिपुसुतं त्रातुकामो रहस्ये
विसृस्तं पीतवस्त्रं निजकटियुगुले सव्यहस्तेन गृह्णन् ।
वेगश्रान्तं नितान्तं खगपतिममृतं पाययन्नन्यपाणौ ।
सिंहाद्रौ शीघ्रपातः क्षितिपिहितपदः पातु मां नारसिंहः ॥ ४॥
नरसिंहो महादेवो महादेवार्तिनाशनः ।
मुदे परो महालक्षम्या(क्ष्म्या) देवावर नमोऽस्तु ते ॥ ५॥
नृसिंह उत्सङ्गसमुद्रजायां समुद्रजद्वीपगृहे निषण्णः ॥
समुद्रजो हीनमतिः सदाव्यात् समुद्रभक्ताखिल सिद्धिदायी ॥ ६॥
राजा लक्ष्मीनृसिंहो जयति सुखकरं श्रीनृसिंहं भजेयं
दैत्याधीशौ महान्तौ हरत नृहरिणा श्रीनृसिंहाय नौमि ।
सेव्यो लक्ष्मीनृसिंहादपर इह नहि श्रीनृसिंहस्य पादौ
सेवे लक्ष्मीनृसिंहे वसतु मम मनः श्रीनृसिंहावभक्तम् ॥ ७॥
लोकानाकुलयन् नभः कवलयन् दिक्कुम्भितः कम्पयन्
भूगोलं चलयन् त्रिरीत्विदलयन् अम्भोधिमुद्वेलयन् ।
दिग्वृन्दं भ्रमयन् मनोविकसयन् ब्रह्माण्डमास्फोटयन्
स्तम्भादाविरभूद्भवं प्रति तदा वैकुण्ठकण्ठीरवः ॥ ८॥
तपनसोमहुताशनलोचनं धनविरामहिमांशुसमप्रभम् ।
अभयचक्रपिनाकवरान्करैर्दधतामिन्दुधरं नृहरिं भजे ॥ ९॥
श्रीमन्नृकेसरितनो जगदेकबन्धो
श्रीनीलकण्ठ करुणार्णव सामराज ।
वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे
शीतांशुशेखर रमेश्वर पाहि विष्णो ॥ १०॥
क्षीराब्धौ वसुमुख्यदेवनिकरैरग्रादिसंवेष्टितः
शङ्खचक्रगदाम्बुजं निजकरैर्बिभ्रंस्त्रिनेत्रासितः ।
सर्पाधीशफणातपत्रलसितः पीताम्बरालङ्कतो
लक्ष्म्याश्लिष्टकलेवरो नरहरिस्तां नीलकण्ठो मुदे ॥ ११॥
व्याधूतकेसरसटाविकरालवक्त्रं
हस्ताग्रविस्फुरितशंङ्खगदासिचक्रम् ।
आविष्कृतं सपदि येन नृसिंहरूपं
नारायणं तमपि विश्वसृजं नमामि ॥ १२॥
कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं
पादादानाभिरक्तप्रभुमुपरिसतं भिन्नदैत्येन्द्रगात्रम् ।
शङ्खं चक्रं च पाशाङ्कुशकुलिशगदादारुणान्युद्वहन्तं
भीमं तीक्ष्णोग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥ १३॥
चरणस्मरणप्रेम्णा तव देव सुदुर्लभम् ।
यथाकथञ्चिन्नृहरे मम भूयादहर्निशम् ॥ १४॥
क्वाहं बुद्ध्यादिसंरुद्धः क्व च भूमन्महस्तव ।
दीनबन्धो दयासिन्धो भक्ति मे नृहरे दिश ॥ १५॥
नरवपुप्रतिपद्य त्वयि यदि श्रवणवर्णनसंस्मरणादिभिः ।
नरहरे न भजन्ति नृणामिदमिति वपुच्छवसितं विफलं ततः ॥ १६॥
त्वदीक्षणवश क्षोभमायाबोधितकर्मभिः ।
जातान्संसरतः खिन्ना नृहरे पाहि नः पितः ॥ १७॥
अन्तर्यन्ता सर्वलोकस्य गीतः श्रुत्या युक्त्या चैवमेवावसे यः ।
यः सर्वज्ञः सर्वशक्तिर्नृसिंहः श्रीमन्तं तं चेतसैवावलम्बे ॥ १८॥
यस्मिन्नुद्यद्विलयमपि यद् भाति विश्वं लयादौ
जीवोपेतं गुरुकरुणया केवलात्मावबोधे ।
अन्त्यन्तां तं व्रजति सहसा सिन्धुवत्सिन्धुमध्ये
मध्ये चित्तं त्रिभुवनगुरुं भावये तं नृसिंहम् ॥ १९॥
संसारचक्रऋकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् ।
कथञ्चिदापन्नमिहप्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ॥ २०॥
मुकुटकुण्डलकङ्कणकिङ्किणीपरिणतं कनकं परमार्थतः ।
मदहङ्कृतिसप्रमुखं यथा नरहरे न परं परमार्थतः ॥ २१॥
नृत्यन्ति तव वीक्षणाङ्गणगता कालस्वभावादिभिः
भावान्सत्वरजस्तमोगुणमयानुन्मीलयन्ती बहून् ।
मामाक्रम्य पदाशिरस्यतिभरं सम्मर्दयन्त्यातुरं
माया ते शरणं गतोऽस्मि नृहरे त्वमेव तां वारय ॥ २२॥
मुञ्चन्नङ्गतदङ्गसङ्गमनिशं त्वामेव संञ्चितयन्
सन्तः सन्ति यतो यतो गतमदास्तानाश्रमानावसन् ।
नित्यं तन्मुखपङ्कजाद्विगलितत्वत्पुण्यगाथामृत
स्त्रोतः सम्प्लवसम्प्लुतो नरहरे नस्यामहं देहभृत् ॥ २३॥
त्रैविष्टपोरुभयहा स नृसिंहरूपं
कृत्वा भ्रमद्भुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशुगदयाभिपतन्तमारा
ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ २४॥
सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।
अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भो सभायां न मृगं न मानुषम् ॥ २५॥
सटावधूता जलदाः परापतन्
ग्रहाश्च त्दृष्टी विमुष्टरोचिषः ।
अम्भोदयः श्वासहता विचक्षुभूः
निर्हादभीता दिगिभा विचुत्रऋषुः ॥ २६॥
शृङ्गारं पद्मया यः प्रथयति करुणं दैत्यपुत्रेण हास्यं
वक्राकारेण वीरं रिपुवधविधिना सिंहवेषेण रौद्रम् ।
बीभत्सं रक्तजर्या शममपि मनसा भीतिमप्यगृहासैः
स्तम्भोत्पत्याद्भुतं नः स नवरसमयः श्रीनृसिंहः पुनातु ॥ २७॥
इति नृसिंहस्तवनहारः सम्पूर्णः ।
Proofread by M K Barman