नृसिंहस्तवराजः २
सर्वज्ञं वेदकर्तारं पुराणपुरुषोत्तमम् ।
पपृच्छुः मुनयः कृष्णं कृपालुं भक्तवत्सलम् ॥ १॥
भगवान् भूतभव्येश सर्वज्ञ करूणानिधे ।
किं तत्त्वं किं परं जाप्यं ध्यानं किं मुक्तिसाधनम् ॥ २॥
श्रोतुमिच्छामि हे देव तद्वद सर्वसाधनम् ।
सर्वभावेन जातस्त्वां शरण्यं शरणं प्रभो ॥ ३॥
श्रीकृष्ण उवाच ।
सच्चिदानन्दमद्वैतं स्वप्रकाशं परं शिवम् ।
यज्ज्योतिज्योतिषां पूर्णं तत्तत्वं श्रुतयो विदुः ॥ ४॥
श्रीनृसिंहस्तवान्नान्यत् तत्त्वं जाप्यं परं विदुः ।
सर्वदुःखहरं ज्ञानदायकं भोगसाधनम् ॥ ५॥
अथ ज्ञानं प्रवक्ष्यामि सर्वाभीष्टप्रदायकम् ।
नृसिंहस्तवराजेन सर्वपापहरं परम् ॥ ६॥
महाचक्रस्य नाभिस्थं क्षीरसागरमध्यगम् ।
श्वेतद्वीपे महादिव्ये प्रासादे रत्नशोभिते ॥ ७॥
सिंहासनसमारूढं छत्रीभूतं फणीन्द्रकम् ।
त्र्यक्षं चक्रपिनाकाढ्यं सर्वदाऽभयदायकम् ॥ ८॥
शरच्चन्द्रनिभं स्वच्छं नीलकण्ठं मनोहरम् ।
सदा केसरसंवीतं विकटभ्रूयुतं शिवम् ॥ ९॥
योगारूढं प्रसन्नास्यं चन्द्रमौलिं कृपाकरम् ।
नृसिंहं परमानन्दं सत्यज्ञानस्वरूपिणम् ॥ १०॥
प्रह्लादवरदं देवं चिन्तयामि परात्परम् ।
इन्द्रादिभिस्स्तुतं लक्ष्म्या सेवितं भूषणोज्ज्वलम् ॥ ११॥
पीताम्बरधरं देवं चारुदंष्ट्रं सुलोचनम् ।
श्रीवत्सकौस्तुभोपेतं वनमालाविभूषितम् ॥ १२॥
एवं ध्यात्वा नृसिंहाख्यं परं ब्रह्मसनातनम् ।
सन्तुष्टहृदयो मूर्ध्नि कृताञ्जलिरिदं पठेत् ॥ १३॥
नृसिंहस्तवराजं च सर्वकामप्रदं शिवम् ।
सर्वारिष्टहरं दिव्यं दुष्टनाशनमुत्तमम् ॥ १४॥
ॐ अस्य श्रीनृसिंहस्तवराजस्य श्रीकृष्णः ऋषिः ।
श्रीलक्ष्मीनृसिंहो देवता ।
अनुष्टुप् छन्दः । श्रीनृसिंहप्रीत्यर्थे जपे विनियोगः ॥
ॐकाराक्षं शिवं पूर्णं नारसिंहं कृपाकरम् ।
निर्विकारं परं धाम चिन्तयामि परात्परम् ॥ १५॥
सत्यं ज्ञानपरं ब्रह्म यत्फलं यमनन्तकम् ।
एवं सदोदितं शान्तं निर्मलं निष्फलं परम् ॥ १६॥
निरञ्जनं निराकारमखण्डं तमसः परम् ।
भक्तानुग्रहकर्तारं प्रह्लादवरदं प्रभुम् ॥ १७॥
असाध्यसर्वरोगघ्नं समस्तासुरनाशनम् ।
कृतान्तवाहनं भीमं कालमृत्युनिवारणम् ॥ १८॥
भीषणं विकटं शान्तं दुष्टग्रहनिवारणम् ।
सर्वाक्षोभ्यं महाविष्णुं नारायणमनामयम् ॥ १९॥
देवदानवदुर्दर्श्य जगद्रक्षकरक्षणम् ।
उग्रसिंहं सदाशान्तं स्मृतिमात्राखिलप्रदम् ॥ २०॥
ॐकाररूपं त्रिदशाधिनाथं ब्रह्मस्वरूपं विमलं प्रशान्तम् ।
अनन्तमेकं परिपूर्णरूपं स्मरामि रामं प्रणमामि सिंहम् ॥ २१॥
पिङ्गोर्ध्वकेशं विवृताननं तं पिङ्गत्रिनेत्रं धवलं सुसौम्यम् ।
नमामि सिंहं परमेश्वरं वै सत्याधिरूपं निहितं गुहायाम् ॥ २२॥
मोक्षैकहेतुं परमं शरण्यं भृत्यार्तिनाशं जगदेकहेतुम् ।
आनन्दरूपं विततं च पूर्णं नमामि सिंहं परमं द्वितीयम् ॥ २३॥
नारायणं वै रघुनाथमेकं ब्रह्मस्वरूपं विविधात्मरूपम् ।
नित्यं निदानं परमीशितारं मत्स्यादिरूपं प्रणमामि सिंहम् ॥ २४॥
राजाधिराजं रघुनाथमीशं श्रीरामचन्द्रं शरणं नृसिंहम् ।
श्रीवासुदेवं शिखिपिच्छचूडं सुवेणुवाद्यं निरतं महान्तम् ॥ २५॥
विश्चैकदीपं ज्वलनार्कदीप्तिं जाज्वल्यमानं महसा परेण ।
श्रीदिव्यसिंहं महताम्महान्तं हिरण्यगर्भं शरणं प्रपद्ये ॥ २६॥
वैराजरूपं पुरूषं पुराणं सहस्रशीर्षं शतपत्रपादम् ।
ब्रह्मेशरूपं कृतविश्वमीड्यं नृसिंहमाद्यं परिपूर्णमीडे ॥ २७॥
अन्नादिकोशं जगदद्वितीयं पुच्छं नृसिंहं शरणं शरण्यम् ।
ज्ञानैकलभ्यं सुधियां हि पुंसां धर्मादिहेतुं शरणं प्रपद्ये ॥ २८॥
ब्रह्मा विष्णुर्महेशस्त्वमिन्द्रो वह्निर्यमस्तथा ।
वरुणो वायुरीशानः कुबेरो हरे प्रभो ॥ २९॥
सूर्यादिग्रहरूपस्त्वं नृहरे गुरुरूपधृक् ।
मन्त्रराजस्वरूपस्त्वं सामराज नमोऽस्तु ते ॥ ३०॥
पिता माता सुहृद् बन्धुर्नृहरे त्वं सदा मम ।
त्वमेव सकलं ब्रह्मन् त्वां विना नास्ति मे गतिः ॥ ३१॥
मातृका प्रणवादिश्च सर्वमन्त्रमयाच्युत ।
सर्वदेवमयाचिन्त्य सिंहास्याय नमोऽस्तु ते ॥ ३२॥
श्रीकृष्ण उवाच ।
अनेन स्तवराजेन नृसिंहो भक्तवत्सलः ।
ततः प्रीतः प्रसन्नोऽभूत् भक्तेभ्यः पुरुषोत्तमः ॥ ३३॥
श्रीनृसिंह उवाच ।
भो भो भक्तवराः सर्वे श्रुणुध्वं वरमुत्तमम् ।
अहं भक्तपराधीनो अन्येषामतिदुर्लभः ॥ ३४॥
भक्ता ऊचुः ।
यदि नोऽसि प्रसन्नस्त्वं देवदेव कृपानिधे ।
त्वमेव नितरां देहि त्वयि भक्तिं दृढां प्रभो ॥ ३५॥
श्रीनृसिंह उवाच ।
श्रूयतां सावधानेन भक्तिर्वोऽस्तु सदा मयि ।
अन्यश्च श्रूयतां विप्राः येन प्रीतो भवाम्यहम् ॥ ३६॥
अनेन स्तवराजेन श्रद्धया कृतनिश्चयः ।
यः स्तौति दीक्षितः भक्तः तस्याहं कामपूरकः ॥ ३७॥
एककालं त्रिकालं वा चतुर्दश्यामथापि वा ।
स्वात्यां तु मन्दवारे च स्तोत्रमेतत्पठन्ति ये ॥ ३८॥
ईप्सितं सफलं तेषां भवत्येव न संशयः ।
अनिष्टस्य च वार्तापि श्रूयते तैर्न च क्वचित् ॥ ३९॥
भक्ता ऊचुः ।
सर्वान्तर्यामिणां देव हरे चैतन्यरूपिणा ।
यो हि दत्तो वरोऽस्मभ्यं सत्योऽयं त्वत्प्रसादतः ॥ ४०॥
इति कृष्णेन सम्प्रोक्तो ऋषिभ्यो नृहरे स्तवः ।
प्रीयतां तेन देवेशो नृसिंहो भक्तवत्सलः ॥ ४१॥
इति श्रीकृष्णऋषिसंवादे श्रीनृसिंहस्तवराजः सम्पूर्णः ।
Proofread by M K Barman