नृसिंहतीर्थाख्यानवर्णनं
स वै पुराणपुरुषश्चिदात्मा महानुभावः सहसाविभिद्य ।
स्तम्भं महोग्रेण च वर्त्मना मुहुर्वक्त्रं लिहन्सद्रसन्नायकेण ॥ १॥
मुखं मृगेन्द्रस्य दधार देवो वपुर्नरस्याथ शुभं चकार ।
दंष्ट्राकरालं रसनालिर्हतमुग्रं सुताम्राक्षमथोच्चनासम् ॥ २॥
शशाङ्कसूर्यानलदीप्तनेत्रं सटास्फुरन्तं स ददर्श दैत्यः ।
अयं सपत्नः सभयो ममेति जगाद खड्गेन जघान तीव्रम् ॥ ३॥
तत्खड्गघातेन चुकोप देवश्चक्रे सुनादं दितिनन्दनालये ।
तदालयं तच्च पुरं जगत्त्रयं सुकम्पितं तेन विषण्णमासीत् ॥ ४॥
सुरा नराः पन्नगपक्षिवर्याः सम्मोहितास्ते सभया निलिल्यिरे ।
अथोग्रतेजा मृगराजरूपं जग्राह दीप्तं दितिनन्दनार्थम् ॥ ५॥
तं खड्गपाणिं प्रलपन्तमुच्चैर्जग्राह तं व्याघ्र इवोचितं पशुम् ।
क्रोधेन जान्वोरभिपात्य शीघ्रं ददार वक्षः करजैः स तस्य ॥ ६॥
अन्त्राणि चोत्कृत्य ससर्ज कण्ठे प्राणाञ्जहौ तत्क्षणमेव दैत्यः ॥ ७॥
निहतं तं तदा दृष्टवा पितरं चापिराधिनम् ।
उत्थाय परमोद्विग्नः प्रह्लादः प्रणनाम ह ॥
बद्धाञ्जलिपुटः श्रीशं तुष्टावानन्दनिर्भरः ॥ ८॥
प्रह्लाद उवाच-
नृहरे तवनामचिन्तनं भविता सिद्धिकरं निरन्तरम् ।
यदि जन्मसु चार्जितं महत्सुकृतं तत्सुफलं नृणां भवेत् ॥ ९॥
न वास्ति सत्वा न वा रिपुर्भगवंस्त्वं गुणसङ्गवर्जितः ।
विषमा तवभूतसङ्गता ननुमायापरितो दुरत्यया ॥ १०॥
अत एव तया विहितो न भजत्यन्यविलोचनो हि सः ।
समता तव यद्यपि प्रभो न च वैषम्यलवो हि कुत्रचित् ॥ ११॥
गुणतो जनता जडा हरे विषमं पश्यति नोत्यमं कदा ।
स्वमरुज्जलनाम्बुमेदिनि समवायेन शरीरमन्दिरम् ॥ १२॥
परिनिर्मितमत्र ते कला विशति प्राणपरा विशेषतः ।
सहसानुरूपं हि चेष्टते जगदेतत् खलु जीवमायया ॥ १३॥
यदि वात्र दिवानिशं मुदा रमते केवलमिन्द्रियानुगम् ।
बहुदुःखपरम्परा न तं परितः क्लेशसहं जहाति वै ॥ १४॥
मलिनत्वमुपैति कर्मणा धनदारात्मजगेहहेतुना ।
कुरुते विविधं फलेच्छया परितः संशय हेतुमीहते ॥ १५॥
अभिमानमदात्तचेतनो न च ते नाम गृणात्यहो जडः ।
न तवाङ्घ्रिसरोजसेवया हरतेस्त्वां जडतामतार्किताम् ॥ १६॥
भजतामभयं ददासि भो इति मत्वा भजने गतं मनः ।
मम देव गुरुगुहानुगं न च तद्दोषफलं भजत्यहो ॥ १७॥
अखिलानि हिनस्त्यघानि वा तव नामस्मृतिरत्र केवला ।
सकलेन्द्रियहेतुसेवनान्महदेनः क्षणतोऽपि नश्यति ॥ १८॥
अपराधिजनं बतानतं स्वहिताचारविचारविच्युतम् ।
तव भक्तमितो हि रक्ष मां नय तात मममुक्तिमुत्तमाम् ॥ १९॥
हर में भवबन्धनं पितुः न च किञ्चिदिहास्ति साधनम् ।
अमुना तव हेलना कृता गतिमिष्टां लभतां तथाप्यसौ ॥ २०॥
वसिष्ठ उवाच-
प्रह्लादेन स्तुतो देवः सन्तुष्टो भगवान् हरिः ।
भक्त्या च परमप्रीतः प्रसन्नस्थो जगाद तम् ॥ २१॥
भक्त्या वशीकृतश्चाहं त्वया दैत्यकुलोत्तम ।
तवादेयं न मेऽत्रास्ति यतो भक्तिर्गरीयसी ॥ २२॥
अयं ते निहतस्तातस्तेन मा रुषितो भव ।
एतस्यैवापराधेन निहन्तोऽयं मया न च ॥ २३॥
सायुज्यं मे गतो दैत्यस्त्वं चैवात्र स्थिरो भव ।
कुरु राज्यं महाभाग बलेरिव सुनिलम् ॥ २४॥
चिरं भुक्त्वा सुखं चात्र ततो मामाप्नुहि स्वयम् ।
इति दत्वा वरं तस्मै पुनः प्राह दयानिधिः ॥ २५॥
प्रह्लाद मे स्तुतिर्दिव्या कृताचाध्यात्मदायिनी ।
अनया मां स्तविष्यन्ति ये नराः शुभलक्षणाः ॥ २६॥
तेषामज्ञानजं शीघ्रं नाशमायाति हत्तमः ।
शुद्धा ज्ञानसमुत्पत्तिर्जायते नात्र संशयः ॥ २७॥
वसुसम्पन्नता नित्यं नित्यं भोगसुखोदयः ।
पशुपुत्रायुतं गेहं भविष्यति न चान्यथा ॥ २८॥
इत्थमाभाष्य तं भक्तं प्रह्लादं ज्ञानिनां वरम् ।
भगवान् प्रययौ चाथ नखशुद्ध्यै जगत्पतिः ॥ २९॥
कृतशौचं समुद्दिश्य तीर्थानां प्रवरं पुरा ।
पयोवहा नदी रम्या पयोष्णी पापनाशिनी ॥ ३०॥
यत्रास्ति दोषशमनी तत्रदेवो मनो दधौ ।
मध्ये मार्गे ददर्शाथ वत्सगुल्मं सुपावनम् ॥ ३१॥
क्षणं विश्राममकरोज्जलार्थी वत्सकानने ।
न दृष्ट्वा जलं देवस्तदा कुण्डं चकार सः ॥ ३२॥
तत्र स्नात्वा च पीत्वा च नारसिंहो जनार्दनः ।
कुण्डप्राच्यां स्वनाम्ना च मूर्तिं कृत्वा मनोहराम् ॥ ३३॥
स्वां कलां तत्र चावेश्य कृतशौचं ययौ जवात् ।
तदारभ्य नृसिंहाख्यं तीर्थं जातं नृपोत्तम ॥ ३४॥
तास्मि तीर्थे नरः स्नात्वा भक्त्या देवं जगद्गुरुम् ।
पश्यत् स नैव पापेन युज्यते नात्र संशयः ॥ ३५॥
मन्दवारे विशेषेण तत्कुण्डे स्नानमाचरेत् ।
दर्शनं नृहरेः कृत्वा मुक्तो भवति किल्बिषात् ॥ ३६॥
स्तुतिस्तोत्रैः पवित्रैश्च श्रुतिस्मृतिसमुद्भवैः ।
संस्तुत्य कमलाकान्तं नरो याति न दुर्गतिम् ॥ ३७॥
तदग्रे नन्दितीर्थं च पवित्रं पापनाशनम् ।
तत्र स्नानेन दानेन कोटियज्ञफलं लभेत् ॥ ३८॥
इति श्रीपद्मपुराणे वत्सगुल्ममाहात्म्ये नृसिंहतीर्थाख्यानवर्णनं नाम चतुर्दशोऽध्यायः ।
Proofread by M K Barman