श्रीशनैश्चरकृता श्रीनृसिंहस्तुतिः
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैक वत्सलः ॥ १॥
शनैश्चरस्तत्र नृसिंहदेवस्तुतिं चकारामल चित्तवृत्तिः ।
प्रणम्य साष्टाङ्गमशेषलोक किरीट नीराजित पादपद्मम् ॥ २॥
श्रीशनिरुवाच -
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मष राशिनाशम् ।
कल्याणकारकमशेशनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३॥
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्य सेवि ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४॥
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताखिल दोष सङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५॥
प्रह्लाद भक्तवचसा हरिराविरास
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
उर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६॥
यो नैजभक्तमनलां बुधि भूधरोग्र-
शृङ्गप्रपात विषदन्ति सरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७॥
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८॥
यद्रूपमुग्र परिमर्दन भावशालि
सञ्चिन्तनेन सकलाघ विनाशकारी ।
भूतज्वरग्रहसमुद्भवभीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९॥
यस्योत्तमं यश उमापति पद्मजन्म
शक्रादि दैवत सभासु समस्तगीतम् ।
शक्त्यैव सर्वशमल प्रशमैक दक्षं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १०॥
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्मवृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११॥
श्रीनृसिंह उवाच -
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोकहितावहम् ॥ १२॥
श्रीशनिरुवाच -
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३॥
मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च ।
सर्वान्कामान्पूरयेथाः तेषां त्वं लोकभावन ॥ १४॥
श्रीनृसिंह उवाच -
तथैवास्तु शनेऽहं वै रक्षोभुवनसंस्थितः ।
भक्त कामान्पूरयिष्ये त्वं ममैकं वचः शृणु ॥ १५॥
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६॥
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टाः जयेति मुनयोवदन् ॥ १७॥
श्रीकृष्ण उवाच -
इदं शनैश्चरस्याथ नृसिंहदेव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८॥
इति श्रीशनैश्चरविरचिता श्रीनृसिंहस्तुतिः समाप्ता ।
NA