नन्दकृतं श्रीकृष्णस्तोत्रम्
नन्द उवाच ।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥ २०४॥
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।
नमो ब्रह्मण्यदेवाय ब्रह्मणे परमात्मने ॥ २०५॥
अनन्तकोटिब्रह्माण्डधामधाम्ने नमोऽस्तु ते ।
नमो मत्स्यादिरूपाणां जीवरूपाय साक्षिणे ॥ २०६॥
निर्लिप्ताय निर्गुणाय निराकाराय ते नमः ।
अतिसूक्ष्मस्वरूपाय स्थूलात्स्थूलतमाय च ॥ २०७॥
सर्वेश्वराय सर्वाय तेजोरूप नमोऽस्तु ते ।
अतिप्रत्यक्षरूपाय ध्यानासाध्याय योगिनाम् ॥ २०८॥
ब्रह्मविष्णुमहेशानां वन्द्याय नित्यरूपिणे ।
धाम्ने चतुर्ण्णां वर्णानां युगेष्वेव चतुर्षु च ॥ २०९॥
शुक्लरक्तपीतश्यामाभिधानगुणशालिने ।
योगिने योगरूपाय गुरवे योगिनामपि ॥ २१०॥
सिद्धेश्वराय सिद्धाय सिद्धानां गुरवे नमः ।
यं स्तोतुमक्षमो ब्रह्मा विष्णुर्यं स्तोतुमक्षमः ॥ २११॥
यं स्तोतुमक्षमो रुद्रः शेषो यं स्तोतुमक्षमः ।
यं स्तोतुमक्षमो धर्मो यं स्तोतुमक्षमो रविः ॥ २१२॥
यं स्तोतुमक्षमो लम्बोदरश्चापि षडाननः ।
यं स्तोतुमक्षमाः सर्वे मुनयः सनकादयः ॥ २१३॥
कपिलो न क्षमः स्तोतुं सिद्धेन्द्राणां गुरोर्गुरुः ।
न शक्तौ स्तवनं कर्तुं नरनारायणावृषी ॥ २१४॥
अन्ये जडधियः के वा स्तोतुं शक्ताः परात्परम् ।
वेदा न शक्ता नो वाणी न च लक्ष्मीः सरस्वती ॥ २१५॥
न राधा स्तवने शक्ता किं स्तुवन्ति विपश्चितः ।
क्षमस्व निखिलं ब्रह्मन्नपराधं क्षणेक्षणे ॥ २१६॥
रक्ष मां करुणासिन्धो दीनबन्धो भवार्णवे ।
पुरा तीर्थे तपस्तप्त्वा पुत्रः प्राप्तः सनातनः ॥ २१७॥
स्वकीयचरणाम्भोजे भक्तिं दास्यं च देहि मे ।
ब्रह्मत्वममरत्वं वा सालोक्यादिकमेव वा ॥ २१८॥
त्वत्पदाम्भोजदास्यस्य कलां नार्हन्ति षोडशीम् ।
इन्द्रत्वं वा सुरत्वं वा सम्प्राप्तिं सिद्धिस्वर्गयोः ॥ २१९॥
राजत्वं चिरजीवित्वं सुधियो गणयन्ति किम् ।
एतद्यत्कथितं सर्वं ब्रह्मत्वादिकमीश्वर ॥ २२०॥
भक्तसङ्गक्षणार्द्धस्य नोपमा ते किमर्हति ।
त्वद्भक्तो यस्त्वत्सदृशः कस्त्वां तर्कितुमीश्वरः ॥ २२१॥
क्षणार्द्धालापमात्रेण पारं कर्तुं स चेश्वरः ।
भक्तसङ्गाद्भवत्येव भक्तिं कर्तुमनेकधा ॥ २२२॥
त्वद्भक्तजलदालापजलसेकेन वर्द्धते ।
अभक्तालापतापात्तु शुष्कतां याति तत्क्षणम् ॥ २२३॥
त्वद्गुणस्मृतिसेकाच्च वर्द्धते तत्क्षणे स्फुटम् ।
त्वद्भक्त्यङ्कुरमुद्भूतं स्फीतं मानसजं परम् ॥ २२४॥
न नश्यं वर्द्धनीयं च नित्यं नित्यं क्षणे क्षणे ।
ततः सम्प्राप्य ब्रह्मत्वं भक्तस्य जीवनाय च ॥ २२५॥
ददात्येव फलं तस्मै हरिदास्यमनुत्तमम् ।
सम्प्राप्य दुर्लभं दास्यं यदि दासो बभूव ह ॥ २२६॥
सुनिश्चयेन तेनैव जितं सर्वं भयादिकम् ।
इत्येवमुक्त्वा भक्त्या च नन्दस्तस्थौ हरेः पुरः ॥ २२७॥
प्रसन्नवदनः कृष्णो ददौ तस्मै तदीप्सितम् ।
एवं नन्दकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥ २२८॥
सुदृढां भक्तिमाप्नोति सद्यो दास्यं लभेद्धरेः ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे पूर्वे एकविंशाध्यायान्तर्गतं
नन्दकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय २१/२०४-२२८॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 21/204-228..
Proofread by PSA Easwaran