नन्दिभिल्लकृतं कृष्णनारायणस्तोत्रम्
नन्दिभिल्ल उवाच ।
नमो नमस्ते निजरक्षकाय नमो नमस्तेऽन्यविनाशकाय ।
नमो नमस्ते शिवसङ्ग्रहाय कलाधिनाथाय नमो नमस्ते ॥ ४७॥
नमो नमस्ते बहुमोहनाय नमोऽतिगर्विष्ठसुशासकाय ।
नमो हृदिस्थाय परेश्वराय चाऽनादिनारायण ते नमोऽस्तु ॥ ४८॥
नमोऽक्षरेशाय परावराय नमो नमस्तेऽखिलकारणाय ।
नमः समस्ताङ्गजतत्त्वगर्भप्रपूरकायाच्युत ते नमोऽस्तु ॥ ४९॥
नमोऽवतारिन्नवतारधर्त्रे ह्यनन्तमुक्ताऽभिनिषेविताय ।
अनादिकृष्णाय परेश्वराय नारायणायेति नमोऽस्तु तुभ्यम् ॥ ५०॥
श्रीकान्तरूपाय रमेश्वराय राधाधिनाथाय नमो नमस्ते ।
नमोऽस्तु ते श्रीपुरपालकाय भूमन्नमस्ते ललितेश्वराय ॥ ५१॥
सर्वेश्वरीशाय समस्तसर्वेश्वरेश्वरेशाय नमोऽस्तु तुभ्यम् ।
वैराजनाथाय जगन्नियन्त्रे मायेश्वरायाऽच्युत ते नमोऽस्तु ॥ ५२॥
पितृर्षिदेवर्षिशरीरकाय चराचरान्तःस्थ च ते नमोऽस्तु ।
श्रीमाणिकीपाशवतीश्चराय प्रशाधिनाथाय नमोऽस्तु तुभ्यम ॥ ५३॥
ब्रह्मप्रियावामनिवासकाय हरिप्रियाद्याभिरभिष्टुताय ।
कृतस्थली कुङ्कुमवापिकाय गोपालबालाय नमो नमस्ते ॥ ५४॥
श्रीकम्भरामातृभवाय कृष्णनारायणश्रीश च ते नमोऽस्तु ।
साधुस्वरूपाय मखात्मकाय स्वामिन्नमस्ते रणरञ्जनाय ॥ ५५॥
जन्मस्थितिभ्रंशकराय विष्णो जिष्णो नमस्ते परमेश्वराय ।
सद्भक्तलभ्याय कृपावशाय शक्ताय कालाय नमो भवाय ॥ ५६॥
रुद्राय बाणाय रथाय शास्त्रे यमाय धर्माय नमो द्विजाय ।
प्राणाय जीवाय तदात्मने तेऽन्विताय रिक्ताय नमोऽव्ययाय ॥ ५७॥
नागस्वरूपाय मदन्तकाय हृद्याय निर्वाणकराय धात्रे ।
शीघ्रं शरण्यं त्वमभिप्रपद्य नयाक्षरं मोक्षपदं हरे माम् ॥ ५८॥
कृतापराधं बहुगर्वदृब्धं परश्रियं वीक्ष्य सदा ज्वलन्तम् ।
रणे स्थितं प्राणगतिं त्यजन्तं क्षमाप्य सर्वं नय मोक्षणं ते ॥ ५९॥
सर्वज्ञ सर्वेश समस्तचक्षुः समस्तकर्णाऽत्ममनस्सु संस्थ ।
दिव्यं निजं दर्शनमत्र देहि मृतान्समस्ताँश्च समुद्धराऽत्र ॥ ६०॥
हरेऽग्निरातेन विबोधितेन मयापि गर्वादवमानितस्त्वम् ।
अतोषदावानलमध्यमाप्तं समुद्धर श्रीश विधेहि दिव्यम् ॥ ६१॥
स्वर्गं यथा वा नरकं मदर्थं यदस्ति तत्तेऽर्पितमत्र कृष्ण ।
प्रपन्नजीवं परलोकयानं नयाऽक्षरं धाम विनाश्य पापम् ॥ ६२॥
हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ।
तवास्मीति तवास्मीति मोक्षं मां नय माधव ॥ ६३॥
इत्युक्त्वा मौनमादाय कृताञ्जलिर्हृदन्तरे ।
विवेश नन्दिभिल्लो वै स्मरन् ध्यायन् प्रभुं पतिम् ॥ ६४॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
८५-अध्यायान्तर्गतं नन्दिभिल्लकृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ८५/४७-६४॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 85/47-64..
Proofread by PSA Easwaran