अप्सरोभिः कृतम् नरनारायणस्तोत्रम्
अप्सरस ऊचुः -
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।
परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १६॥
मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन् ।
त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः ॥ १७॥
द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।
स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी ॥ १८॥
सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् ।
पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९॥
ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु ।
रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि ॥ २०॥
समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः ।
क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः ॥ २१॥
मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि ।
दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु ॥ २२॥
रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्यम् ।
दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे ॥ २३॥
शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ।
बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः ॥ २४॥
पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम् ।
तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् ॥ २५॥
घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् ।
पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः ॥ २६॥
जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् ।
पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ॥ २७॥
सर्वेष्टयस्ते दशनेषु देव दंष्ट्रासु विद्या भवतश्चतस्रः
रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः ।
साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः ॥ २८॥
वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम् ।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः ॥ २९॥
अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी ।
इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ॥ ३०॥
स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।
त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ॥ ३१॥
त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रं च समस्तमूर्ते ।
त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ॥ ३२॥
प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश ।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ ३३॥
किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि ।
पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलता?मुपैति ॥ ३४॥
न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः ।
तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ॥ ३५॥
नमो नमस्ते गोविन्द नारायण जनार्दन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३६॥
ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन
वरेण्य यज्ञपुरुष प्रजापालक वामन
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३७॥
संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३८॥
नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।
स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ॥ ३९॥
उपसंहर विश्वात्मन् रूपमेतत्समन्ततः ।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ ४०॥
प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ ४१॥
न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते ।
सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ॥ ४२॥
किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।
माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ॥ ४३॥
वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः ।
गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ॥ ४४॥
तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।
छन्दतो जगतामीश तदेतदुपसंहर ॥ ४५॥
शौनक उवाच -
इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।
दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ।
विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ॥ ४६॥
इति विष्णुधर्मेषु त्र्यधिकशततमोऽध्यायान्तर्गतं अप्सरोभिः कृतं
नरनारायणस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran