नरसिंहः चतुःसप्ततिरूपः

नरसिंहः चतुःसप्ततिरूपः

प्रथमं स्वयं नृसिंहः स्याद्विधानं मोक्षसिंहकम् । विजयं नृसिंहकं चैव छत्राख्यं नरसिंहकम् ॥ १॥ दीर्घसिंहं च दृप्तानां विरूपं च नृसिंहकम् । पुर्णासिंहाब्दिसिंहः स्याल्लक्ष्मीसिंहावुभावपि ॥ २॥ विजयलक्ष्मी सिंहाख्यं योग योगेश्वरावपि । दीप्ति सिंहाब्दि सिंहः स्यात्पुष्टं भूत प्रमाधिनम् ॥ ३॥ ज्वालानृसिंह च उग्रं च घोरं च नृसिंहकम् । विदारण नृसिंहः स्यादहोबल नृसिंहकम् ॥ ४॥ स्तम्भ सिंह महासिंह पाताल नरसिंहकम् । वक्ष्यं चानन्तसिंहं च ग्रहणप्रमनावपि ॥ ५॥ आवेश नरसिंहं च अट्टहास नृसिंहकम् । नवव्यूह नृसिंहः स्याच्चक्रसिंहं दिशो दश ॥ ६॥ चण्ड सिंहारसिंहं च प्रसादं ब्रह्मसिंहकम् । विष्णुरौद्रं च मार्ताण्डं चन्द्र भैरव सिंहकम् ॥ ७॥ पृथिवि वायु सिंहं च आकाश नरसिंहकम् । ज्वलनाधारसिंहः स्यादमृतं हंसं तथैव च ॥ ८॥ आत्मसत्यं च यज्ञं स्यादन्नदानप्रभासकम् । विश्वरूपं त्रितारकं च चतुस्सप्तति विग्रहम् ॥ ९॥ इत्येवं नरसिंहं स्यादायधानं विभेदकम् । इति नरसिंहस्य चतुःसप्ततिरूपवर्णनं सम्पूर्णम् । ॐ स्वयं नृसिंहाय नमः । ॐ मोक्षसिंहाय नमः । ॐ विजयसिंहाय नमः । ॐ छत्राख्यनरसिंहाय नमः । ॐ दीर्घसिंहाय नमः । ॐ दृप्तानां विरूप नृसिंहाय नमः । ॐ पुर्णासिंहाय नमः । ॐ अब्दिसिंहाय नमः । ॐ लक्ष्मीसिंहाय नमः । ॐ आवुभावसिंहाय नमः । १० ॐ विजयलक्ष्मीसिंहाय नमः । ॐ दीप्तिसिंहाय नमः । ॐ पुष्टसिंहाय नमः । ॐ भूत प्रमाधिनसिंहाय नमः । ॐ ज्वालानृसिंहाय नमः । ॐ उग्रनृसिंहाय नमः । ॐ घोरनृसिंहाय नमः । ॐ विदारणनृसिंहाय नमः । ॐ अहोबलनृसिंहाय नमः । ॐ स्तम्भसिंहाय नमः । २० ॐ महासिंहाय नमः । ॐ पातालनरसिंहाय नमः । ॐ वक्ष्यसिंहाय नमः । ॐ अनन्तसिंहाय नमः । ॐ आवेशनरसिंहाय नमः । ॐ अट्टहासनृसिंहाय नमः । ॐ नवव्यूहनृसिंहाय नमः । ॐ चक्रसिंहाय नमः । ॐ चण्डसिंहाय नमः । ॐ अरसिंहाय नमः । ३० ॐ प्रसादसिंहाय नमः । ॐ ब्रह्मसिंहाय नमः । ॐ विष्णुरौद्रसिंहाय नमः । ॐ मार्ताण्डसिंहाय नमः । ॐ चन्द्रसिंहाय नमः । ॐ भैरवसिंहाय नमः । ॐ पृथिविसिंहाय नमः । ॐ वायुसिंहाय नमः । ॐ आकाशनरसिंहाय नमः । ॐ ज्वलनाधारसिंहाय नमः । ४० ॐ अमृतसिंहाय नमः । ॐ हंससिंहाय नमः । ॐ आत्मसत्यसिंहाय नमः । ॐ यज्ञसिंहाय नमः । ॐ अन्नदानप्रभासकसिंहाय नमः । ॐ विश्वरूपसिंहाय नमः । ॐ त्रितारकसिंहाय नमः । ४७ इति नृसिंहस्य चतुःसप्ततिरूपनामावली समाप्ता । Encoded and proofread by Divya K. Suresh
% Text title            : Narasimha Chatuhsaptati Rupa
% File name             : narasiMhaHchatuHsaptatiHrUpaH.itx
% itxtitle              : narasiMhaHchatuHsaptatiHrUpaH nAmAvalishcha
% engtitle              : narasiMhaHchatuHsaptatiHrUpaH
% Category              : vishhnu, dashAvatAra, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Divya K Suresh
% Proofread by          : Divya K Suresh
% Indexextra            : (Scan)
% Latest update         : May 22, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org