नरसिंहमङ्गलम्

नरसिंहमङ्गलम्

(मेलुकोटे गिरिनृसिंह विषयकं वर्णनम्) सद्यः सुजात नरसिंह विभो गिरिष्ठ प्रह्लादभक्तकृत् कार्तयुगप्रतिष्ठ । सेवाकुतूहलि जनैः सततं घनिष्ठ स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १॥ गोमन्तपर्वतनिवासिनि सिंहराजे सायन्दिनार्चन दिदृक्षुरयं हि लोकः । सोपानपङ्क्तिमधिरुह्य सुखं सुहृष्टः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २॥ शैलाधिरोहणपथे फलकाः शिलानां श्रीनारिकेलफलङ्घट्टन तोयचिन्हाः । स्वादूदकैः सुखसुशीतल मार्दवाद्याः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३॥ पथ्यासते सुमतमालवटप्रचम्पाः चाम्रास्तथा पनसनिम्बसुपाटलाद्याः । छायाप्रदः सुदृढभूरुहषण्डमालाः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४॥ भेतालिकादि घनभूतपिशाचविष्टाः चित्रीकृताः पथिकभक्तपदारविन्दम् । प्राप्यैव मुक्तिमहहा नियतां लभन्ते स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ५॥ वृन्दावनं तदिदमस्ति शठारिरम्यं लक्ष्मीसनाथमथवापि सवासुदेवम् । रामानुजार्य पदवी वपुषा च रम्यं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ६॥ स्तम्भाऽऽढ्यमण्टपगणा बलदाः हनूमत् साकारमूर्तय अहोऽत्र विवर्तसिंहौ । स्वादूदकं बहुशिलागहनं सरश्च स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ७॥ भट्टारकं श्रुतिविरूपममुं सुबालाः आरोहणार्थ पथ एवमहोवदन्ति । आरोहयेम बधिरादिपते गिरीन्द्रं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ८॥ हार्दां गतिं प्रियहितानिलक्लृप्तधाटीं प्राप्ता जना विततदूरस्वदृष्टिपाताः । भूगोलमेव रवलु सानुभवं भजन्ते स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ९॥ गोपाश्चरन्ति च सुचारु च चारयन्ति गायन्ति चाऽत्र सुसुखं त्वजगोगणान्स्वान् । सर्पन्ति सर्पनिवहास्त्वथ भीतिदूराः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १०॥ दूरात् समस्तजनता तव गोपुराग्रं दृष्ट्वैव शान्तमनसस्त्वथ भक्तिभाजः । तत्रैव तत्र नमनं बहुधा चरन्ति स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ११॥ कार्तीकमासि तव गोपुरदीपसेवा भक्ताग्रगण्यविहिता जनमानसं च । त्वद् दास्यदीपितमधात् तव मानसं च स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १२॥ राजागिरेरवति नः परमः पुमान् वै श्रीनारसिंहवपुरत्र रमासखो यः । तस्येदमस्ति सकलं त्विति लोकभाषा स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १३॥ सन्ध्यासुराग अथमत्र न सान्ध्यरागः हैरण्य देह हननादथ रक्तपातः । व्याप्नोति खं त्विति शठारिमुनेर्हि सूक्तिः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १४॥ नीचैर्गिरिर्वसति चाऽत्र ततोपरि त्वं गिर्याढ्यमूर्तिरहहा किमिदं तु युग्मम् । हैरण्य देहगिरिरेक अथापि च त्वं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १५॥ दूरे गिरीन्द्र शतमाक्षितिजं समन्तात् पश्यन्ति चापि च सुचारुतटाकसङ्घान् । कावेरिकादि जलभूरि सुवाहिनीस्ताः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १६॥ ब्रह्मानुभूतिरियमेव तवात्र सृष्टौ । चेतो विशालसुखभावमये लभेत । आरोग्यभाग्यमपि सिद्ध्यति नारसिंह । स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १७॥ श्रीभाष्यकार षठकोपसुरक्षितस्त्वं द्वारे महत्यहह थावुभये च पार्श्वे । वस्त्रोर्यतन्तुभिरहोऽर्चितसिंहडिम्भ स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १८॥ सोपानपङ्क्तिमिह वै नवसङ्ख्ययाऽऽढ्यां तावद्भिरेव सुफलैः शुभनारिकेलैः । आराधयन्ति जनता विविधास्त्वदीयाः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १९॥ पञ्चोत्तरत्रिशतषष्टिमितास्त्वदीयाः सोपानपङ्क्तय इमा तवनाम सौख्याः । एकप्रवत्सरकृते कतिचिज्जनानां स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २०॥ भित्तौ सुवर्णफलकाञ्चित सिंहरूप भद्रां दशाऽऽकृतिमयन् नयनाभिराम । द्वारे समाऽऽगतसमादरमातनोषि स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २१॥ वायव्यकोण इह राजितपादयुग्मं सिंवत् प्रकामकरुणं गुरुलक्ष्मणस्य । आलोकपात्रमित एव स्वपादतीर्थं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २२॥ ऊर्ध्वोर्ध्वगामि जनसन्नुतपादपद्म देहात्मरोगपरिहारि गुहासुपद्म । हैरण्यराक्षसकुवृत्तिमिमां प्रविद्म स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २३॥ सन्तापशान्तिरिति कामनया समेताः चिन्ताविमुक्तिमररे प्रभजन्त एव । प्रह्लादयस्य मितभाग्यमतो यतस्त्वं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २४॥ एकार्थमाविरसि भक्तवचश्च सत्यं कर्तुं तदेतदिदमद्भुतरूपमाऽऽधाः । क्षीरं यया सुघटितं शुभशर्कराऽऽढ्यं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २५॥ माध्यान्हिको विधिरयं किमुयोगसिंह प्रायो भवान् प्रतिदिनं नियताभिषेकः । दूरात् स्वभक्तजनताऽऽग्रहयोग एषः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २६॥ संक्षीरशुद्धदधिपूतघृताभिषेच्य श्रीखण्डशर्करसुतीर्थसुगन्ध लेप्य । हारिद्रचूर्ण परिपूर्ण सुखाङ्गवेद्य स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २७॥ कल्याणतीर्थ सुखमज्जनमर्जितोऽसि त्वत्सूक्तिपाठमुखरीकृतभूधरोऽसि । पञ्चास्य केसरसटाबहुभूषितोऽसि स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २८॥ नित्याभिषेक बहुवेषकुतूहलार्ह बालादिकान् स्वपदसेवनमाननार्ह । म्लेञ्च्छादिराजसहजार्पित भूषणार्ह स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २९॥ अक्ष्णा विकूणित सुवृत्तशुभेक्षणोऽसि दंष्ट्रासु सुन्दर मुखोऽसि घनप्रशान्त । हस्ताङ्गुलीनख सुपादनखप्रकाश स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३०॥ भालप्रदेशविलसत्तिलकोऽसि देव श्मश्रुप्रभाचकितवीर्यरसोऽसि देव । कर्णाग्रलोलकचलन्मधुरोऽसि देव स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३१॥ मध्यप्रदेश सुविराजितनागपट्ट हस्तद्वयेन सुविधारित योगपट्ट । पादद्वयेन सुविलोमसुखार्ह पट्ट स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३२॥ वृत्ताभिराममुकुटाञ्चित दिव्यमूर्धन् पार्श्वे सुपुच्छ सुखसुन्दर सन्निवेशिन् । ऊर्ध्वाग्र तत् कनकरत्नकिरीटधारिन् स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३३॥ मार्जारकाकपिकमूषकपोतकानां आधारभूत नरसिंह सुखाद्रिदेश । अस्मादृशानपि च पालय सर्वबन्धो स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३४॥ निर्वीर्य निष्फलङ्कलङ्ककुकार्यमन्दां अर्थैकधावननिजश्रमदूरगन्धाम् । विद्यां विदारय विभोऽशुभबालकन्दां स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३५॥ योगानृसिंह तवगर्जन सख्यमेति साहस्त्रनामपठनं श्रुतिरम्यमेव । ``टिप्पू'' समर्पित सुभेरिकयाऽऽप्तनादं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३६॥ घण्टानिनादशुभसूचितं भोगकाल लुण्ठाकतां हरसि सर्वजने सलील । सर्वं समर्पितमहो कुरुषे सुलील स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३७॥ भोज्याऽऽसनेन रहिते परमेहि धाम्नि घण्टारवं कथमये श्रुणुषे प्रभो त्वम् । चिञ्चान्नमीदृशमपीह न तत्र लभ्यं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३८॥ घण्टावतारगुरुघोषणसंस्मृतिः सा घण्टानिनादत अहो मनसि प्रबुद्धा । घण्टारवेण सदसत्प्रियभीषणेहा स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३९॥ चित्रान्नगन्ध सुरभीकृत पाणिपात्राः मुद्गान्नदध्यशन शर्करपावनान्नाः । धन्या भवन्ति मुहुरेव समस्तभक्ताः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४०॥ सूपप्रधान कटुकाऽऽम्लरसार्कमन्नं ते श्रीफलादि चणनिर्मित वेसवारम् । भुक्त्वा कदापि घनपायपेयतुष्टाः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४१॥ देवस्य पादतलतस्त्वधरप्रदेशे स्वर्ग्य बिलं विलसतीह सुखात्सुखार्हम् । एकत्र यत्र पृथुदेहि सुकष्टरम्यं स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४२॥ सर्वेऽपि सात्विकतरा मनसीव देहे सर्वैऽपि पूरितसुखास्तव दर्शनेन । सर्वैऽपि भावितरसास्त्वरोहनिष्ठाः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४३॥ मन्त्रेषु सिद्धपुरुषाय इह त्वदीयाः तापत्रयाऽऽतुरजनांश्च विमोचयन्ति । यन्त्राऽऽदिना तवहि वत्सलता वरेण्य स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४४॥ नित्यं द्विवारमथवाऽपि बहुप्रवारं रोहन्ति तीर्थमपि काष्ठचयं च हव्यम् । शीर्षे वहन्ति तुलसीं तव सर्वमेव स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४५॥ तस्मात् खलूत्तम सुखार्ह सुनिद्रितास्ते गेहे भवन्ति पुरुषाः शिशवश्च नार्यः । त्वच्छाययाश्रितमुखादिसमस्वरूपाः स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४६॥ पञ्चापिपाण्डवसुताह्यवसन्त यत्र ध्यानादि सत्कृतिनिकेतन सौम्य देशान् । तां चाभजन्त घनसान्द्रगुहां तमिस्त्रां स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४७॥ सोपानपार्श्वगत भूरुह आलपन्तः बालाश्च सञ्चितसुमास्तव देवदारोः । स्वीयान् गृहानुपरितः किल निर्दिशति स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४८॥ पूर्णं प्रमण्डलममुं शुभमण्डनं ते यो वै तु मण्डलदिनं परमार्थभक्त्या । जप्ता सुपाठकृदत्र परत्र तं च स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४९॥ इति तिरुनारायणपुरं अरैयरदासस्य कृतिषु नृहरिमङ्गलं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Narasimhamangalam
% File name             : narasiMhamangalam.itx
% itxtitle              : narasiMhamaNgalam (melukoTe girinRisiMhaviShayakam)
% engtitle              : narasiMhamangalam
% Category              : vishhnu, dashAvatAra, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : araiyaradAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org