नरसिंहमङ्गलम्
(मेलुकोटे गिरिनृसिंह विषयकं वर्णनम्)
सद्यः सुजात नरसिंह विभो गिरिष्ठ
प्रह्लादभक्तकृत् कार्तयुगप्रतिष्ठ ।
सेवाकुतूहलि जनैः सततं घनिष्ठ
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १॥
गोमन्तपर्वतनिवासिनि सिंहराजे
सायन्दिनार्चन दिदृक्षुरयं हि लोकः ।
सोपानपङ्क्तिमधिरुह्य सुखं सुहृष्टः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २॥
शैलाधिरोहणपथे फलकाः शिलानां
श्रीनारिकेलफलङ्घट्टन तोयचिन्हाः ।
स्वादूदकैः सुखसुशीतल मार्दवाद्याः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३॥
पथ्यासते सुमतमालवटप्रचम्पाः
चाम्रास्तथा पनसनिम्बसुपाटलाद्याः ।
छायाप्रदः सुदृढभूरुहषण्डमालाः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४॥
भेतालिकादि घनभूतपिशाचविष्टाः
चित्रीकृताः पथिकभक्तपदारविन्दम् ।
प्राप्यैव मुक्तिमहहा नियतां लभन्ते
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ५॥
वृन्दावनं तदिदमस्ति शठारिरम्यं
लक्ष्मीसनाथमथवापि सवासुदेवम् ।
रामानुजार्य पदवी वपुषा च रम्यं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ६॥
स्तम्भाऽऽढ्यमण्टपगणा बलदाः हनूमत्
साकारमूर्तय अहोऽत्र विवर्तसिंहौ ।
स्वादूदकं बहुशिलागहनं सरश्च
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ७॥
भट्टारकं श्रुतिविरूपममुं सुबालाः
आरोहणार्थ पथ एवमहोवदन्ति ।
आरोहयेम बधिरादिपते गिरीन्द्रं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ८॥
हार्दां गतिं प्रियहितानिलक्लृप्तधाटीं
प्राप्ता जना विततदूरस्वदृष्टिपाताः ।
भूगोलमेव रवलु सानुभवं भजन्ते
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ९॥
गोपाश्चरन्ति च सुचारु च चारयन्ति
गायन्ति चाऽत्र सुसुखं त्वजगोगणान्स्वान् ।
सर्पन्ति सर्पनिवहास्त्वथ भीतिदूराः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १०॥
दूरात् समस्तजनता तव गोपुराग्रं
दृष्ट्वैव शान्तमनसस्त्वथ भक्तिभाजः ।
तत्रैव तत्र नमनं बहुधा चरन्ति
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ११॥
कार्तीकमासि तव गोपुरदीपसेवा
भक्ताग्रगण्यविहिता जनमानसं च ।
त्वद् दास्यदीपितमधात् तव मानसं च
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १२॥
राजागिरेरवति नः परमः पुमान् वै
श्रीनारसिंहवपुरत्र रमासखो यः ।
तस्येदमस्ति सकलं त्विति लोकभाषा
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १३॥
सन्ध्यासुराग अथमत्र न सान्ध्यरागः
हैरण्य देह हननादथ रक्तपातः ।
व्याप्नोति खं त्विति शठारिमुनेर्हि सूक्तिः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १४॥
नीचैर्गिरिर्वसति चाऽत्र ततोपरि त्वं
गिर्याढ्यमूर्तिरहहा किमिदं तु युग्मम् ।
हैरण्य देहगिरिरेक अथापि च त्वं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १५॥
दूरे गिरीन्द्र शतमाक्षितिजं समन्तात्
पश्यन्ति चापि च सुचारुतटाकसङ्घान् ।
कावेरिकादि जलभूरि सुवाहिनीस्ताः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १६॥
ब्रह्मानुभूतिरियमेव तवात्र सृष्टौ ।
चेतो विशालसुखभावमये लभेत ।
आरोग्यभाग्यमपि सिद्ध्यति नारसिंह ।
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १७॥
श्रीभाष्यकार षठकोपसुरक्षितस्त्वं
द्वारे महत्यहह थावुभये च पार्श्वे ।
वस्त्रोर्यतन्तुभिरहोऽर्चितसिंहडिम्भ
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १८॥
सोपानपङ्क्तिमिह वै नवसङ्ख्ययाऽऽढ्यां
तावद्भिरेव सुफलैः शुभनारिकेलैः ।
आराधयन्ति जनता विविधास्त्वदीयाः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ १९॥
पञ्चोत्तरत्रिशतषष्टिमितास्त्वदीयाः
सोपानपङ्क्तय इमा तवनाम सौख्याः ।
एकप्रवत्सरकृते कतिचिज्जनानां
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २०॥
भित्तौ सुवर्णफलकाञ्चित सिंहरूप
भद्रां दशाऽऽकृतिमयन् नयनाभिराम ।
द्वारे समाऽऽगतसमादरमातनोषि
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २१॥
वायव्यकोण इह राजितपादयुग्मं
सिंवत् प्रकामकरुणं गुरुलक्ष्मणस्य ।
आलोकपात्रमित एव स्वपादतीर्थं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २२॥
ऊर्ध्वोर्ध्वगामि जनसन्नुतपादपद्म
देहात्मरोगपरिहारि गुहासुपद्म ।
हैरण्यराक्षसकुवृत्तिमिमां प्रविद्म
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २३॥
सन्तापशान्तिरिति कामनया समेताः
चिन्ताविमुक्तिमररे प्रभजन्त एव ।
प्रह्लादयस्य मितभाग्यमतो यतस्त्वं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २४॥
एकार्थमाविरसि भक्तवचश्च सत्यं
कर्तुं तदेतदिदमद्भुतरूपमाऽऽधाः ।
क्षीरं यया सुघटितं शुभशर्कराऽऽढ्यं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २५॥
माध्यान्हिको विधिरयं किमुयोगसिंह
प्रायो भवान् प्रतिदिनं नियताभिषेकः ।
दूरात् स्वभक्तजनताऽऽग्रहयोग एषः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २६॥
संक्षीरशुद्धदधिपूतघृताभिषेच्य
श्रीखण्डशर्करसुतीर्थसुगन्ध लेप्य ।
हारिद्रचूर्ण परिपूर्ण सुखाङ्गवेद्य
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २७॥
कल्याणतीर्थ सुखमज्जनमर्जितोऽसि
त्वत्सूक्तिपाठमुखरीकृतभूधरोऽसि ।
पञ्चास्य केसरसटाबहुभूषितोऽसि
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २८॥
नित्याभिषेक बहुवेषकुतूहलार्ह
बालादिकान् स्वपदसेवनमाननार्ह ।
म्लेञ्च्छादिराजसहजार्पित भूषणार्ह
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ २९॥
अक्ष्णा विकूणित सुवृत्तशुभेक्षणोऽसि
दंष्ट्रासु सुन्दर मुखोऽसि घनप्रशान्त ।
हस्ताङ्गुलीनख सुपादनखप्रकाश
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३०॥
भालप्रदेशविलसत्तिलकोऽसि देव
श्मश्रुप्रभाचकितवीर्यरसोऽसि देव ।
कर्णाग्रलोलकचलन्मधुरोऽसि देव
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३१॥
मध्यप्रदेश सुविराजितनागपट्ट
हस्तद्वयेन सुविधारित योगपट्ट ।
पादद्वयेन सुविलोमसुखार्ह पट्ट
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३२॥
वृत्ताभिराममुकुटाञ्चित दिव्यमूर्धन्
पार्श्वे सुपुच्छ सुखसुन्दर सन्निवेशिन् ।
ऊर्ध्वाग्र तत् कनकरत्नकिरीटधारिन्
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३३॥
मार्जारकाकपिकमूषकपोतकानां
आधारभूत नरसिंह सुखाद्रिदेश ।
अस्मादृशानपि च पालय सर्वबन्धो
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३४॥
निर्वीर्य निष्फलङ्कलङ्ककुकार्यमन्दां
अर्थैकधावननिजश्रमदूरगन्धाम् ।
विद्यां विदारय विभोऽशुभबालकन्दां
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३५॥
योगानृसिंह तवगर्जन सख्यमेति
साहस्त्रनामपठनं श्रुतिरम्यमेव ।
``टिप्पू'' समर्पित सुभेरिकयाऽऽप्तनादं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३६॥
घण्टानिनादशुभसूचितं भोगकाल
लुण्ठाकतां हरसि सर्वजने सलील ।
सर्वं समर्पितमहो कुरुषे सुलील
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३७॥
भोज्याऽऽसनेन रहिते परमेहि धाम्नि
घण्टारवं कथमये श्रुणुषे प्रभो त्वम् ।
चिञ्चान्नमीदृशमपीह न तत्र लभ्यं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३८॥
घण्टावतारगुरुघोषणसंस्मृतिः सा
घण्टानिनादत अहो मनसि प्रबुद्धा ।
घण्टारवेण सदसत्प्रियभीषणेहा
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ३९॥
चित्रान्नगन्ध सुरभीकृत पाणिपात्राः
मुद्गान्नदध्यशन शर्करपावनान्नाः ।
धन्या भवन्ति मुहुरेव समस्तभक्ताः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४०॥
सूपप्रधान कटुकाऽऽम्लरसार्कमन्नं
ते श्रीफलादि चणनिर्मित वेसवारम् ।
भुक्त्वा कदापि घनपायपेयतुष्टाः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४१॥
देवस्य पादतलतस्त्वधरप्रदेशे
स्वर्ग्य बिलं विलसतीह सुखात्सुखार्हम् ।
एकत्र यत्र पृथुदेहि सुकष्टरम्यं
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४२॥
सर्वेऽपि सात्विकतरा मनसीव देहे
सर्वैऽपि पूरितसुखास्तव दर्शनेन ।
सर्वैऽपि भावितरसास्त्वरोहनिष्ठाः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४३॥
मन्त्रेषु सिद्धपुरुषाय इह त्वदीयाः
तापत्रयाऽऽतुरजनांश्च विमोचयन्ति ।
यन्त्राऽऽदिना तवहि वत्सलता वरेण्य
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४४॥
नित्यं द्विवारमथवाऽपि बहुप्रवारं
रोहन्ति तीर्थमपि काष्ठचयं च हव्यम् ।
शीर्षे वहन्ति तुलसीं तव सर्वमेव
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४५॥
तस्मात् खलूत्तम सुखार्ह सुनिद्रितास्ते
गेहे भवन्ति पुरुषाः शिशवश्च नार्यः ।
त्वच्छाययाश्रितमुखादिसमस्वरूपाः
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४६॥
पञ्चापिपाण्डवसुताह्यवसन्त यत्र
ध्यानादि सत्कृतिनिकेतन सौम्य देशान् ।
तां चाभजन्त घनसान्द्रगुहां तमिस्त्रां
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४७॥
सोपानपार्श्वगत भूरुह आलपन्तः
बालाश्च सञ्चितसुमास्तव देवदारोः ।
स्वीयान् गृहानुपरितः किल निर्दिशति
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४८॥
पूर्णं प्रमण्डलममुं शुभमण्डनं ते
यो वै तु मण्डलदिनं परमार्थभक्त्या ।
जप्ता सुपाठकृदत्र परत्र तं च
स्वामिन् प्रसीद नृहरे यदुशैलनाथ ॥ ४९॥
इति तिरुनारायणपुरं अरैयरदासस्य कृतिषु नृहरिमङ्गलं सम्पूर्णम् ।
Proofread by M K Barman