निकामदेवाख्यद्विजकृतं बालकृष्णस्तोत्रम्
एवंविधं तु मां ध्यायन् पूज्य सन्मान्य मानद ।
अवाप्स्यसि ध्रुवं तात शाश्वतं मेऽक्षरं पदम् ॥ ४८॥
इत्येवं बोधितो विप्रो निकामदेव आदृतः ।
महाहर्षं समापन्नः सामोवाच तु निर्भयम् ॥ ४९॥
नृत्यन् गायन् हसन् देहं कूर्दयन् चेष्टयन् मुहुः ।
उवाचाऽऽवेशयोगेन निर्भयं साम गायनम् ॥ ५०॥
``बालकृष्णं प्रपन्नोऽस्मि किं मे कालः करिष्यति ।
अक्षरेशं परमेशं ब्रह्मेशं पुरुषोत्तमम् ॥ ५१॥
शङ्खचक्रगदापद्मधारिणं परमेश्वरम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५२॥
अनादिश्रीकृष्णनारायणं श्रीपतिमच्युतम् ।
गोपालजं प्रपन्नोऽस्मि किं मे माया करिष्यति ॥ ५३॥
सर्वावतारिणं सर्वशक्तिसेवितमाधवम् ।
काम्भरेयं प्रपन्नोऽस्मि किं मे पापं करिष्यति ॥ ५४॥
कुङ्कुमवापिकातीर्थं लोमशस्य शुभाश्रमम् ।
अश्वसरः प्रपन्नोऽस्मि किं मे कर्म करिष्यति ॥ ५५॥
भगवन्तं सर्वधाम्नां नारायणनरायणम् ।
राधाकान्तं प्रपन्नोऽस्मि किं मे तृष्णा करिष्यति ॥ ५६॥
मायातारं कृष्णनारायणं श्रीमाधवीपतिम् ।
माणिकीशं प्रपन्नोऽस्मि किं मे कामः करिष्यति ॥ ५७॥
सर्वान्तर्यामिणं साक्षाद्बालयोगिनीस्वामिनम् ।
परमेशं प्रपन्नोऽस्मि किं मे भ्रान्तिः करिष्यति ॥ ५८॥
अक्षरेशं च मुक्तेशं मुक्तानिकापतिं हरिम् ।
ब्रह्मप्रियेशं प्राप्तोऽस्मि किं मे सम्पत् करिष्यति ॥ ५९॥
ईश्वरेशं चेश्वराणीपतिं हरिप्रियापतिम् ।
प्रभुम्पतिं प्रपन्नोऽस्मि कि मे तमः करिष्यति ॥ ६०॥
पद्मावतीस्वामिनं च जडचेतनवर्तिनम् ।
लक्ष्मीनाथं प्रपन्नोऽस्मि किं वासना करिष्यति ॥ ६१॥
एकरूपं बहुरूपं विश्वरूपं तु बालकम् ।
सतां पतिं प्रपन्नोऽस्मि किं मे बन्धः करिष्यति'' ॥ ६६॥
``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' ।
नमोऽक्षरनिवासाय नमो गोलोकवासिने ॥ ६३॥
नमो वैकुण्ठनाथाय नमः श्रीपुरवासिने ।
नमो ललिताकान्ताय सर्वकान्ताय ते नमः ॥ ६४॥
बालयोगिनीकान्ताय बद्रीकान्ताय ते नमः ।
निकामदेवनाथाय वासुदेवाय ते नमः ॥ ६५॥
नमोऽमृतनिवासाय नमोऽव्याकृतवासिने ।
नमः कैलासवासाय हिरण्यगर्भवासिने ॥ ६६॥
नमः सिद्धाधिवासाय नमः सुरादिवासिने ।
नमः पितृनिवासाय नमो मानवरूपिणे ॥ ६७॥
नमः सर्वनिवासाय नमो मदात्मवासिने ।
सुरेश्वरीहृदिस्थाय नमोऽनन्तस्वरूपिणे ॥ ६८॥
नमो देहेन्द्रियप्राणान्तरात्मवासिने सदा ।
नमस्ते परमानन्द नमस्ते ज्ञानसम्भृत ॥ ६९॥
नमस्ते ज्ञानविज्ञानप्रद श्रीपुरुषोत्तम ।
नमस्ते विश्वकृद्विष्णो नमस्ते सर्वकारण ॥ ७०॥
नमस्ते गोपगोपीश नमः सर्वार्थसाधक ।
नमस्तेऽनुग्रहदातर्नमस्ते मोक्षद प्रभो ॥ ७१॥
जय कृष्ण जय विष्णो ममाऽभयद माधव ।
जय शान्त चिदानन्द सच्चिदानन्द केशव ॥ ७२॥
जय जीव जयद त्वं जय साक्षाज्जनार्दन ।
जय शास्त्रादिसन्न्यस्तबीजगर्भाद्युपासन ॥ ७३॥
त्वं गुरुस्त्वं पिता भ्राता सुहृद्बन्धुः प्रसूर्मम ।
त्वं मोक्षस्त्वं परानन्दस्त्वं मे सर्वस्वमच्युत ॥ ७४॥
त्वमुद्धर्ता च पाता च नेता त्वं विरतिर्भवान् ।
जगत् सर्वं तव रूपरूपितं सम्प्रकाशते ॥ ७५॥
त्वं परब्रह्म भगवन् देवाद्यैस्तु दुरासदः ।
मया त्वासादितश्चाऽत्र बालयोगिनीवैभवात् ॥ ७६॥
कस्त्वां जानाति चात्मेश मुक्तगम्यं परात्परम् ।
सनातनपुमांसं तं पुराणपुरुषोत्तमम् ॥ ७७॥
परं रूपमजान्तो दिवौकसो महर्षयः ।
अवतारमयीमूर्तीस्ते भजन्ति सुगोचराः ॥ ७८॥
अवतारा भजन्ते त्वां पुमांसमवतारिणम् ।
नारायणा असङ्ख्यास्त्वां भजन्ते परमायणम् ॥ ७९॥
नारायण्यश्च मुक्तान्यस्त्वां भजन्ते परं पतिम् ।
सन्तो मुक्तास्त्वां भजन्ते सर्वावस्थासु सत्पतिम् ॥ ८०॥
तवाऽज्ञानेन भगवन् मानुषादिनिसर्गतः ।
क्षन्तुमर्हसि सर्वं मे यत्कृतं न कृतं तव ॥ ८१॥
सर्वावस्थासु सर्वत्र सर्वकालेषु सर्वथा ।
अचला तु हरे भक्तिस्तेंऽघ्रियुगेऽस्तु मे प्रभो ॥ ८२॥
प्रीतिस्त्वय्येव सततं भवत्वात्यन्तिकी मम ।
सर्वकामफलदातस्त्वयि भक्तिर्दृढास्तु मे ॥ ८३॥
स्तोत्रं कर्तुमनन्तस्य कः शक्नोति तु मानवः ।
तथापि व्यापृतं वाक्यं क्षमस्व नाथ ते नमः ॥ ८४॥
पुरुषोत्तमयोगेन निर्भयत्वं प्रजायते ।
तव योगेन पुरुषः पुरुषोत्तमतां व्रजेत् ॥ ८५॥
अधन्यो जायते धन्यस्त्वसाधुः साधुतां व्रजेत् ।
अभाग्यो भाग्यवान् स्याच्च ते स्तवात् पुरुषोत्तम ॥ ८६॥
अपि लोकबहिष्कार्या यदि ते शरणं गताः ।
साधुशीला हि ते सर्वे जायन्ते पङ्क्तिपावनाः ॥ ८७॥
येषां सर्वाधिपे कृष्णे भक्तिरव्यभिचारिणी ।
अपि चाण्डालकर्माणस्तेऽपि विप्रोत्तमोत्तमाः ॥ ८८॥
अपि शौचसमाचाराः कृष्णे ते सङ्गवर्जिताः ।
श्मशानवासास्ते सर्वे सर्वकिल्बिषसम्भृताः ॥ ८९॥
तव ध्यानपरा ये च तव पूजापरायणाः ।
तव प्रसादभोक्तारस्ते सदा विघसाशिनः ॥ ९०॥
आराध्य सततं त्वां श्रीहरिं सर्वसुखप्रदम् ।
प्राप्य त्वां परमात्मानमेष्टव्यं नावशिष्यते ॥ ९१॥
साधुभिश्चिन्त्यते यश्च साध्वीभिः काम्यते तु यः ।
पीयते योगमापन्नैर्यः स कृष्णोऽस्तु मे हृदि ॥ ९२॥
भावपुष्पैः पूजयामि श्रद्धाञ्जलिप्रदोऽस्मि च ।
आत्मानं दक्षिणां कृत्वाऽर्पयामि ते परेश्वर ॥ ९३॥
यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् ।
निर्गतं कर्मसंयुक्तं दत्तं तासां बलप्रदम् ॥ ९४॥
तथा त्वं हृदयस्थोऽपि मानवानां बलाय न ।
त्वमेव निर्गतः साक्षाद्भूतो बलाय विद्यसे ॥ ९५॥
विनाऽऽराधनया कृष्ण त्वं कृपावशगो मम ।
प्रत्यक्षं मानवं रूपं दृष्टं नारायणाच्युत ॥ ९६॥
सदैव सेवितं चापि दिव्यं रूपं प्रदर्शय ।
यद्यहं पात्रमस्म्यत्र कृपापात्रं भवामि चेत् ॥ ९७॥
विप्रत्वं मे गतं चापि त्वय्येव तत्समर्पितम् ।
मुक्तत्वं वर्तते मे चेत् सर्वांशे तव भक्तिमान् ॥ ९८॥
एवं श्रीबदरीदेवि प्रार्थितः परमेश्वरः ।
कृपयैव भूसुराय दिव्यं रूपमदर्शयत् ॥ ९९॥
अक्षरस्थं चाऽवतारैरसङ्ख्यैराप्रपूरितम् ।
मुक्तैर्मुक्तानिकाभिश्च सेवितं कमलादिभिः ॥ १००॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
२६-अध्यायान्तर्गतं निकामदेवाख्यद्विजकृतं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय २६/४८-१००॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 26/48-100..
Proofread by PSA Easwaran