निकामदेवाख्यद्विजकृतं बालकृष्णस्तोत्रम्

निकामदेवाख्यद्विजकृतं बालकृष्णस्तोत्रम्

एवंविधं तु मां ध्यायन् पूज्य सन्मान्य मानद । अवाप्स्यसि ध्रुवं तात शाश्वतं मेऽक्षरं पदम् ॥ ४८॥ इत्येवं बोधितो विप्रो निकामदेव आदृतः । महाहर्षं समापन्नः सामोवाच तु निर्भयम् ॥ ४९॥ नृत्यन् गायन् हसन् देहं कूर्दयन् चेष्टयन् मुहुः । उवाचाऽऽवेशयोगेन निर्भयं साम गायनम् ॥ ५०॥ ``बालकृष्णं प्रपन्नोऽस्मि किं मे कालः करिष्यति । अक्षरेशं परमेशं ब्रह्मेशं पुरुषोत्तमम् ॥ ५१॥ शङ्खचक्रगदापद्मधारिणं परमेश्वरम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५२॥ अनादिश्रीकृष्णनारायणं श्रीपतिमच्युतम् । गोपालजं प्रपन्नोऽस्मि किं मे माया करिष्यति ॥ ५३॥ सर्वावतारिणं सर्वशक्तिसेवितमाधवम् । काम्भरेयं प्रपन्नोऽस्मि किं मे पापं करिष्यति ॥ ५४॥ कुङ्कुमवापिकातीर्थं लोमशस्य शुभाश्रमम् । अश्वसरः प्रपन्नोऽस्मि किं मे कर्म करिष्यति ॥ ५५॥ भगवन्तं सर्वधाम्नां नारायणनरायणम् । राधाकान्तं प्रपन्नोऽस्मि किं मे तृष्णा करिष्यति ॥ ५६॥ मायातारं कृष्णनारायणं श्रीमाधवीपतिम् । माणिकीशं प्रपन्नोऽस्मि किं मे कामः करिष्यति ॥ ५७॥ सर्वान्तर्यामिणं साक्षाद्बालयोगिनीस्वामिनम् । परमेशं प्रपन्नोऽस्मि किं मे भ्रान्तिः करिष्यति ॥ ५८॥ अक्षरेशं च मुक्तेशं मुक्तानिकापतिं हरिम् । ब्रह्मप्रियेशं प्राप्तोऽस्मि किं मे सम्पत् करिष्यति ॥ ५९॥ ईश्वरेशं चेश्वराणीपतिं हरिप्रियापतिम् । प्रभुम्पतिं प्रपन्नोऽस्मि कि मे तमः करिष्यति ॥ ६०॥ पद्मावतीस्वामिनं च जडचेतनवर्तिनम् । लक्ष्मीनाथं प्रपन्नोऽस्मि किं वासना करिष्यति ॥ ६१॥ एकरूपं बहुरूपं विश्वरूपं तु बालकम् । सतां पतिं प्रपन्नोऽस्मि किं मे बन्धः करिष्यति'' ॥ ६६॥ ``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' । नमोऽक्षरनिवासाय नमो गोलोकवासिने ॥ ६३॥ नमो वैकुण्ठनाथाय नमः श्रीपुरवासिने । नमो ललिताकान्ताय सर्वकान्ताय ते नमः ॥ ६४॥ बालयोगिनीकान्ताय बद्रीकान्ताय ते नमः । निकामदेवनाथाय वासुदेवाय ते नमः ॥ ६५॥ नमोऽमृतनिवासाय नमोऽव्याकृतवासिने । नमः कैलासवासाय हिरण्यगर्भवासिने ॥ ६६॥ नमः सिद्धाधिवासाय नमः सुरादिवासिने । नमः पितृनिवासाय नमो मानवरूपिणे ॥ ६७॥ नमः सर्वनिवासाय नमो मदात्मवासिने । सुरेश्वरीहृदिस्थाय नमोऽनन्तस्वरूपिणे ॥ ६८॥ नमो देहेन्द्रियप्राणान्तरात्मवासिने सदा । नमस्ते परमानन्द नमस्ते ज्ञानसम्भृत ॥ ६९॥ नमस्ते ज्ञानविज्ञानप्रद श्रीपुरुषोत्तम । नमस्ते विश्वकृद्विष्णो नमस्ते सर्वकारण ॥ ७०॥ नमस्ते गोपगोपीश नमः सर्वार्थसाधक । नमस्तेऽनुग्रहदातर्नमस्ते मोक्षद प्रभो ॥ ७१॥ जय कृष्ण जय विष्णो ममाऽभयद माधव । जय शान्त चिदानन्द सच्चिदानन्द केशव ॥ ७२॥ जय जीव जयद त्वं जय साक्षाज्जनार्दन । जय शास्त्रादिसन्न्यस्तबीजगर्भाद्युपासन ॥ ७३॥ त्वं गुरुस्त्वं पिता भ्राता सुहृद्बन्धुः प्रसूर्मम । त्वं मोक्षस्त्वं परानन्दस्त्वं मे सर्वस्वमच्युत ॥ ७४॥ त्वमुद्धर्ता च पाता च नेता त्वं विरतिर्भवान् । जगत् सर्वं तव रूपरूपितं सम्प्रकाशते ॥ ७५॥ त्वं परब्रह्म भगवन् देवाद्यैस्तु दुरासदः । मया त्वासादितश्चाऽत्र बालयोगिनीवैभवात् ॥ ७६॥ कस्त्वां जानाति चात्मेश मुक्तगम्यं परात्परम् । सनातनपुमांसं तं पुराणपुरुषोत्तमम् ॥ ७७॥ परं रूपमजान्तो दिवौकसो महर्षयः । अवतारमयीमूर्तीस्ते भजन्ति सुगोचराः ॥ ७८॥ अवतारा भजन्ते त्वां पुमांसमवतारिणम् । नारायणा असङ्ख्यास्त्वां भजन्ते परमायणम् ॥ ७९॥ नारायण्यश्च मुक्तान्यस्त्वां भजन्ते परं पतिम् । सन्तो मुक्तास्त्वां भजन्ते सर्वावस्थासु सत्पतिम् ॥ ८०॥ तवाऽज्ञानेन भगवन् मानुषादिनिसर्गतः । क्षन्तुमर्हसि सर्वं मे यत्कृतं न कृतं तव ॥ ८१॥ सर्वावस्थासु सर्वत्र सर्वकालेषु सर्वथा । अचला तु हरे भक्तिस्तेंऽघ्रियुगेऽस्तु मे प्रभो ॥ ८२॥ प्रीतिस्त्वय्येव सततं भवत्वात्यन्तिकी मम । सर्वकामफलदातस्त्वयि भक्तिर्दृढास्तु मे ॥ ८३॥ स्तोत्रं कर्तुमनन्तस्य कः शक्नोति तु मानवः । तथापि व्यापृतं वाक्यं क्षमस्व नाथ ते नमः ॥ ८४॥ पुरुषोत्तमयोगेन निर्भयत्वं प्रजायते । तव योगेन पुरुषः पुरुषोत्तमतां व्रजेत् ॥ ८५॥ अधन्यो जायते धन्यस्त्वसाधुः साधुतां व्रजेत् । अभाग्यो भाग्यवान् स्याच्च ते स्तवात् पुरुषोत्तम ॥ ८६॥ अपि लोकबहिष्कार्या यदि ते शरणं गताः । साधुशीला हि ते सर्वे जायन्ते पङ्क्तिपावनाः ॥ ८७॥ येषां सर्वाधिपे कृष्णे भक्तिरव्यभिचारिणी । अपि चाण्डालकर्माणस्तेऽपि विप्रोत्तमोत्तमाः ॥ ८८॥ अपि शौचसमाचाराः कृष्णे ते सङ्गवर्जिताः । श्मशानवासास्ते सर्वे सर्वकिल्बिषसम्भृताः ॥ ८९॥ तव ध्यानपरा ये च तव पूजापरायणाः । तव प्रसादभोक्तारस्ते सदा विघसाशिनः ॥ ९०॥ आराध्य सततं त्वां श्रीहरिं सर्वसुखप्रदम् । प्राप्य त्वां परमात्मानमेष्टव्यं नावशिष्यते ॥ ९१॥ साधुभिश्चिन्त्यते यश्च साध्वीभिः काम्यते तु यः । पीयते योगमापन्नैर्यः स कृष्णोऽस्तु मे हृदि ॥ ९२॥ भावपुष्पैः पूजयामि श्रद्धाञ्जलिप्रदोऽस्मि च । आत्मानं दक्षिणां कृत्वाऽर्पयामि ते परेश्वर ॥ ९३॥ यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् । निर्गतं कर्मसंयुक्तं दत्तं तासां बलप्रदम् ॥ ९४॥ तथा त्वं हृदयस्थोऽपि मानवानां बलाय न । त्वमेव निर्गतः साक्षाद्भूतो बलाय विद्यसे ॥ ९५॥ विनाऽऽराधनया कृष्ण त्वं कृपावशगो मम । प्रत्यक्षं मानवं रूपं दृष्टं नारायणाच्युत ॥ ९६॥ सदैव सेवितं चापि दिव्यं रूपं प्रदर्शय । यद्यहं पात्रमस्म्यत्र कृपापात्रं भवामि चेत् ॥ ९७॥ विप्रत्वं मे गतं चापि त्वय्येव तत्समर्पितम् । मुक्तत्वं वर्तते मे चेत् सर्वांशे तव भक्तिमान् ॥ ९८॥ एवं श्रीबदरीदेवि प्रार्थितः परमेश्वरः । कृपयैव भूसुराय दिव्यं रूपमदर्शयत् ॥ ९९॥ अक्षरस्थं चाऽवतारैरसङ्ख्यैराप्रपूरितम् । मुक्तैर्मुक्तानिकाभिश्च सेवितं कमलादिभिः ॥ १००॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे २६-अध्यायान्तर्गतं निकामदेवाख्यद्विजकृतं बालकृष्णस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय २६/४८-१००॥ lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 26/48-100.. Proofread by PSA Easwaran
% Text title            : Nikamadevakhyadvijakritam Balakrishna Stotram
% File name             : nikAmadevAkhyadvijakRRitaMbAlakRRiShNastotram.itx
% itxtitle              : bAlakRiShNastotram (nikAmadevAkhyadvijakRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : nikAmadevAkhyadvijakRRitaM bAlakRRiShNastotram
% Category              : vishhnu, vishnu, krishna, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 4 | adhyAya 26/48-100||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : May 15, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org