श्रीनित्यानन्दस्वामिकृता श्रीहरिस्तुतिः
(उपजातिः)
आनन्दधामैकमनन्तमाद्यं मुनीन्द्रदेवेन्द्रसमर्च्यरूपम् ।
अणोरणीयांसमहो दयालुं श्रीस्वामिनारायणमानमामि ॥ १॥
हरिं घनश्याममनादिनाथं श्रीवर्णिराजप्रभुनीलकण्ठम् ।
वृषप्रियं भक्तिसुतं मुनीशं श्रीस्वामिनारायणमानमामि ॥ २॥
आनन्दरूपं समभावसंस्थं पापौघनाशं सुमनोऽभिरामम् ।
निजाश्रितव्याधिहरं कृपालुं श्रीस्वामिनारायणमानमामि ॥ ३॥
विद्योतमानं सुजटाकलापैर्विभासमानं तुलसीसुहारैः ।
सदूर्ध्वपुण्ड्रेण चकासमानं श्रीस्वामिनारायणमानमामि ॥ ४॥
यदक्षरं वेदपुराणदिष्टं गीतासुगीतं प्रथितं यदास्ते ।
तदक्षरे धामनि राजमानं श्रीस्वामिनारायणमानमामि ॥ ५॥
असारसंसारसमुद्रसेतुं पीयूषवर्षं विविधस्वरूपम् ।
आदित्यवर्णं तमसो विदूरं श्रीस्वामिनारायणमानमामि ॥ ६॥
यन्मूर्तिरूपं परमं चकास्ति तद्वर्जितं किञ्चिदपीह नास्ति ।
अयमर्घ्यं प्रभुवर्यमीशं श्रीस्वामिनारायणमानमामि ॥ ७॥
यच्छासनाद् विश्वमिदं सुतन्त्रं यद्दर्शनात् सर्वमिदं सुभव्यम् ।
तं सच्चिदानन्दमयम्परेशं श्रीस्वामिनारायणमानमामि ॥ ८॥
यद्धामकोट्यर्कविधुप्रकाशं यद्वर्णनं वाङ्मनसातिदूरम् ।
तत्रावतारी प्रभुरस्ति योऽद्धा श्रीस्वामिनारायणमानमामि ॥ ९॥
गृह्णात्यसौ दातुमहो प्रभूतं करोत्यसौ कर्म जनान् प्रपातुम् ।
यस्त्रायते घौरकलेः प्रभावाच्-श्रीस्वामिनारायणमानमामि ॥ १०॥
यदङ्घ्रिसङ्गाद् हृदये विशालः संवित्प्रकाशो मुदमातनोति ।
ध्यायन्ति नित्यं च यमक्षराद्याः श्रीस्वामिनारायणमानमामि ॥ ११॥
यदाश्रिताः संसृतिपाशमुक्तास्तदक्षरं धाम परं व्रजन्ति ।
अनादिमुक्तस्थितिमाप्नुवन्ति श्रीस्वामिनारायणमानमामि ॥ १२॥
इति श्री स्वामिनारायणबापाचरित्रामृतसागरे तृतीयप्रवाहे
त्रयस्त्रिंशत्तमे तरङ्गे नित्यानन्दस्वामिकृता श्रीहरिस्तुतिः सम्पूर्णा ।