श्रीपार्थसारथिस्तवः
श्रियै नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमन्नृसिंहवरद श्रीरङ्गेशरघोत्तमैः
मूर्तिभेदैश्शुभैस्सस्व्य जयत्यर्जुनसारधिः
आवियुर् श्रीनिवसचार्यविरचितः
श्रीपार्थसारथिस्तवः
प्रपन्नसञ्जीवनं
यतीन्दुगुणचन्द्रिका च
प्रथमो भागः ।
श्रीः ।
श्यामाभं द्विभुजं किरीटरुचिरं शङ्खारिराजत्करं
राजीवायतलोचनं विकसिताम्भोजोपरिस्थायिनम् ।
श्रीवत्साङ्कितवक्षसं परिलसद्राकेन्दुबिम्बाननं
ध्यायामो हृदि वासुदेवमितरैः पूर्णैर्गुणैरञ्चितम् ॥
पद्मस्थामवकुञ्च्य दक्षिणपदं संस्थाप्य वामं पदं
श्यामाभां वरदायिदक्षिणकरां विस्तार्य बाह्वन्तराम् ।
रत्नाभां दधतीं प्रसूनविलसत्फालोर्द्ध्वभागां हृदि
ध्यायामो घनपीवरस्तनभरां भूषोज्ज्वलां रुक्मिणीम् ॥
श्रियै नमः ।
श्रीरुक्मिणिसमेतपार्थसारथिपरब्रह्मणे नमः ।
श्रीमत्कैरविणी क्षेत्रा कल्पकं कल्पकं नृणाम् ।
रुक्मिणीलतिकाश्लिष्टं पार्थसारथिमाश्रये ॥ १ ॥
आचार्यस्सर्वशेषी स यस्मात्तस्माद्धृतात्मनाम् ।
अन्यत्र न पतेदेव मत्कृतानति सन्ततिः ॥ २ ॥
यत्तदुक्तमविज्ञातं श्रुतिभिः प्रतिभावताम् ।
अज्ञत्वादेव संप्राप्ते वेत्तृत्वं वक्तृता च मे ॥ ३ ॥
अधिकारोऽत्र नोवेति कल्पना न हरिस्तुतौ ।
पश्यन्तु साधु विबुधाः तावत्कालफलानयम् ॥ ४॥
अथवा कुरु काधीश पदपद्ममधुद्रवैः ।
निर्धूततापवंशोत्थः नार्हामि न हरिस्तुतौ ॥ ५ ॥
यद्वा रमानृहरिकारिजदृष्टितीर्ण-
मायाप्रवाहविभवो ममताविहीनः ।
अत्यन्तशेषमतिरात्मपतीक्षणेन
स्तोत्राय सत्कुलपतेर्यतते जनोऽयम् ॥ ६ ॥
यदि वा पञ्चषाश्श्लोकाः आरब्धाः परमाणवः ।
आह्वये तार्किकान् साधून् अणुकारणवादिनः ॥ ७ ॥
यद्वा श्रीपतिसङ्कल्पविश्वहेतुत्ववादिनः ।
आश्रये निगमान्तार्यान्(१) ज्ञानवत्ख्यापितात्मकान् ॥ ८॥ var (१) त्रय्यन्तवृद्धान् ॥
अहो नु विश्वपतिना स्वतन्त्रेणाऽस्वतन्त्रधीः ।
प्रवेशितोऽस्मि सुदृढं गुणरत्नाकरे निजे ॥ ९ ॥
यद्वत्खे मरुतः सुरासुरगणाः कान्ताः सुराणां स्त्रियः
ज्योतिश्चक्रमथाण्डजाश्च शशभृत्सूर्यस्तदन्ये ग्रहाः ।
अन्ये सत्यपरायणा मुनिगणा ये चापि दिव्यर्षयः
ते चिन्तां न च यन्ति यान्ति च पुनर्यावत्फलाविष्कृति ॥ १०॥
यद्वा सदार्यपरिवीक्षणलब्धहृद्य
ज्ञानप्रदीपविलसद्धृदयावकाशः ।
राजाधिराजयदुराट्-चरितामृताब्धि-
रत्नानि तानि कलयामि यथा स्वशक्ति ॥ ११ ॥
तमोहन्ता कृष्णः गगनचरतेजोविलसितः
निरुन्धन् द्रष्टॄणां नयनपथनिम्नोऽन्ततयियम् ।
मनुष्यानन्यान्वा निजनिजपदस्थांश्च कलयन्
कथं तद्धर्म्मासौ जलधिसुतया भाति सकशः ॥ १२ ॥
फेनैः पुष्पैस्सुकलितमहावीचिभिः
दोर्भिरुच्चैर्लक्ष्मीस्थानायितसुहृदयो ।
वारांराशिः किमेषः सत्त्वस्तोमानजहद var वारिराशिः
मलाङ्गोह्ययं वाथ कृष्णः श्वासोद्भेदा
हतसुररिपुः चित्रधामैकराशिः ॥ १३ ॥
कल्पस्तोमः प्रसूनैरसुसुपरिमळैर्भुषणैर्भुषितो वा
शाखालक्षोपजुष्टो द्विजवरनिवहैरात्तगानैर्गरिष्ठः ।
सूर्येन्दुभ्याममुक्तः स्वपदनतिमतां छायया तापहारी
हन्तायं लोकनाथः नतभवहरणाभीतिमुद्राविलासः ॥ १४ ॥
किं वा विष्णुपदस्थमेघनिवहः विद्युच्छ्रिया भूषितः
सन्तप्ताखिलतापहृन्निजगुणो दृष्टस्सदैवोन्मुखैः ।
अद्धा दिक्षुविदिक्षु कीर्त्तिकलितः दोषैरजुष्टस्स्वतः
यद्वेदं सुदिनं यदीक्षणदिनं कृष्णश्श्रिया मोदते ॥ १५ ॥
बहुळपदसुजुष्टः छन्दसां वाथराशिः
निखिलजनपवित्रात्मीयशब्दप्रचारः ।
बहुमुखभुजशखाकल्पिताशेषभोगो-
ऽनवरतकलितश्री श्रीसखः पार्थसूतः ॥ १६ ॥
सुराणामास्थानं विविधचिदचिद्वृन्दनिलयः
सदा गीतानन्दप्रकटितमहात्मीयविभवः ।
सदाऽऽगत्याश्लिष्टः सकलजनरक्षामतिपदं
सुमेरुर्वा यद्वा हरिरखिलनिर्म्माणनिपुणः ॥ १७ ॥
रथ इव कलिताक्षो योजितात्मीयचक्रः
रिपुदमनपरात्मा दिव्यगन्धर्वजुष्टः ।
स्वकलितबहुशक्तिः दूरदृष्टस्वकेतुः
सकलनयनदृष्टः किं रमेशः स्वतन्त्रः ॥ १८ ॥
सुरभिरिव सुराणां स्थानभूताङ्गयष्टिः
सकलमुनिगणेज्या होमरक्षाप्रधानः ।
सुकलित बहुधर्म्मैरेव दृष्टस्वरूपः
स च यदुकुलनाथः स्त्रीसमाजाद्विशिष्टः ॥ १९ ॥
रत्नाकरो जलधिवत्सुविशालमूर्त्तिः
स्त्रीरत्नजन्मनिलयो निलयो गुणानाम् ।
मुक्ताप्रवाळविलसत्परभागजुष्टः
लक्ष्मीपतित्वविभवेन विशेषितोऽसौ ॥ २० ॥
आनन्दाख्यविमानतल्लजरुचा नित्यं समुद्भासिते
क्षेत्रे कैरविणीपदेऽतिविलसद्दिव्यालयेऽन्तर्गृहे ।
उद्यद्दक्षिणवृत्तबाहुविलसच्चङ्खारवामोदिता
शेषप्राणिचयस्तदन्यभुजसन्निर्दिष्टपादाम्बुजः ॥ २१ ॥
श्रीमान्वेङ्कटकृष्णनामयदुराड्-भक्तान् निजैकाश्रयान्
कुर्वन् सोदरपुत्रमित्रसहितान् सुभ्रातृपुत्रैस्सह ।
श्रीतोण्डादिमभूभृते शुचिधिये सर्न्दशयन् स्वां तनुं
श्रीवैखानसभक्तमुद्खमुनिवर्यात्रिप्रतिष्ठापितः ॥ २२॥
द्वाभ्यामेव न तेभ्य एष यदुराडिष्टैहिकामुष्मिका-
भिख्यार्थं प्रददत्स्मिताननविधुर्दोर्भ्यामतीवोज्ज्वलः ।
श्रीमद्रामसुसात्यकिप्रगुणवत्प्रद्युम्नपुत्रोत्तम-
स्वारातिप्रचयानिरुद्धदयितैर्विद्योतते सङ्गतः ॥ २३ ॥
श्रीमन्नृसिंहवरदश्रीरङ्गेशरघूत्तमैः ।
मूर्त्तिभेदैश्शुभैस्स्वस्य जयत्यर्जुनसारथिः ॥ २४ ॥
सिद्धं जगद्धेतुतया भवन्तं रमापतिं वेदशतैस्सुतर्कैः ।
सर्वज्ञसाम्राज्यपदेऽभिषिक्तं जानन्ति सन्तो बहुशक्तिमन्तम् ॥ २५ ॥
कारुण्याविष्टचित्तः कमलसमदृशा विश्वलक्ष्म्या समानः
तत्तत्कर्मानुरूपप्रकृतविरहितक्लेशविश्वप्रचारः ।
तत्तत्तत्त्वान्तरात्माप्यकलिततनुभृत्कृत्यतत्कार्यसङ्ग-
श्चामोक्षं क्लृप्ततन्त्रः परिणतिसमयेऽपेक्षिते मोक्षदायी ॥ २६ ॥
श्रीवैकुण्ठावस्थितो वासुदेवः
श्रीभूनीळाभिश्च शेषासनस्थः ।
शेषश्वासह्रासवृद्ध्यानुगुण्यात्
पात्रं विश्वं भङ्गसृष्ट्योः करोषि ॥ २७ ॥
वक्त्रप्रभापरिणतिस्तवदिव्यदेहः
देहोचिताननरुचिर्नु चिराय शङ्का ।
स्मेरं मुखं प्रणतकर्षकमन्यदङ्गं
यत्तच्च तत्समगुणं वद पार्थसूत ॥ २८ ॥
पादाम्बुजातकलितौ मणिनूपुरौ ते
मञ्जुप्रणादमुखरौ मकरध्वजस्य ।
शिष्यप्रशिष्यविषये नियमेन साङ्ग-
शृङ्गारनर्मनिगमं परितो ब्रुवाते ॥ २९ ॥
महामेरुर्दर्पात्पदकमलभावं हृदि लगन्
अहो नु स्वर्णाङ्गः निजहृदयमप्राप्य बहुशः ।
पदाम्भोजापीठायितकमलगात्रो रविरुचिः
स्फुरत्पद्मे मौळौ वहति पदपद्मं श्रितसुखम् ॥ ३० ॥
परागपरमाणवो यदि पतन्त्यमी वेधसः
इतीव किल भीतधीस्सुरपदाचलः पद्मतः ।
स्वरूपमथ कल्पयन् तव नु विश्वमातुः कृपा
धराधर सुपांसुळं पदयुगं वहन्मूर्द्धनि ३१
त्वत्पादाब्जे ध्वजपविमहाशङ्खचक्रदिरेखाः
दृष्टास्सन्तीत्यनघवचसो ये स्तुवन् पादपद्मम् ।
तद्द्रष्टारौ कमलनयनस्वर्णपाथोजपीठं
साक्षाद्ब्रह्मा दनुजविजये क्लृप्तपादाभिषेकः ॥ ३२ ॥
त्वद्दिव्यलावण्यनिधिस्वरूपं कल्याणसंवाहिदृशां जनानाम् ।
सर्वानुकूलं जलधिर्निरीक्ष्य निन्दत्यहो घोषमिषात्स्वदेहम् ॥ ३३ ॥
तव चरणगतं यत्कर्क्कशत्वं मृदुत्वं
युगपदुदयभावात्सङ्गतं लब्धसख्यम् ।
वनभुवि शकटारौ वार्द्धिकन्याकराब्जे
मुनियुवतिदृषत्व चेदने च प्रदृष्टे ॥ ३४ ॥
त्वत्सङ्कल्पादधिकशकनं तावकाङ्गं च तत्त-
त्त्वत्तोऽप्युच्चैरखिलविदितं नोच्यते पक्षपातात् ।
ऊरोर्जातासुरजनमनःकर्षणी चोर्वशी सा
पदाम्भोजस्फुरितरजसः पाददृग्धर्मपत्नी ॥ ३५ ॥
पदसरसिजवैभवं हि शक्यं न खलु बुधैर्निगमैस्त्वयापि वक्तुम् ।
सरसिजगृहया करेणवा यत्तव वदनेऽर्पितरस्यताप्रभावम् ॥ ३६ ॥
शेषभोगशयनान्मृदुळं किं भाग्यशालिवटपत्रमनर्घम् ।
यत्र क्लृप्तशयनोऽर्भकवृत्त्या कल्पसेऽस्य जगतोंऽकुरणाय ॥ ३७ ॥
निर्मितेष्वथ जगत्सु च सर्वेषूच्चनीचपरिकर्बुरितेषु ।
अन्तरात्मविधयाखिलतत्त्वेष्वद्भुताकृतिरमूनि बिभर्षि ॥ ३८ ॥
एकरूपमिव या प्रकृतिर्वा सा विवर्त्तमुपलभ्य दृशा ते ।
नामरूपकलितं च यथार्हं भूजलेन्द्रियगतीश्च बिभर्ति ॥ ३९ ॥
व्यूहत्रयं व्यूहचतुष्टयं वा किञ्चिन्निमित्तेन करोषि रूपम् ।
रूपान्तरं वार्जुनसूत हृद्यं यद्विश्वरूपं कुरुपर्षदात्तम् ॥ ४० ॥
विशाले लोकेऽस्मिन्विविधफलजुष्टे नृनिवहे
यदीच्छावैगुण्यात्प्रभवति मिथो हिंस्रविधया ।
तदा तत्रैकस्सन् तदुचितसुखाद्याश्रितमतिः
स्वतस्नेहाधिक्याद्व्रणगणविरोपाय भवसि ॥ ४१ ॥
प्रकल्प्य जगदीक्षणं तदनु विश्वसंरक्षणं यथा-
विधि ततो लयस्तदनु जीवसञ्जीवनम् ।
स्वतो निजधिया क्वचित्क्वच परात्मसंवेशनं
ततोऽन्यविधया क्वचिद्बहु तनोषि नर्मश्रिया ॥ ४२ ॥
सर्वज्ञभावाद्दयया विसृष्टे जीवात्मवृन्देऽप्यधिकारभाजि ।
ज्ञात्वाऽऽर्तिहारिप्रमुखप्रवृत्तिं त्वां स्वं स्वतन्त्रं मनुते हि कश्चित् ॥ ४३ ॥
अनुदयास्तमयोऽमृतसागरादमृतदीधितिरेष मुखाभिधः ।
अनलसेशसुरेशमुखोद्भवप्रभुरथो परिलुप्ततमः कथम् ॥ ४४ ॥
मुखमयपरिपूर्णचन्द्रबिम्बे ग्रहणरुची तव केतुसैंहिकेयौ ।
असितरुचिभरभ्रुवोर्मिषेण प्रधितधियः किल शङ्कयेति मग्नाः ॥ ४५ ॥
उभयविभूतियोगसमयोचितरत्नमहो
ऽङ्कुरलळितेन्द्ररत्ननिलयो निलयो नृदृशाम् ।
जलनिधिकन्यकाकरधृताम्बुरुहद्वितये
नवनवहासकृत्तव किरीटपतीरविरुक् ॥ ४६ ॥
कुण्डलं मुखमण्डनं श्रुतिलम्बितं मणिकल्पितं
श्रीमदंससुसङ्गतं निजभाविधूततमोगणम् ।
नित्यमुक्तसभागतार्थिगणार्थपूरणनिस्तुलं
नेह नास्ति च नास्ति चेति समत्ववादिनृघोषितम् ॥ ४७ ॥
स्वातन्त्र्यधैर्यार्जववत्सलत्वपूर्णत्वशूरत्वसमत्वमुख्यान् ।
संसूचयत्यात्मगुणान् बुधानां त्वज्जानुलग्नायत वृत्तबाहुः ॥ ४८ ॥
प्रच्छायबाहुशाखानां पल्लवोंऽगुळयः किल ।
अर्थिवाय्वनुगावैरिकमलामर्मकर्त्तनाः ॥ ४९ ॥
कमलोदरसोदरपाणितलं विनताभयसत्रकथाकुतुकम् ।
सगरात्मजपुण्यनदीप्रभवं कपटाकृतिसूतमहं कलये ॥ ५० ॥
विषयाग्निशिखापरितप्तनृणां
विमलामृतसागरकर्मगुणम् ।
शिखिवाहन तत्पितृवन्द्यपदं
कपटाकृतिसूतमहं कलये ॥ ५१ ॥
द्रोणसुतशस्त्रपरितप्ततनुरक्षा-
कल्पकधियं सुजनकल्पकमिहस्थम् ।
देवपतिनन्दनजपारियुतजाता
कर्षकधियं कलुषहारिगुणमीडे ॥ ५२ ॥
क्रीडितेन सुखप्रदं परिपीडितासुरनायकं
पालितामरनायकं परिपिडितासुरराक्षसम् ।
वारिराशिसुतायुतं बलवैरिरत्नगिरित्विषं
वामनोन्नतधीविहीनमथाश्रये नरसारधिम् ॥ ५३ ॥
करकलितकशं गजेन्द्रवश्यं
बलरिपुसोदरभावदत्तचित्तम् ।
मृदितरिपुगणं शितैश्च शस्त्रैः
अनुसवनं हृदये स्मरामि सूतम् ॥ ५४ ॥
अनुगतचिदचिन्नियन्तृभावं
स्मृतिगतसर्वजनावनाख्यसत्रम् ।
विपिनसुमसृजा विभूषितांसं
श्रुतिशतनिर्जितसद्गुणं भजेऽहम् ॥ ५५ ॥
जलनिधितनयाकृतात्मदेह-
श्रमहरवन्दनमालिकेति सद्भिः ।
अनुकलकृतशङ्कया तमीडे
कलितरुचा वनमालया प्रहृष्टम् ॥ ५६ ॥
मुखकान्तिवारिनिधिसङ्गताविमौ
शफराविति स्तिमितदृक्सरोजया ।
रमया विशालकृपया सदेक्षिते
नयने स्मरामि मम तापनुत्तये ॥ ५७ ॥
कलितोर्द्ध्वपुण्ड्रतिलकं मृगीमदैः
स्मयमानचन्द्रवदनं जितश्रमम् ।
कमलाक्षिपातसुभगं रसावहं
तपनीयवस्त्रधरमाश्रये सदा ॥ ५८ ॥
अळिकुलदळनार्हकुन्तळाढ्यं
विमलदृशामळिकाक्षरप्रणाशम् ।
अळिकवचनदूरसत्कटाक्षादृत-
विबुधं प्रणमामि पार्थसूतम् ॥ ५९ ॥
मुखकान्तिनाम्नि जलधौ सुखावहे
स्मितमौक्तिकाधरसुविद्रुमं नवम् ।
वरनासिकाव्रततिनाळभास्वर-
द्विकपद्मधीकरदृशं श्रये हरेः ॥ ६० ॥
उदराण्डजातगणनार्पिता अथो
रदना अतीव धवळाश्शुभावहाः ।
रुचिरप्रभाविजितकुड्मलश्रियः
स्मृतिसङ्गता नरसखस्य मे श्रियै ॥ ६१ ॥
पद्मामुखेन्दुकृतसङ्गवळर्क्षभावौ
तद्भावसङ्गविशदीकृतसुन्दराङ्गौ ।
पार्श्वस्थद्रष्टृजनदृष्टनिजात्मबिम्बौ
वन्दे हरेस्तुलितशैलतटौ कपोलौ ॥ ६२ ॥
उदारकृतवीक्षणं विनतशोकनिर्वापणं
विदर्भतनयाञ्चितं विविधतापसंशोषणम् ।
विशालधवळप्रभाश्रयवशाच्च निघ्नं नृणां
पृथासुतरथाश्रयप्रभुनिरीक्षणं प्रार्थये ॥ ६३ ॥
यत्पातलेशात्किल कौरवाणां
वृन्दं कथाशेषितमेव दृष्टम् ।
किमत्र चित्रं मम जन्महेतु
मर्मद्रुतं नश्यति तत्प्रपातात् ॥ ६४ ॥
अहो जनानां व्यसनाभिमुख्यं
तद्दृष्टिपातादतिवर्तमानाः ।
आब्रह्मसृष्टेरनुवर्तमान-
संसारकूपे यदमी पतन्ति ॥ ६५ ॥
यदा पार्त्थसूत प्रभातारुणाब्ज
प्रभातुल्यदृग्लेशधूतात्मतापः ।
अभूवं प्रभातप्रभः काळरात्रिः
कथं मां तु कुर्याद्भवाख्या क्षितीन्दो ॥ ६६ ॥
हरिनयनसुधाप्रवाहपूतः
स्मितमयचन्द्रिकयास्य धूततापः ।
तदनघ महिमाऽऽत्मदृग्जितोऽहं
हृदि कलये किमु भीतिमात्मनाथ ॥ ६७ ॥
करकलितकशे सशङ्खचक्रे
जलधिसुता विलसद्भुजान्तराळे ।
त्वयि विलसति सर्वदे सुन्दरं ते
ननु रचिताञ्जलिरन्यतः कुतस्स्याम् ॥ ६८ ॥
जलनिधितनयादोर्वल्लिपुष्पौघशङ्का
प्रसृमररुचिरेखा कङ्कणोल्लासिकण्ठः ।
मृगमदकलुषोऽयं लोककालुष्यहन्ता
कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ ६९ ॥
उदारभुजलोचनं सकलरक्षणे लोलुपं
श्रिया च निजशोभया गलितसुन्दराङ्गं हरिम् ।
प्रकृष्टवनमालया जलधिसाररत्नश्रिया
सुकर्बुरितविग्रहं नरसखं हृदा संश्रये ॥ ७० ॥
पारिजातमिव नन्दनश्रियं
नन्दगोपमिव गोविशोभितम् ।
देवराजमिव वज्रसङ्गतं
पार्थसारथिमुपाश्रये हरिम् ॥ ७१ ॥
चिदचिदवनदीक्षं चेतना पद्मिनीनां
सदयविनतवीक्षं विस्मिताशेषदृष्टम् ।
जलधितुलितदेहं जानुलग्नात्मबाहुं
नररथनिलयं त्वां वीक्ष्य हृष्टो भवामि ॥ ७२ ॥
काशसुमकाशतनुमात्मपतिमीशा-
वास्यमुखवेदशिखरेडितगुणाब्धिम् ।
अब्धितनयानयननिघ्ननिजविश्वा-
धीश्वरनियन्त्रणधियं हरिमुपासे ॥ ७३ ॥
सम्भाषमाणमिव जङ्गमपारिजातं
स्मेरायुधप्रसवजालविभूषिताङ्गम् ।
नित्यं श्रिया वसुधया च निषेव्यमाणं
श्रीपार्थसारथितनुं मनवै मुकुन्दम् ॥ ७४ ॥
आचार्यैरेव मुक्तो मयि च कृतदयैः सास्त्रदीपैकदोर्भिः
योऽयं देवोऽखिलेशः जलनिधिसुतया सार्द्धमाविष्कृतात्मा ।
तत्पादाम्भोजयुग्मं कलय शरणमित्यत्र मा गा विषादं
कुर्वाणस्सत्यमेतत्त्वहमुपकलिता शेषकार्यप्रहृष्टः ॥ ७५ ॥
अष्ठवर्णरथारूढं प्रथमाक्षरबोधितम् ।
तृतीयो वा गतोऽस्म्यद्धा तच्छेषत्वं स्वतस्थितम् ॥ ७६ ॥
तान्तोऽहं मानमुत्सृज्य धारकं पोषकं श्रिया ।
भोग्यं त्वदात्मसुगुरुद्ध्यानपूर्वं स्मराम्यहम् ॥ ७७ ॥
सर्वावस्था सलक्ष्मीकपार्थसूतदृशेक्षितः ।
निर्भयस्सर्वभावेन शरणं यामि तादृशम् ॥ ७८ ॥
तप्तस्वर्णसवर्णपार्थरथगं वीक्षाभिवृद्धाखिलं
लोकाधीश्वरकाङ्क्षितात्मवचनं वाचो विदूराध्वगम् ।
गोपालावळिकीर्त्त्यमानविपदुत्तारादिवृत्तामृतं
भिष्मादिस्तुतिहृष्टमानसममुं सम्भावये मानसे ॥ ७९ ॥
कलिकल्कभग्नकविमानसाम्बुज-
स्पृहणीयकान्तिभर एष भास्करः ।
जयति प्रसिद्धविभवस्त्रयीगणे-
ष्वथ पुण्डरीकनयनस्सतां गतिः ॥ ८० ॥
पिता च माता च शरीरदाता
पोष्टा गुरुर्ज्ञानसुधाप्रदाता ।
स्त्रीप्रायमज्जीवनरोत्तमैक-
संयोजिता पार्थरथप्रणेता ॥ ८१ ॥
शङ्खचक्रलळितो भुजदण्डः
भीतिहृन्नतदृशां द्युसदां वा ।
शत्रुवारिनिधिमन्थनजन्मा-
राति पद्मनिलया सुखसक्तः ॥ ८२ ॥
पार्थवृन्दपरिदर्शितसारं
सारभूतवचनं निगमानाम् ।
भाग्यसारमिव साधुजनानां
आश्रये प्रणयसूचितभावम् ॥ ८३ ॥
सौन्दर्यसारमिव दर्पविहीनमग्र्यं
चक्षुष्मतां हृदयकर्षकमात्ततोत्रम् ।
वैरप्रसक्तिरहिताखिलभोगभोग्यं
आत्मेश्वरं हृदयतापहरं स्मरामि ॥ ८४ ॥
भूभाग्यलब्धसुखजङ्गमपारिजातं
स्मेरप्रसूनसुभगं फलभूतरूपम् ।
शाखोपशाखपरिजुष्टमिवात्मदोर्भिः
प्रच्छायतापशमनं नरसूतमीडे ॥ ८५ ॥
वात्सल्यवरान्निधिरद्भुतोऽसौ
दोर्भिस्तरङ्गैरभितः प्रजुष्टः ।
लक्ष्मीसमेतः कमनीयरूपः
कान्ताळकः कम्बुगळोऽस्तु भूत्यै ॥ ८६ ॥
विशालहृदयोदयोल्लसितभावलक्ष्म्योज्ज्वलः
द्विषत्कुलविमर्दनोचितसभूषदोर्म्मण्डलः ।
विनापि विनतिं बुधे सुकलितात्मभावः प्रभुः
ममाहितविमर्दने भवतु दीप्तपञ्चायुधः ॥ ८७ ॥
सिन्दूररूषितमिवोन्नतहस्तिमल्लं
मल्लेशदन्तपतनार्हकरप्रहारम् ।
हारावळिप्रकृतदोर्युगमद्ध्यशोभं
रत्नत्विषावलितमात्मपतिं नमामि ॥ ८८ ॥
मुखभवकलितप्रकर्षवेद-
प्रकटितवैभवयज्ञपूजितात्मा ।
विधिहयमखक्लृप्त सद्वपाळि-
प्रकृतकशाधरबन्धुरोऽस्तु मह्यम् ॥ ८९॥
दर्शय दर्शय चारुमुखं ते पाटय पाटय पापमपारम् ।
नन्दय नन्दय पादनतं मां केशव केशव कारणसूत ॥ ९० ॥
सुन्दरकरिकरपीवरसक्थिः मन्दरगिरिरिव जङ्गमयुक्तः ।
नाभिजपद्मजकल्पितविश्वं पालय पालय कारणसूत ॥ ९१ ॥
पाहि पाहि भवपीडितविश्वं कोमळाङ्ग कुसुमैर्वनजातैः ।
विश्वरक्षणसुदीर्घमखेस्थं पद्मया विलसिताननमीडे ॥ ९२ ॥
यदुनाथ मुदब्धीन्दो त्वदङ्गममृतश्च्युति ।
ममातिमुग्धहृदयमितश्चेतश्च कर्षति ॥ ९३ ॥
स्वकान्त्या निर्दोषं निरुदयविबाधञ्च सुसुखं
प्रकुर्वन् विश्वं त्वं विमललळिताम्भोजनयन ।
सुधासारस्तोमप्रकलनमहामेघलळितः
विना क्षोणीसङ्गं विनतहृदये वर्षसि सुधाम् ॥ ९४ ॥
अहो ममेदं हृदयं विमुग्धं
नादेन जुष्टं जलधिं च पश्यन् ।
इतस्तव स्तावकबोद्ध्यमानं
समङ्गळद्ध्वानमवैति नाथम् ॥ ९५ ॥
लावण्यवापी तव देहकान्तिः
नर्म्मोचिता सागरसम्भवायाः ।
नाभिस्थिताम्भोरुहयोगरम्या
वेलाप्युदारा भुजदण्डरूपा ॥ ९६ ॥
त्वदुदरनिलयं किलाण्डजातं
विबुधगणा अवलोकयन्ति नूनम् ।
यदि तव हि तनुस्स्वयम्प्रकाशा
परिणतमेव हि सत्त्वचित्तभाग्यैः ॥ ९७ ॥
पदनखपरिमृष्टचन्द्ररेखा
सुहृदयगा वृजिने तमोगुणेऽस्मिन् ।
कलितबहुलया ततोऽपुनर्जं
बहुविलसत्यपुनर्भवाय मह्यम् ॥ ९८ ॥
त्वत्पादाम्बुजरेखया परिणतः छत्रारविन्दद्ध्वजै-
र्युक्तः केतुरकैतवाऽवनधियं संसूचयत्यद्भुतः ।
यद्धत्ते मनुजोऽस्य कैतवधिया नम्रे स्वमूर्ध्नि स्वयं
सप्राप्तः परमप्रसादमसुरप्रद्वेषि विष्णोः शुभम् ॥ ९९ ॥
सस्नेहं नयनं प्रवाळसुभगः यश्चाधरः श्रीपतेः
कण्ठश्श्रीकरकङ्कणाङ्कलळितः भावः प्रसादोज्ज्वलः ।
वृत्तास्ते च भुजाः पुरन्दरतरोश्शाखोज्ज्वलाः प्रांशवः
तन्मद्ध्ये सदये क्षणा हरिसखी सर्वं जगन्मङ्गळम् ॥ १०० ॥
शिखिपिञ्चवेल्लितसुगन्धिकुन्तळं
कमलायताक्षमपमृत्युनाशकम् ।
अमृतद्रवश्च्युतिकटाक्षवीक्षणं
हरिमाश्रये विजयसारधिं प्रभुम् ॥ १०१ ॥
स्फुरदिन्द्रनीलसुभगत्विषं हरिं
युवतीकटाक्षविशिखावमर्दितम् ।
प्रभुताश्रयोचितविशाललोचनं
कमलाकटाक्षहततत्त्वसम्प्लवम् ॥ १०२ ॥
प्लवगर्षभानुगुणशीलसागरं
श्रितरासमण्डलधियं स्मिताननम् ।
भुजगेन्द्रमूर्ध्नि कृतपादमद्भुतं
भवसागरप्लवपदाम्बुजं श्रये ॥ १०३ ॥
भज हृदयसुन्दराङ्गं यदुपतिभावं गतं स्वसौशिल्यात् ।
व्रजयुवति नेत्रनिघ्नं निघ्नं तद्वस्त्रसंहतौ श्यामम् ॥ १०४ ॥
शिखिपिञ्छसारकृतनीलकुन्तळं
कृतयोगनित्यपरिदृष्टविग्रहम् ।
निगमावतंसरमणीयभूषणं
तरुणीवशं कमपि बालमाश्रये ॥ १०५ ॥
स्फुरदिन्द्रनीलसुभगाङ्गमेदुरं
दुरवग्रहग्रहविशेषमोचकम् ।
मुरळीनिनादजितयोगियौवतं
कलये शिशुं कमपि पूतनारिपुम् ॥ १०६ ॥
पूतनाजितडिम्भविग्रहवक्त्रपीततदात्मकं
खञ्जरीटजितात्मलोचनपद्मया सुभगाकृतिम् ।
आकृतित्रययुक्तवारिधिसम्भवा लुळिताङ्घ्रिकं
वारिरशिनिभाङ्गकान्तिमहं भजेऽर्जुनसारथिम् ॥ १०७ ॥
पीताम्बरं वरभुजार्गळयोगरम्यं
श्वासानुयायिनिगमं निगमान्तवेद्यम् ।
वेद्याखिलाकृतिकृतिं गजराजलीलं
लीलार्थविश्वरचनं कलये हृदिस्थम् ॥ १०८ ॥
अतिविशालभुजान्तरशोभितं
व्रजकृशोदरिभावहिताशयम् ।
कमलसोदरपाणितलं हरिं
हृदि करोमि तमालवनप्रभम् ॥ १०९ ॥
कुटिलाळकपाळिविशोभिमुखं
श्रमहारिदृशां सुदृशां च फलम् ।
कलयेऽनुकलं कमलानिलयं
विजयाजिरथस्पृहयाळुधियम् ॥ ११० ॥
सन्दृष्टं प्रङ्मुखस्थित्या पद्मवद्विश्वतोमुखम् ।
रुक्मिण्यादर्शदृष्टाङ्गं आश्रये सूतविग्रहम् ॥ १११ ॥
रुक्मिणीसहितं पार्थसूतं दृष्ट्वा स्वकैर्वृतम् ।
लक्षितः प्रणवार्थस्त्वां त्वदात्मपरिदर्शितः ॥ ११२ ॥
अथवा दर्शितोऽप्यर्थः नारायणपदानुगः ।
सर्वेषामाश्रयो यस्त्वं चेतनानां शुभात्मनाम् ॥ ११३ ॥
अन्योऽपि संस्मृतो ह्यर्थः दर्शनात्पार्थसूतते ।
नमसश्शब्द रत्नस्य यस्त्वं गतिरथात्मनाम् ॥ ११४ ॥
परस्परादर्शनिजाङ्गहृद्यौ
हृद्याळकोल्लासि मुखेन्दुबिम्बौ ।
बिम्बात्मना दृष्टजनौ निजाङ्गे
भैमीव्रजेशौ समुपाश्रयेऽहम् ॥ ११५ ॥
संश्लेषोत्कर्षसिद्धौ नरहितनिजरूपाश्रयावेकतत्त्वौ
किंवेत्यालोलधीभिर्विमृदितलळितोत्कृष्टतत्त्वानुभावौ ।
भावातीतात्मभावावपि जनहितया लोकवासैकमत्या
क्लृप्तार्च्चाविग्रहौ तौ जनहितकलनौ रुक्मिणी पार्थसूतौ ॥ ११६ ॥
सौन्दर्यस्यैकराशी विदितसमगुणौ बिम्बभूताविवेमौ
नाथौ भूतिद्वयस्याप्यखिलमखपरौ दर्शितान्योन्यसाम्यौ ।
श्रीमन्तौ कीर्त्तिमन्तौ क्वचन च विधयाऽदृष्टवैगुण्यभावौ
भावौ सर्वश्रुतीनां कथमिव घटते तद्गुणालापनादौ ॥ ११७ ॥
आदौ तौ सृष्टिभवावखिलसमयसंसक्तदेहौ विनैकं
दातुं वासं ग्रहीतुं नयनयुगमिवाक्लृप्त पार्थक्यकार्यौ ।
श्रीलक्ष्मीनयकौ च प्रधितकरुणया व्याजतः किञ्चिदेतौ
अस्माकं भाग्याराशी जनदृशि च पृथग्भावमाप्तौ श्रयेऽहम् ॥ ११८ ॥
उन्नतांसपरिलम्बिकुण्डलौ कुण्डलोपमितसूर्यमण्डलौ ।
मण्डलाधिपतिवृन्दवन्दितौ रुक्मिणीविजयसारथी भजे ॥ ११९ ॥
शृङ्गारशान्तिरसवारिनिधी उभौ किं
किं वा नृशोकदहनाचिरदीप्तमेघौ ।
किं वार्धिकाङ्क्षितसदर्थितदेवरत्ने
चित्ते करोमि तरुणीमणिपार्थसूतौ ॥ १२० ॥
अब्जनाभो हरिः स्वर्णकान्ती रमा
सङ्गतौ प्राणिनां प्राणदानप्रियौ ।
पद्मनेत्रश्रियौ चारुमन्दस्मितौ
संश्रये रुक्मिणी पार्थसूतावुभौ ॥ १२१ ॥
निजाङ्गलावण्यगतात्मलोकौ
परस्पराङ्गप्रतिबिम्बिताङ्गौ ।
हंसाविमौ हृद्यगुणौ सुरूपौ
वन्दे रमापार्थरथाश्रयौ तौ ॥ १२२ ॥
निजरुचिपरिमृष्टहृत्तमस्कौ
विमलरुचिस्मितशोभि गण्डभागौ ।
कुसुमित सुभगावशुत्तमाला-
विवजलधिप्रभवा नरैकसूतौ ॥ १२३ ॥
अहो नु संप्रार्थयते गुणज्ञौ
अयं हि दासः प्रणयाम्बुराशी ।
किमस्ति वा त्वत्तनु दृष्टिमृष्टं
मत्पातकं वां पदपद्मचूडः ॥ १२४ ॥
सतां नियोगं शिरसा प्रगृह्य
निजात्मसाफल्यगुणं च वीक्ष्य ।
तत्कालहर्षं हृदि चिन्तयित्वा
यथा स्वधीशक्तिकृतेह माला ॥ १२५ ॥
वामर्पिताहं कृतिमूढचित्त-
कृतापि युष्मद्गुणसंप्रयोगात् ।
आमोद भारावहलब्धवर्णा
जीयाच्चिरं वां च मुदे कवीनाम् ॥ १२६ ॥
लक्ष्मिनृसिंहादि शठारियोगि
समर्पितो वां पदपङ्कजाय ।
त्वद्दासक्लृप्तेति च पश्यतं तां
सत्सूक्तिमाला युवयोर्म्मुदेऽस्तु ॥ १२७ ॥
श्रीमते श्रीवण्शठकोप श्रीलक्ष्मीनरसिंह-
शठकोपयतीन्द्रमहादेशिकाय नमः ।
श्रीमते श्रीवण्शठकोप श्रीरङ्गशठकोप-
यतीन्द्रमहादेशिकाय नमः ॥
अतिसरळपदप्रसूनगुम्भे
हरिपदपद्ममधुद्रवे स्पृहा वा ।
रसिकबुधगणाग्रगा भुविस्थाः
नरवरसूतनुतिं प्रपश्यतैनाम् ॥ १२८॥
॥ शुभं भवतु ॥
End of Part 1
द्वितीयो भागः ।
श्रीगणेशाय नमः ।
श्रीः
नमश्श्रियैजगन्मातः तुभ्यं सर्वनमस्कृते ।
स्त्रीरत्नेन त्वया विष्णुर्दोर्मध्यं नित्यभास्वरम् ॥ १॥
त्वया विना न च हरिः न च त्वं हरिणा विना ।
न युवाभ्यां विनाहं नो युवामपि मया विना ॥ २॥
जगत्पतिस्स भगवान् मातस्त्वं हरिवल्लभा ।
नित्यदास्योऽहमिति च प्रणवप्रतिपादिताः ॥ ३॥
प्रणवमयरथेऽग्रतस्सविष्णु-
र्हरिसखिमध्यगता सुमध्यमा त्वम् ।
अहमपि युवयोरधीनवृत्तिः
चरमपदस्थित एष रक्ष्य एव ॥ ४॥
केचिद्वदन्ति रथिनं हरिमेव मुख्यं
अन्ये तु नित्यकृतदास्यममुञ्च जीवम् ।
आद्यन्ततस्स्थितिमतोरनुकूलधीर्य-
त्तां त्वां च सूक्ष्ममतयः प्रवदन्ति मुख्याम् ॥ ५॥
यश्फ(?)न्दो वृषभस्त्रिपादकलितस्तद्वक्त्रगोऽयं हरिः
तन्मध्ये भवती ततः कृतपदः जीवश्च दास्योचितः ।
जीवे क्लृप्तदयाभरा च भवती त्वद्दृक्प्रसन्नो हरिः
युष्मद्दास्यकृतोद्यमान्नतजनानूरिकरोति प्रभुः ॥ ६॥
अतिचिरसहवासयोगभूम्ना
पदविनतं न च हातुमत्र युक्तम् ।
तव तु सुकरुणार्द्रदृङ्महिम्ना
हतवृजिनं शरणोक्तिसादरं माम् ॥ ७॥
प्रतापपरिपाटिभिः विमतदण्डनैर्भीकरं
समीक्ष्य पतिमीदृशं हरिसखिस्स्वपादाम्बुजे ।
विशेषविनतं नरं मृदितकिल्बिषं वीक्षणात्
पतिं नयसि सान्त्वनोज्झितरुषं सतां रक्षकम् ॥ ८॥
जगतामनुकूलदृग्विलासै-
स्तमसां हन्तृभिरार्ततापहृद्भिः ।
जननेत्रचकोरपारणार्हैः
स शुभं यच्च करोषि विश्वमेतत् ॥ ९॥
पराङ्मुखानथपरमार्थदूरगान्
सुधासखिप्रणतिविदूरगानपि ।
जनान् धिया जगदनुकूलया च सा-
प्युदकवागमृतरसेन सिञ्चसि ॥ १०॥
परत्वेन परामृश्य पतिं च जगदीश्वरम् ।
भीतानां प्रणतानां च वाक्यं श्रुतिपुटेऽकरोः ॥ ११॥
यथा स सेव्यते विष्णुः कल्याणगुणसागरः ।
तथा त्वमपि कल्याणि कल्याणावहसद्गुणा ॥ १२ ॥
यच्चक्षुर्विषयं गताथ भवती सन्तीर्णदुःखाम्बुधिः
मर्त्योऽयं यदि दिव्यदृष्टिपदवीक्लृप्तानुषङ्गस्तव ।
सोऽयं धूतपराभवः परिगताशेषार्थलाभः प्रभुः
सूच्चैश्छत्रसुचामराञ्चितकरैराप्तैश्च संसेव्यते ॥ १३ ॥
हरिदोर्मध्यगा या त्त्वमतिदीनान् श्रितान्नरान् ।
वीक्षणात्तुल्यविभवान् करोष्यमृतसोदरि ॥ १४॥
यत्र दृष्टिर्निधिस्तत्र गजाश्वरथसम्भृतः ।
पुत्रपौत्राभिवृद्धिश्च तव चित्तप्रहर्षकृत् ॥ १५॥
सा त्वं सुधाब्धिशितांशुपद्मविष्णुभुजान्तरात्
आनन्दनिलये भासि पार्थसारथिना सह ॥ १६॥
श्रीरस्तुः ॥
End of Part 2
तृतीयो भागः
श्रीगणेशाय नमः ।
श्रीयै नमः ।
श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोपयतीन्द्रमहादेशिकाय नमः ।
लक्ष्मीनृसिंहमखिलावनबद्धदीक्षं
तद्धर्मनित्यनिरतां दयितां च तस्य ।
तत्पादपद्मयुगसक्तनिजात्महंसान्
तद्धर्मरक्षणपरान् कलये सदाहम् ॥ १॥
श्रीरङ्गनाथपदमद्भुतदानवृत्त-
भावान्वितं विबुधसङ्घसमाश्रितं च ।
सर्वत्र दृष्टबहुधर्मधियं स्वभक्तैः
दृष्टात्मवैभवममुं यतिवर्यमीडे ॥ २ ॥
श्रीविष्णुपादपरिसञ्चरदक्षशीलं
नित्यं नरार्पितमहोपनिषत्सुसारम् ।
सारात्महृद्यवचनं वचनातिदूरं
कृष्णं श्रये सुकलितामृतमेघवृत्तिम् ॥ ३॥
लक्ष्मीनृसिंहशठजित्करुणाम्बुराशिं
निम्नोन्नतक्रमविवर्जितमद्वितीयम् ।
निर्धूततापमवनीतलदेवताना-
मुज्जीवनप्रदममुं रमणीयभावम् ॥ ४॥
पद्मानुबन्धसुखगन्धवहं सदैव
स्वान्तर्गताखिलसुसद्गणरम्यमूर्तिम् ।
सच्छङ्खचक्रविलसच्छुभहेतुभूतं
निर्द्धूतसन्नतभवं भवि भाग्यराशिम् ॥ ५॥
मत्स्यादिकूर्मकिटिसुन्दरसिंहखर्व-
नित्यार्पिताशयमवर्जितरामभावम् ।
कृष्णं त्वचिच्चकलने क्वचिदच्छभाव-
मश्वाधिरोहपटुपोषणतत्पराशम् ॥ ६॥
नारायणैकनिलयं स्ववशामरौघं
सद्धर्मवर्द्धनपरं परभागजुष्टम् ।
गम्भीरभावसुभगं स्मृतिशुद्धिदायि
सद्धर्मकृद्धरणिदेवगणैरमुक्तम् ॥ ७॥
हंसाळिजुष्टमविवर्जितसेतुधर्मं
तं कञ्चन क्रमकरावळिशोभमानम् ।
निर्द्धूतकल्मषगणं निजसेविनाञ्च
सत्वैकसंश्रयमनुन्धितनैजसारम् ॥ ८॥
अकलितपरभङ्गं स्वाश्रितेऽदत्तभङ्गं
विनतजनसमाजेऽदृष्टकालुष्यलेशम् ।
गुरुमिह समभावं ग्रीष्मकालेऽपिवर्षा-
स्वमलरससमेतं योगिनाथं नमामि ॥ ९॥
नित्यं च हंसध्वनिरागयुक्तं
सङ्गीतरत्नाकरवद्गभीरम् ।
वादेषु सम्मोहनवत्सुयुक्तिं
कल्याण्यनुल्लङ्घितगोविलासम् ॥ १०॥
सदैव पुन्नागवराळिजुष्टं
श्रीरागयुक्तं महितं रसज्ञैः ।
यथोचिते काल उपास्यमानं
भक्तैस्स्वपादार्पितसर्वभावैः ॥ ११॥
स्वपदविनतहंसं शोभितास्यं सुवाण्या
शुचिबहुमुखरम्यं वेदवेदार्थदक्षम् ।
विधिमिव सुखसत्यं काङ्क्षितं योगिवृन्दैः
अविरळितपदं तं मर्त्यसिंहादिपुंसः ॥ १२॥
विस्तीर्णश्रुतिरोचिषा परिगतं लोकांश्च कारुण्यतः
निक्षिप्याखिलचक्षुषां सुखकरे कण्ठे पवित्राञ्चिते ।
तत्तत्कृत्यवशात्फलप्रदमतिं नीचोच्चभावं विना
श्रीलक्ष्मीनरसिंहकारिजयतिं विद्योदितं धातृवत् ॥ १३॥
विनतसुजनवृन्दप्रीतिविस्फारिताक्षं
बहुगुणरमणीयं लोकरक्षावतीर्णम् ।
द्विरसनकृतपादं गुप्तगोसम्पदं वा
करकलितमहागोवर्धनं नाथमीडे ॥ १४॥
दत्ताम्बरं नतजनेषु निजेच्छयैव
धर्मादरं पिहितवन्द्यपरत्वभावम् ।
सुभ्रूलताग्रकलितोत्कनरप्रदृष्टिं
गीतार्यवद्यतिमवैमि विराजमानम् ॥ १५॥
दृष्टे मुखेऽस्यलळिते श्रितविष्णुपादे
तादृग्विधौ क्व च तिरोहितवृत्तभावे ।
काले सुवृत्तवति वा सुकळङ्कयुक्ते
कस्सत्पतावपि मतिं न जहाति धीरः ॥ १६॥
या वै शिखा यतिवरस्य निजानुरूपा
कौटिल्यलेशरहिता प्रविभात्यनल्पा ।
यद्वा शिखी स च तया क्व च साधुवृन्दाः
धाम्ना शिखीति गदितुं किल संप्रवृत्ताः ॥ १७॥
मूर्ध्नापि सद्वृत्तमयो यतीशः
यदेनमाहुर्भुवि भूसुराणाम् ।
मूर्धानमप्यन्त्यशरीरभाजां
मूर्द्धन्यपादाम्बुज एष योगी ॥ १८॥
अद्वैतगन्धानवधूय शीघ्रं
स्वाधीनवेदान्तसुरद्रुगन्धः ।
भोग्योयदस्याशु जितात्मशत्रोः
नासातिदीर्घा सफला यतीन्दोः ॥ १९॥
अनुदितरवियोगमन्त्रजापः
यतिनृपतिः किल मूकभावपद्मे ।
उषसि नियतधीर्यतो महान्स्यात्
मुखकमलं फलवद्रसज्ञयाढ्यम् ॥ २०॥
यावतीह वसुधा सुविशाला
तावती खलु नृसिंहविभूतिः ।
तावदस्य हृदयं सुविशालं
सर्वरक्षणचणं सुविभाति ॥ २१॥
यदस्य वाक्यादधरीकृतास्ते
प्रच्छन्नबौद्धाऽसकृद्धरण्याम् ।
ततो धरो नाम रदच्छदोऽस्य
तद्योगभूम्ना किल वाग्जयोऽयम् ॥ २२॥
अथवास्य धरापि नो समा
भवती वोचितदानकर्मणि ।
विनिवेदयितुं पराजितान्
अधरो भाति मुखे यतीशितुः ॥ २३॥
गर्भेकुर्वन् गोप्तुकामो नतौघं
यस्माद्योगी भाति कारुण्यचित्तः ।
तस्मात्पीनो भाति वास्योदरोऽयं
अन्तस्थानां क्लृप्तपङ्क्तिस्त्रिवळ्या ॥ २४॥
पार्श्वे वसन्तो वसुधाधिपेन्द्राः
समानचित्ता विषमातिदूराः ।
तेषां प्रदृष्ट्यानुनिषेवितत्वात्
प्रमृष्टपार्श्वो यतिनाथचन्द्रः ॥ २५॥
पीताम्बरो हरिश्श्रीमान् हली कृष्णाम्बरः पुनः ।
रक्ताम्बरो नरहरिः तस्माद्रक्ताम्बरो यतिः ॥ २६॥
परिवृत्तबाहुसुखलग्नजानुकः
यतिनाथ एष सततं शुभावहः ।
विनिवार्य भीतिमवनीतलौकसां
शरणं शरण्यगुणलक्षितो यतिः ॥ २७॥
भद्रासने जाग्रति योगिनाथे
समुन्नते स्वात्मगुणैश्च शश्वत् ।
ततश्च संलब्धफलौ तदूरू
तत्रोचितौ पीवरतामुपात्तौ ॥ २८॥
कश्चित् स्वार्थं याति पन्थानमात्मा
लोकार्थोऽसौ भाति वेदाद्ध्वनी नः ।
छेत्ता येषां संसृतेर्वाग्विलासैः
तेषां नॄणां सौख्यसम्पत्प्रदाता ॥ २९॥
अष्टोत्तरे शतपदे कृतसन्निधान-
लोकेशदिव्यसुपवित्रधृतिक्षमां सः ।
यज्ञोपवीतविलसद्रमणीयवक्षः
सुश्राव्यनादमहितो बहुरक्तकण्ठः ॥ ३०॥
वृत्तबाहुविलसत्त्रयदण्डः
प्राप्तनम्रबुधपापनिबर्हः ।
सेऽवितो न यदि योगिवरिष्ठः
का गतिर्भवजिगीषुजनानाम् ॥ ३१॥
ब्रह्मसूत्रहृदयो यतिराजः
व्यासपाद इव विष्णुपदस्थः ।
भूसुरेशकुलवृद्धिकरोऽसौ
संश्रितेष्टबहुवृद्धिकरस्स्यात् ॥ ३२॥
बाहुना सुकलितत्रयदण्डः
योगिनां परिवृढः करुणाब्धिः ।
यूयमेवमखिलावनदक्षं
हृत्सु मां कलयतेति गिरन्नु ॥ ३३॥
पादङ्गुळीयनखनूतनचन्द्रलोखा
सेवापरा यदि नरा विबुधा भवेयुः ।
तेषां मनांसि सुनिरस्ततमांसि लोके
नैव क्वचित् पुनरमीषु तमोविकाराः ॥ ३४॥
चरणाविह शङ्खचक्ररेखो-
ल्लसितौ श्लक्ष्णतमौ बुधैर्धृतौ यौ ।
भवसागरमग्नमर्त्यपोतौ
यतिभूभृन्महितस्य संश्रयेऽहम् ॥ ३५॥
सामुद्रिके वा यदि वा बुभुत्सा
यतेः पदाब्जं तु निरीक्ष्य सम्यक् ।
यथाविधानं ननु लक्षणानि
स्वया धिया कल्पयत प्रभुद्धाः ॥ ३६॥
सद्धर्मशास्त्रे यदि वाऽन्यशास्त्रे
नित्याह्निके वा हरियागकृत्ये ।
अदो यतीन्दोः परिपश्यतात्र
कृतं यदेते न हि शासनं वः ॥ ३७॥
अन्यत्र वा यत्र हि संशयस्स्यात्
भक्त्या समुद्वीक्ष्य यतीन्द्रधर्मम् ।
निश्चित्य तन्निर्णयमेव सत्यं
जानीत धर्मं च तमेव यूयम् ॥ ३८॥
श्रीरङ्गवासरसिकं सुगुणाम्बुराशिं
प्रातः स्फुरत्सुरभिदर्शनहर्षयुक्तम् ।
श्लाघ्यैर्नवैश्च सुमनोभिरजस्य युक्तं
श्रीशं च तत्समगुणं यतिनाथमीडे ॥ ३९॥
गतभयं श्रुतिपालनधीर्यतिः
अखिलकालमनन्तनतद्विजैः ।
निगमयोग्यदिने स्मृतिगौरवात्
निखिलवेदविचारमचारयत् ॥ ४०॥
अमृतदानमतिर्निजसेविनां
सुमनसामजहन्निजविग्रहः ।
यतिरिहाद्भुतलक्ष्म्णयोगिवा-
गमृतदानमहादरधीरसौ ॥ ४१॥
भूसुरौघमशेषेण हिरण्याक्षं वचोऽमृतैः ।
विनिवर्त्य रसास्वादे कृतबुद्धीनकारयत् ॥ ४२॥
हिरण्यदो हरिश्चासौ यतिश्चेत्येनयोर्द्वयोः ।
आद्यः क्वचिद्यतिश्शश्वद्विस्मयः कस्य वा कृतौ ॥ ४३॥
हंसद्वयं स्मृतिगतं सुपवित्रमूर्ति-
स्मृत्या नृणां विधिकृताखिलवेदजातः ।
एकोऽन्य एष नरसिंहशठारियोगी
सर्वत्र दत्तनिगमो द्विजवर्यजाते ॥ ४४॥
विभुधराडवने विलसन्मतिः
कविमकोपपदं कलयन् यतिः ।
अजहदेव निजाखिलवैभवं
निखिलविक्रमशालिपदाम्बुजः ॥ ४५॥
येषां च स्मृतिमारूढं यतेश्चरितमङ्गळम् ।
ते नृपास्सन्नता यस्य तत्साम्येन नृपा हितः ॥ ४६॥
यत्कृत्यदर्शनवशादखिलाघनाशः
यद्दर्शने सुमनसां न च तृप्तिरस्ति ।
गुर्वाज्ञया नियमिताविह योगिरामौ
विश्वावनक्षमगुणौ शरणं प्रपद्ये ॥ ४७॥
तीर्थे कृतादरौ द्वौ तु रोहिणीशानयोगिनौ ।
कृष्णैकसंश्रयौ नाथौ तारतारप्रकाशकौ ॥ ४८॥
क्वचित्पुण्यदेशे कृतात्मावतारौ
क्वचिद्दर्शिताशेषरक्षास्वभावौ ।
जिताशेषशत्रू मुदा सर्वसेव्यौ
वरौ सत्यवाचौ सुधर्म्मैकचित्तौ ॥ ४९॥
वराशेषलोकप्रमाणस्ववाक्यौ
नतोत्तारकौ योगिकृष्णौ गुरू तौ ।
रसोद्धारदक्षौ महायामुनेय-
प्रभावादरौ दूरधूतामरेशौ ॥ ५०॥
गुणाम्भोनिधी दिव्यपद्माक्षमाला-
वृतांसौ सुहंसादृतस्वीयवाक्यौ ।
स्ववाक्यावळीधूतगाङ्गेयपूर-
द्ध्वनीध्वानमाधुर्यनम्राखिलेशौ ॥ ५१॥
तेजस्त्रयोल्लासितोऽसौ कृष्णो नृहरिकारिजः ।
लक्ष्मीमर्त्यमृगेन्द्रश्च भजेऽहं तुल्ल्यवर्चसः ॥ ५२॥
कर्णश्च दानाद्भुवि सुप्रसिद्धः
सूर्यात्मजोऽयं नकुलस्य वैरी ।
सुरेशदत्तानघदिव्यशक्तिः
स्मृत्या तु हीनः स्मृतिमान् यतिस्तु ॥ ५३॥
अनादिकालादघकाष्ठदीप्त-
ज्वालाभवात्तपितस्य मेऽद्य ।
तत्तापशान्त्यै ननु दृष्टमेव
दिव्यौषधं श्रीनृहरी शठारिः ॥ ५४॥
अनादिकालोपचिता ह्यविद्या
तयाभितप्तस्य ममाद्य लोके ।
सञ्जीवनं सर्वविधोपयोग्यं
लक्ष्मीनृसिंहाद्यशठारियोगी ॥ ५५॥
न च स्नानं न वा भुक्तिः भुक्तिमुक्तिफलप्रदात् ।
लक्ष्मीनृहरिकार्यात्मजातयोगिस्मृतेर्मता ॥ ५६॥
भवाभिधमहाहिना सुदृढदष्टनष्टात्मनां
सुधां समुपजीवनीं झटिति यो ददाति स्वयम् ।
रमानृहरिकारिजात्यधिपतेरथान्यो भिष-
ग्वरोऽस्ति यदि वोच्यतां क्वचन नास्ति सत्यं हि तत् ॥ ५७॥
विषयविषाग्निना कृतमुखेन दशेन्द्रियतः
प्रथुलभवाहिना समुपदष्टनिजात्मवतः ।
नरहरिरेष एव रमया सुद्रढं कलितः
नरमृगराजकारिजमुखेन सुजीवयति ॥ ५८॥
कियन्तौ स्वर्वैद्यौ हरिकृतसुजन्मा च सुमतिः
सुधाकुम्भोद्धारोऽनुपधिदयधन्वन्तरिपदः ।
स रामः कृष्णो वा नृहरिरथवा श्रीनृमृगराट्-
शठारिर्वा योगी भवदहनतप्ताय सुखदाः ॥ ५९॥
मृतसञ्जीवनं शास्त्रे कृष्णो राम इति श्रुतम् ।
लक्ष्मीनृसिंहशठजिद्योगिसञ्जीवनं पुरः ॥ ६०॥
कलितब्रह्मचर्येण कृतं सञ्जीवनं क्वचित् ।
कृष्णेनानेन यतिना बहुसञ्जीवनं कृतम् ॥ ६१॥
यत्पादकल्पतरुपल्लवसक्तमूर्ध्नां
नैवास्ति तापनिवहः परिदृष्ट एषः ।
तछ्रीनृसिंहपतिकारिजयोगिनाथात्
नान्यस्त्रिवर्गफलदस्त्रिगुणप्रभेदी ॥ ६२॥
शिरस्सु यतिपादाब्जशङ्खचक्राङ्कितेषु वः ।
मुमुक्षूणां स्वदोर्म्मूलशङ्खचक्राङ्कनैरलम् ॥ ६३॥
अधिकदयैकसारहृदये यतिभूमिपतौ
नरहरिकारिसूनुपदगे नयनाध्वगते ।
किमिह रसायनैः नवनवौषधिसङ्घटितैः
पिबत सुचक्षुषा भवभृदार्तिहरं सुयतिम् ॥ ६४॥
क्वचन दोषयुतेऽपि नतव्रजे
निकटमाशु गते यतिशेखरः ।
अनघदृष्टिसुपूततदात्मकः
जयति वत्सलतानिधिरद्भुतः ॥ ६५॥
हिरण्यस्य चैकस्य हन्ता नृसिंहः
निहन्ता च षण्णामरीणां यतीन्द्रः ।
ऋषिश्चेत्पुराणस्य कर्ता स च स्यात्
नसोऽस्त्यत्र नैवास्ति वक्ता तदन्यः ॥ ६६॥
अन्योपमर्देऽप्यधिकात्मकान्तिः
आदर्शवत्स्पष्टपरात्मभावः ।
स्वच्छस्स्वतो दर्शितसौम्यभावः
निजेन धाम्ना प्रचकास्ति योगी ॥ ६७॥
लक्ष्मीनृसिंहशठजित्करुणानिधिं तं
भूसङ्गतं च सुदृशामपि गूढभावम् ।
शश्वत्कृते परिचये गहनं गभीरं
भक्त्याञ्जनेन सुदृशः परिपश्यतैनम् ॥ ६८॥
यावत्कालं सन्नतौघे समीपं
संप्राप्ते वा स्वात्मभारार्पणाय ।
नायं योगी योगदृष्टाखिलेशः
खिन्नो दृष्टो दृष्टपुंसिंहचित्तः ॥ ६९॥
सर्वज्ञश्च कलाधरश्च सुयती रामार्पितात्माशयः
कन्दर्पप्रशमाय कल्पितमतिः पूर्णो ह्यहीनैर्गुणैः ।
हासेनाधरकल्पिताहितगणस्सम्पूजितश्चामरैः
कण्ठे निर्विषवत्तया सुमनसां पूज्यो यतीन्दुश्शिवात् ॥ ७०॥
जडोऽश्क्तवान् तथा वृजिनशन्तमीमोहितः
त्रिवर्गफलधीः पुनः षडरिवर्गभिन्नाशयः ।
सदा भयभराकुलः बहुळतापसन्तापितः
यतीन्दुकरुणामृताप्लुततनुश्च निर्भीरहम् ॥ ७१॥
यदि चिरजीविकासु विबुधा भवतां स्पृहणं
न खलु तपःक्रिया न च पयोनिधिसम्मथनम् ।
अपि तु रमानृसिंहपतिकारिजयोगिगुणां-
बुधिममृताप्तये कलयताग्र्यधिया निजया ॥ ७२॥
करुणापरिणाम एष योगी
यतिनाथस्य च लक्ष्मणाभिधस्य ।
न हि चेदवनीतलस्थिताना-
मवनेऽस्य क्व भवेत्स्वतोऽनुकम्पा ॥ ७३॥
रङ्गनाथमिव लोकभूषणं
वेदराशिमिव विप्रभूषणम् ।
सत्पतिं विधुमिवानिशं भजे
श्रीनृसंहशठजिद्यतीश्वरम् ॥ ७४॥
पद्मराशिमिव तीर्थभूषणं
पद्मयोनिमिव हंसभूषणम् ।
पद्मजातमिव सत्यभूषणं
भावये नृहरिकारिजाभिधम् ॥ ७५॥
मूलमन्त्रमिव सर्वथोऽर्थदः
व्यापकेषु महितश्च सर्वतः ।
जन्मशुद्धिकरशक्तिभूषितः
भक्तिभावरहितैरलक्षितः ॥ ७६॥
मन्त्ररत्नवदशेषभोग्यधीः
दर्शिताखिलसुतत्त्वनिर्णयः ।
साद्ध्यसाधनतया च सेवितः
संयमी नरहरीशकारिजः ॥ ७७॥
अन्त्यश्लोको यथाऽमोघो नरचित्तप्रदार्ढ्यदः ।
तथायं सेवितो योगी चित्तोत्साहप्रदः शुभः ॥ ७८॥
भीष्मभूप इव रङ्गक्लृप्तधीः
दर्शिताखिलसुतत्त्वनिर्णयः ।
धर्मजातबहुविस्तराशयः
सर्वपार्थिवगणैश्च पूजितः ॥ ७९॥
सुधाब्धिवत्सक्तगजाश्वघोषः
रमापतिस्थानवरस्वरूपः ।
कलाधरोत्पादकरो गरिष्ठः
नृसिंहकार्यात्मजयोगिनाथः ॥ ८०॥
सावधान इव दर्शितस्मृतिः
स्वर्गवद्रुचिरभावबन्धुरः ।
कल्पवत्सफलरूपमेदुरः
श्रीनृसिंहशठजिद्यतीश्वरः ॥ ८१॥
सर्वकालकलिता गुणा यतेः
श्रीरमानृहरिराट्-शठद्विषः ।
नैव यान्ति हि समाप्तिमद्भुताः
काल एव विलयं गतो भवेत् ॥ ८२॥
ये ये गुणा निगमशेखरदेशिकोक्ता
श्रीलक्ष्मणाख्ययतिराजसुधामनिष्ठाः ।
ये कूरनाथनियता महिताश्च सर्वे
ते श्रीनृसिंहपतिकारिजयोगिनिष्ठाः ॥ ८३॥
वाचामगोचरतया प्रथिता गुणास्ते
कीर्त्युल्लसत्त्रिभुवनस्य दयाम्बुराशेः ।
श्रीमन्नृसिंहपतिकारिजयोगिनेतुः
तद्भक्तिकल्पितधिया कलिता हि केचित् ॥ ८४॥
ज्ञानतोऽज्ञानतो वापि कृते कर्म्मणि यः फली ।
फली श्रीनृहरिर्भूयात् निजमूर्त्त्यन्तरस्तुतेः ॥ श्रीः ॥ ८५॥
श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंह-
शठकोपयतीन्द्रमहादेशिकाय नमः ।
शुभं भवतु ॥
End of Part 3
चतुर्थो भागः ।
श्रीगणेशाय नमः ।
श्रीः ।
श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोप-
यतीन्द्रमहदेशिकाय नमः ।
वन्दे श्रीरङ्गगशठजिद्योगिनाथसुधाकरम् ।
यद्वाणीचन्द्रिकातृप्तास्सदा बुधचकोरकाः ॥ १॥
आजानशुद्धविभवं दत्तभूदेवभूषणम् ।
लक्ष्मीनृसिंहनिलयं सुधाब्धिमपरं श्रये ॥ २॥
स्ववृत्तामोदिसुजनं अनीचोच्चसमादरम् ।
गुरुलब्धबलैश्वर्यमपरं राममाश्रये ॥ ३॥
सदागमोल्लासधियं वाङ्माधुर्यान्मधुद्विषम् ।
रसार्णवैकनिलयमादिमत्स्यमिवापरम् ॥ ४॥
अमृतोत्पादनोपायं विबुधानां दृढाशयम् ।
हर्यंशादुद्धृतस्वाङ्गमादिकूर्म्ममिवापरम् ॥ ५॥
रसाश्रयोज्ज्वलतनुं हिरण्याक्षनिषूदनम् ।
श्रीमुष्णसङ्गोल्लसितं भूवराहमिवापरम् ॥ ६॥
प्रह्लाददर्शितात्मानं सन्ध्याकालप्रतीक्षकम् ।
लोकावनक्षमगुणं श्रीनृसिंहमिवापरम् ॥ ७॥
सर्वोन्नतस्वभावाढ्यं सदागमसमुज्ज्वलम् ।
सर्वज्ञेप्सितवत्तोयं त्रिविक्रममिवापरम् ॥ ८॥
निराकृतावनीपालं श्रीरामार्पितहृद्गतिम् ।
श्रीरङ्गशठजिन्नाथमादिं राममिवाश्रये ॥ ९॥
सर्वलोकेप्सितगुणं सर्वाह्लादैकमूर्त्तिकम् ।
लसन्मुनिगणामोदिकृत्यं राममिवापरम् ॥ १०॥
कृष्णप्रभाविलसितं स्फारतारप्रकाशकम् ।
शुभतीर्थकृताह्लादं बलराममिवापरम् ॥ ११॥
कृष्णां च येन राजन्तं धर्मस्थापनतत्परम् ।
विजयैककरं लोकपूज्यं कृष्णमिवापरम् ॥ १२॥
कलिं निपात्य धर्माणां स्थापनार्हकृतोद्यमम् ।
श्रीरङ्गशठजिद्योगिविधुं कल्किमिवाश्रये ॥ १३॥
अनधीत्य श्रुतिं सम्यगलब्ध्वा शास्त्रसम्पदम् ।
श्रुतिशास्त्रोल्लसद्रङ्गशठजिद्वृत्तवाक् तु कः ॥ १४॥
स्मृतिपावनसत्कीर्त्तेश्श्रीरङ्गशठवैरिणः ।
योगीन्द्रस्य शुभं वृत्तं मद्वाचा निस्सरत्यहो ॥ १५ ॥
स्वभासा भूषयन् लोकं विनिर्भिद्य तमोगणम् ।
सर्वदा पूर्णमूर्त्तिर्हि चन्द्रमा अपरो ह्ययम् ॥ १६ ॥
सर्वत्रोच्चैस्स्थितिश्श्रीकृत् बुधाश्लेषसमुन्नतिः ।
मकरेऽवतरन्नुच्चैः विश्वदेवर्क्षगो गुरुः ॥ १७॥
जायमानं हरिः पश्यन् सात्त्विकानां समृद्धये ।
यथामुमात्मनाऽऽत्मानं प्रेम्णा हृष्टमना अभूत् ॥ १८॥
अहं रेखामयीविद्या यावत्यस्योचितेति सा ।
स्वां च तं ग्राहयामास लोकाविद्यानिवृत्तये ॥ १९॥
भविता ब्रह्मसूत्रीति रोद्धा निर्गुणवादिनाम् ।
सावित्त्र्युदैक्षतामुं च सगुणब्रह्मसूत्त्रिणम् ॥ २०॥
भविष्यति त्रिदण्डीति त्रयीमात्रानुगामिनी ।
विवेश मधुरात्मानं मधुनाथसमाननम् ॥ २१॥
पदक्रमानुगश्चार्थ इत्येव शुभधीरसौ ।
पूर्वं पदक्रमं पश्चादर्थविस्तारमग्रहीत् ॥ २२॥
तर्के प्राधान्यबुद्ध्यैव तर्कशास्त्रं सविस्तरम् ।
प्रणेतृप्रतिभायोग्यं दृढं चेतसि सन्दधे ॥ २३॥
अत्र चित्रमिदन्त्वेव प्रतिवक्तुं क्षमेतराः ।
स्वधीविलासभूम्नामुं हृद्यकुर्वन्नताननाः ॥ २४॥
धर्मशास्त्रक्रियास्सर्वाः गुरुणा बहुमानिताः ।
पश्चाद्रक्षिष्यमाणास्स्युरित्यसङ्कोचविस्तरम् ॥ २५॥
आवीक्षकी साहिती च ते ह्यस्मिन् सत्पथानुगे ।
समूषतुः कवितया सर्वरञ्जनया मुदा ॥ २६॥
पूर्वसूरिप्रबन्धाश्च सावकाशं समादृताः ।
समेत्यास्मिन् गुरौ विद्या ऊषुराभरणानि वा (इव)॥ २७॥
सुखितास्तास्समीक्ष्यापि गुरौ ज्ञानेशबोधिता ।
स्पर्द्धयेवाविशत् सौत्त्रीसाग्राताभ्योऽतिशायिनी ॥ २८॥
तत्तद्विद्यासु यावत्ता सर्वाप्यस्मिन् गुरौ स्थिरा ।
स्वस्वालङ्कार इत्येव नित्यावासममन्यत ॥ २९॥
आभिर्जुष्टं गुरुं वीक्ष्य क्षमाशान्त्यादयो गुणाः ।
मानसेऽस्य कृतस्थानाः वज्रलेपाञ्चिता इव ॥ ३०॥
विद्यगुणैरात्मगुणैर्निबद्धं बन्धदूरगम् ।
नृहरिस्सत्यसङ्कल्पः स्वचेतस्यकरोद्गुरुम् ॥ ३१॥
गुरोराशालवाले स्युः तत्तद्विद्यालताश्शुभाः ।
वाक्पुष्पैरर्च्चितदिशः शालिन्यश्च यशः फलैः ॥ ३२॥
श्रुत्वाऽस्यवाणीं विबुधाः सुधायां हरिगौरवात् ।
स्पृहां चक्रुः स्वबुद्ध्या न यद्वाङ्नित्यामृतप्रदा ॥ ३३॥
विद्याचन्द्रिकया जुष्टे राजमाने द्विजेश्वरे ।
सच्चकोराः कृतास्वादाः अन्ये काकपदानुगाः ॥ ३४॥
परिशुद्धैर्हविर्भिस्समनसा च यथोचितैः ।
अथ नित्योक्तविधिना तोषयामास माधवम् ॥ ३५॥
पाञ्चकालिकधर्मज्ञः यजन् तेनैव वर्त्मना ।
स्वार्चामाराध्य संहृष्टः दक्षो दक्षाद्भभौ सुधीः ॥ ३६॥
ये सात्त्विका महात्मानः श्रुतिसङ्गप्रहर्षदाः ।
उपमानमभूत्तेषां तत्तत्कृत्यसधर्मकृत् ॥ ३७॥
नतात्मनां गुरुर्बन्धुः लोके नारायणो यथा ।
यस्य शक्तिस्थिरोदर्का सर्वज्ञस्य महत्यभूत् ॥ ३८॥
पराशरो वा मुनिराड्रत्नं येन विनिर्मितम् ।
मुमुक्ष्वाभरणं पूर्वापराधिषु च धर्षणम् ॥ ३९॥
व्यासश्श्रुतिपरामर्शी श्रुतिसारैकसूत्रधीः ।
अभिज्ञो लोकवृत्तानां सद्भिरेषः प्रकीर्त्तितः ॥ ४०॥
शुकोऽयं कृष्णपक्षश्च वर्धमानः पदेपदे ।
निर्दोषकलया पूर्णो गुरुर्लोकैकवन्दितः ॥ ४१॥
दयया यति भूपालः पारमैकान्त्यसम्पदा ।
कूरनाथो भट्टवरः तत्त्वानां निर्णयोक्तिभिः ॥ ४२॥
तत्त्वविस्तारभूम्ना चोपकारकरसूक्तिभिः ।
त्रय्यन्तदेशिकस्सर्वतन्त्रे स्वातन्त्र्यतायुतः ॥ ४३॥
नृसिंहप्रीतिकरणे प्रह्लादोऽभूद्गुरुस्स्वयम् ।
सद्वृत्तैः प्रीणयन् सम्यग्ज्योत्स्नयैव जनं शशी ॥ ४४॥
दिव्यक्षेत्रेषु सर्वत्र वर्षन्तं वचनामृतम् ।
सर्वतृट्-शमनं सन्तो मेनिरे लक्ष्मणं यतिम् ॥ ४५॥
प्रबन्धार्थप्रवक्तारं भीकरं तद्विरोधिनाम् ।
कलिघ्नमथवा कारिसूनुं सर्वे शशङ्किरे ॥ ४६॥
शभकृद्वृत्तसम्पन्नः पारमैकान्त्यभस्वरः ।
हृदयङ्गमकीर्त्त्याढ्यः गुरुर्लोकैकवन्दितः ॥ ४७॥
तत्तादृग्गुणसम्पन्नं सच्चारित्र्यैकवत्सलः ।
लक्ष्मीनृकेसरी स्वार्थे यतीन्दुमकरोद्गुरुम् ॥ ४८॥
लक्ष्मीनृकेसरी सात्क्षात् शठारिश्चेत्युभौ गुरू ।
एकीभूयोदितौ येनाभिषिक्तस्तेन तत्पदे ॥ ४९॥
ब्राह्म्या श्रिया लौकिकया श्रीनृसिंहस्य तेजसा ।
भास्वन्तं भास्कराभं तं नतहृत्पद्मराशिषु ॥ ५०॥
श्रीनृसिंहशठारातियतीन्द्रस्स्वीयतेजसा ।
कृतनीराजनं प्रेम्णाकरोत्सर्वत्र भास्वरम् ॥ ५१॥
लक्ष्मीनृसिंहशठजिन्मनःकुमुदचन्द्रमाः ।
श्रीरङ्गशठजिद्योगी जयत्यद्भुतचेष्ठितः ॥ ५२॥
यतीन्द्वोर्मेळने श्लाघ्या शोभाहर्षकरी सताम् ।
अविच्छिन्नामृतास्वादा रामलक्ष्मणयोरिव ॥ ५३॥
कृतान्वयश्श्रीनृहरौ योगी भाति ह्यनन्वयः ।
लक्ष्मीनृसिंहशठजिद्योगीन्द्रकरुणाप्लुतः ॥ ५४॥
येन लक्ष्मीनृसिंहशठकोपयतीन्द्रेण रूपेण एकीभूय उदितौ
तेन योगीन्द्रेण तत्पदे अभिषिक्तः ॥ यतीन्द्रेण स्वपदेऽभिषिक्तः ॥
पशुव्याघ्रैक्यसम्पत्तिः गजसिंहसमाशयः ।
निर्वैरमभवत्तत्र प्रशान्ताश्रमसन्निधौ ॥ ५५॥
सदा तत्त्वविचारश्च सदाऽमृतविगाहनम् ।
श्रवणैर्विदुषां श्रीमद्धंसद्वितयसन्निधौ ॥ ५६॥
सर्वसंशयविच्छित्तिरहितार्थनिरासनम् ।
सर्वविद्याप्रचारश्च वरहंसयुगान्तिके ॥ ५७॥
वृष्टिर्वसोश्च विद्यायाः पुष्पस्य मधुनो यथा ।
सर्वामोदकरी लक्ष्मीनृसिंहहृदयङ्गमा ॥ ५८॥
सर्वथा संप्रवृत्ता सा देवानामपि दुर्लभा ।
दशधा लसदात्मापि तुष्यत्यात्मेश्वरो हरिः ॥ ५९॥
गुरुसन्तोषकृद्वृत्तः हंसश्शिष्यो यतिस्सदा ।
शिष्यहंसाभिमानी च यतिराड्-धर्मतत्त्ववित् ॥ ६०॥
सात्विकी परमा दृष्ठिस्तयोः परमहंसयोः ।
विभाति देहमात्रेण भेदो नैवाशये क्वचित् ॥ ६१॥
परस्परगुणादर्शौ परस्परगुणादरौ ।
परस्परप्रीतिनिधीविदुषां विस्मयावहौ ॥ ६२॥
ब्रह्मविद्योज्ज्वलत्स्वाङ्गं विश्वामोदकृतोदयम् ।
पद्मोल्लासकरं भान्तं विष्ण्वेकनिलयं यतिम् ॥ ६३॥
सर्वसन्तापहरणच्छायोल्लासितविग्रहम् ।
आश्रिताभीष्ठफलदं सौम्यं सूर्यं विलक्षणम् ॥ ६४॥
द्वारं भवतितीर्षूणां सद्भावं द्विजजन्मनाम् ।
अभावं दोषवर्गाणां श्रीरङ्गशठजिद्यतिम् ॥ ६५॥
सन्मार्गबुद्धिसद्धेतुं वरतेजोनिधिं शुभम् ।
सर्वारोग्यप्रदधियं शुचिकारणमाश्रये ॥ ६६॥
नृसिंहानुष्टुभा प्रीतो रङ्गिकारिजदत्तया ।
लक्ष्मीनृसिंहो यन्निघ्नः श्रये रङ्गशठद्विषम् ॥ ६७॥
देहवाग्वृत्तहृदयगाम्भीर्यात् कविमोहनम् ।
इत्थं त्वेन गिरावक्तुं यतीन्दुं मुह्यतीव धीः ॥ ६८॥
नित्यारियातुहन्तारं भवसिन्धुविशोषणम् ।
ममताविन्ध्यदमनं कुम्भजं मेनिरे यतिम् ॥ ६९॥
गरुत्मन्तमिवोद्यन्तं पक्षपातं विनोर्जितम् ।
विनतानन्दनं रङ्गशठजिन्नाम योगिनम् ॥ ७०॥
सर्वथाशेषभावेन द्योतमानं निजश्रिया ।
माधवार्पितसर्वांशं शेषं रङ्गशठद्विषम् ॥ ७१॥
शेषाशनं श्रीशधर्म्मनेतारं हरिसम्मतम् ।
तत्सेनान्यमिवाप्यन्यं श्रये रङ्गशठद्विषम् ॥ ७२॥
अनुष्ठितक्रतुशतं सर्वज्यैष्यपदस्थितिम् ।
यतिं महेन्द्रमपरं नरसिंहैकपालितम् ॥ ७३॥
धीप्रचोदनकर्तारं सर्वसन्मार्गदायिनम् ।
पुण्डरीकाक्षनिलयं सवितारमिवापरम् ॥ ७४ ॥
सुदर्शनं द्योतमानं हरेः करसमुज्ज्वलम् ।
चक्रेशमिव योगीन्द्रं विमताशाविबाधकम् ॥ ७५॥
रामान्वयकरं विष्णुपदद्योतितविग्रहम् ।
हंसं हंसान्वयाद्दीप्तं भस्वन्तमपरं यतिम् ॥ ७६॥
पाञ्चजन्यमिवाशेषमोदावहशुभद्ध्वनिम् ।
सतां जयप्रदगुणमसतां च भयावहम् ॥ ७७॥
श्लाघ्याभिजनसम्भूतं सदैव रमयेक्षितम् ।
यतिमन्यं कौस्तुभञ्च हृद्गतं च हरेर्गुणैः ॥ ७८॥
अविच्छिन्नगुणं श्रीमद्धरिशार्ङ्गमिवापरम् ।
अविनाभूतविजयं नित्यशत्रुविनाशनम् ॥ ७९॥
सदाधिष्ठितदेवेशं गुरुदृष्ट्याभिपालितम् ।
कृतपुण्यैर्जनैर्दृष्टं यतिं स्वर्गमिव स्थितम् ॥ ८० ॥
सरस्वतीपदमुखं सत्यपालनतत्परम् ।
स्वभक्तितुष्टहस्तीशमन्यं पद्मभवं यतिम् ॥ ८१॥
जाह्नवीतीर्थपूताङ्गं कलयोल्लसिताननम् ।
विश्वातिशायिसार्वज्ञ्यं ईशानमपरं यतिम् ॥ ८२॥
अमेघभीतिनिलयमतमस्सङ्गदुःखितम् ।
अनाभिजातसंसर्गं हंसं वन्दे विपश्चितम् ॥ ८३॥
अथ तेभ्यो नमोऽप्यस्तु यतीन्दुं विद्विषन्ति ये ।
अत्र प्रवृत्तमनसः यैश्च सन्धुक्षिता वयम् ॥ ८४॥
यदन्वयाद्विशुद्धास्स्युः भक्त्या दूषणया धिया ।
उभये शुद्धमनसः स्मरणं तत्र कारणम् ॥ ८५॥
विचार्य बुद्ध्याऽमलया यतीन्दोर्निर्मलाशयाः ।
वृत्ताब्धौ सन्त आसायं निमग्ना भवतश्रियै ॥ ८६॥
अपापभीरुहृदयैः अयतीन्द्रानुवर्त्तिभिः ।
अनृसिंहेक्षितैः किं वा सद्भिरेव हि केवलैः ॥ ८७॥
यस्मिन्नुपदिशत्यर्थं प्रणवैकसमुद्गतम् ।
मेने जनस्स्वमात्मानं जातं शेषं पुनर्नवम् ॥ ८८॥
सर्वद्विजसमक्षं हि कृतस्नानादिकक्रियः ।
जगद्धेतुर्रमानाथमर्घ्यदानादिनार्च्चयत् ॥ ८९॥
रविप्रभे जपत्यस्मिन् पद्मराशिस्स्मिताननः ।
स्वयं च निश्चलस्तस्थौ यतिना शिक्षितो यथा ॥ ९०॥
शुद्धभानुकराश्लिष्टं लक्ष्मीनरमृगेश्वरम् ।
अतोषयत्त्वभिगमैः परिवारेण संयुगम् ॥ ९१॥
नित्यसेवाविशुद्धात्मभूमिदेवगणेष्वसौ ।
श्रीभाष्यामृतवर्षाणि यथा मेघोऽभ्यवर्षयत् ॥ ९२॥
उच्चस्थेऽथ रवौ योगी योगतुष्टरमापतिम् ।
इज्याऽऽराधनसन्तुष्टं कारयामास वाग्यमी ॥ ९३॥
हुतशिष्टं यतिः सम्यक् शिक्यलब्धं सुधोपमम् ।
पवित्रमन्नं हार्दाय न्यवेदयद्यथोचितम् ॥ ९४॥
अथ द्वयार्थवक्ताऽसौ द्वन्द्वातीतस्सतां व्रजे ।
तोषयामास योगीन्द्रं श्रीनृसिंहशठद्विषम् ॥ ९५॥
समक्षञ्च दिनेशस्य कृतस्नानो यतीश्वरः ।
सन्दिग्धायां रविस्थित्यां नृसिंहारधने यतः ॥ ९६॥
लक्ष्मीनृसिंहशठजिद्योगीन्द्रं संप्रण्म्य च ।
कटाक्षामृतसन्तुष्टः जयत्यखिलवन्दितः ॥ ९७॥
अथ योगासने योगी योगतुष्टनृसिंहधीः ।
शेषिणं जगतां स्वस्य ध्यायति श्रीरमाश्रयम् ॥ ९८॥
एवं विधैर्बुधाश्चर्यैः कृत्यैर्हंसौ परस्परम् ।
हर्षयन्तौ सदा नम्रान् जीयातस्तां बहुवत्सरान् ॥ ९९॥
यत्रैतद्धंसयोश्शुद्धपदपङ्कजरेणवः ।
पावनास्सर्वजन्तूनां सा भूमिर्द्वारकादिका ॥ १००॥
श्रूयतेहंसयोर्नादः यत्रयद्विषयोऽपि वा ।
सा प्राणनाडिविद्यायाश्शीक्षाद्यायाश्च सम्पदः ॥ १०१॥
अहो ह्यदूषयं रङ्गशठजिद्योगिवैभवम् ।
यदपारं कलुषया वाचा गोष्पदमभ्रुवम् ॥ १०२॥
नन्दन्तु सन्तो यदि वा दूषयन्तु कृतिं मम ।
उभयं भूषणं नैव प्राज्ञेतरसमादरः ॥ १०३॥
जप्यमेतद्धि विदुषां मनोवाग्वृत्तभूषणम् ।
न हि त्यजन्ति विबुधा विधुं दोषाञ्चितं क्वचित् ॥ १०४॥
न चार्थतृष्णया ख्यात्यै यतीन्दुगुणचन्द्रिका ।
तद्गुणाविदुषां भक्त्या दर्शनार्थमियं कृतिः ॥ १०५॥
शब्दे स्वर्गदुहानेन सूरिभिश्शिक्षिता वयम् ।
लक्ष्मीनृसिंहशठजिद्योगिदृष्ठ्याविशोधिताः ॥ १०६॥
तुष्यत्वनेन वचसा शुभलक्ष्मीनृकेसरी ।
लक्ष्मीनृसिंहशठजिग्योगीन्द्रो दैवतं मम ॥ १०७॥
अनुष्ठुभा परमया वाचा साफल्यमीफ्सता ।
श्रीरङ्गशठजिद्योगिविधोर्वृत्तं च र्वणितम् ॥ १०८॥
॥ शुभमस्तु ॥
शठारिलक्ष्मणमुनीन्द्रार्च्चाधीः जयति श्रुतः ।
लक्ष्मीनृसिंहशठजित् चापादि प्रोष्ठपाद्भवः ॥
जयत्युच्चैर्गुरुश्श्रीकृद्बुधाश्लेषसमुन्नतिः ।
मकरेऽवतरन् रङ्गशठजिद्विश्वदेवभः ॥
श्रीमते श्रीमच्छठकोप श्रीरङ्गशठकोपयतीन्द्रमहादेशिकाय नमः ॥
इति आवियुर् श्रीनिवसचार्यविरचितः श्रीपार्थसारथिस्तवः समाप्तः ।
End of Part - 4
Encoded by Muthuraman Krishnamurthy
Proofread by PSA Easwaran