पार्वत्यादिदेवताकृतं श्रीकृष्णस्तोत्रम्
श्रीमहादेव उवाच ।
ज्ञानाधिष्ठातृदेवोऽहं स्तौमि ज्ञानपरं च किम् ।
सर्वानिर्वचनीयं तं त्वां च स्वेच्छामयं विभुम् ॥ ९८॥
धर्म उवाच ।
अदृश्यमवतारेषु यद्दृश्यं सर्वजन्तुभिः ।
किं स्तौमि तेजोरूपं तद्भक्तानुग्रहविग्रहम् ॥ ९९॥
देवा उचुः ।
के वयं त्वत्कलांशाश्च किं वा त्वां स्तोतुमीश्वराः ।
स्तोतुं न शक्ता वेदा यं न च शक्ता सरस्वती ॥ ७.१००॥
मुनय उचुः ।
वेदान्पठित्वा विद्वांसो वयं किं वेदकारणम् ।
स्तोतुमीशा न वाणी च त्वां वाङ्मनसयोः परम् ॥ १०१॥
सरस्वत्युवाच ।
वागधिष्ठातृदेवीं मां वदन्ते वेदवादिनः ।
किञ्चिन्न शक्ता त्वां स्तोतुमहो वाङ्मनसोः परम् ॥ १०२॥
सावित्र्युवाच ।
वेदप्रसूरहं नाथ सृष्ट्वा त्वत्कलया पुरा ।
किं स्तौमि स्त्रीस्वभावेन सर्वकारणकारणम् ॥ १०३॥
लक्ष्मी उवाच ।
त्वदंशविष्णुकान्ताहं जगत्पोषणकारिणी ।
किं स्तौमि त्वत्कलासृष्टा जगतां बीजकारणम् ॥ १०४॥
हिमालय उवाच ।
हसन्ति सन्तो मां नाथ कर्मणा स्थावरं परम् ।
स्तोतुं समुद्यतं क्षुद्रः किं स्तौमि स्तोतुमक्षमः ॥ १०५॥
क्रमेण सर्वे तं स्तुत्वा देवा विररमुर्मुने ।
देव्यश्च मुनयः सर्वे पार्वती स्तोतुमुद्यता ॥ १०६॥
धौतवस्त्रा जटाभारं बिभ्रती सुव्रता व्रते ।
प्रेरिता परमात्मानं व्रताराध्यं शिवेन च ॥ १०७॥
ज्वलदग्निशिखारूपा तेजोमूर्तिमती सती ।
तपसां फलदा माता जगतां सर्वकर्मणाम् ॥ १०८॥
पार्वत्युवाच ।
कृष्ण जानासि मां भद्र नाहं त्वां ज्ञातुमीश्वरी ।
के वा जानन्ति वेदज्ञा वेदा वा वेदकारकाः ॥ १०९॥
त्वदंशास्त्वां न जानन्ति कथं ज्ञास्यन्ति ते कलाः ।
त्वं चापि तत्त्वं जानासि किमन्ये ज्ञातुमीश्वराः ॥ ७.११०॥
सूक्ष्मात्सूक्ष्मतमोऽव्यक्तः स्थूलात्स्थूलतमो महान् ।
विश्वस्त्वं विश्वरूपश्च विश्वबीजं सनातनः ॥ १११॥
कार्यं त्वं कारणं त्वं च कारणानां च कारणम् ।
तेजस्स्वरूपो भगवान्निराकारो निराश्रयः ॥ ११२॥
निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ।
प्रकृतीशो विराड्बीजं विराड्रूपस्त्वमेव च ।
सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे ॥ ११३॥
प्रकृतिस्त्वं पुमांस्त्वं च वेदाऽन्यो न क्वचिद्भवेत् ।
जीवस्त्वं साक्षिणो भोगी स्वात्मनः प्रतिबिम्बकम् ॥ ११४॥
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः ।
ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरि यत् ।
केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ॥ ११५॥
वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ।
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ॥ ११६॥
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम् ।
शान्तं गोपाङ्गनाकान्तं रत्नभूषणभूषितम् ॥ ११७॥
एवं तेजस्विनं भक्ताः सेवन्ते सन्ततं मुदा ।
ध्यायन्ति योगिनो यत्तत्कुतस्तेजस्विनं विना ॥ ११८॥
तत्तेजो बिभ्रतां देव देवानां तेजसा पुरा ।
आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता ॥ ११९॥
नित्या तेजस्स्वरूपाऽहं धृत्वा वै विग्रहं विभो ।
स्त्रीरूपं कमनीयं च विधाय समुपस्थिता ॥ ७.१२०॥
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा ।
निहत्य सर्वाञ्छैलेन्द्रमगमं तं हिमालयम् ॥ १२१॥
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः ।
अभवं दक्षजायायां शिवस्त्री भवजन्मनि ॥ १२२॥
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया ।
अभवं शैलजायायां शैलाधीशस्य कर्मणा ॥ १२३॥
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि ।
पाणिं जग्राह मे योगी प्रार्थितो ब्रह्मणा विभुः ॥ १२४॥
शृङ्गारजं च तत्तेजो नालभं देवमायया ।
स्तौमि त्वामेव तेनेश पुत्रदुःखेन दुःखिता ॥ १२५॥
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम् ।
देवेन विहिता वेदे साङ्गे स्वस्वामिदक्षिणा ॥ १२६॥
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि ।
इत्युक्त्वा पार्वती तत्र विरराम च नारद ॥ १२७॥
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः ।
सत्पुत्रं लभते नूनं विष्णुतुल्यपराक्रमम् ॥ १२८॥
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः ।
सुपुण्यकव्रतफलं लभते नात्र संशयः ॥ १२९॥
विष्णुस्तोत्रमिदं ब्रह्मन्सर्वसम्पत्तिवर्द्धनम् ।
सुखदं मोक्षदं सारं स्वामिसौभाग्यवर्द्धनम् ॥ ७.१३०॥
सर्वसौन्दर्यबीजं च यशोराशिविवर्द्धनम् ।
हरिभक्तिप्रदं तत्त्वज्ञानबुद्धिसुखप्रदम् ॥ १३१॥
इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे सप्तमाध्यायान्तर्गतं
पार्वत्यादिकृतं श्रीकृष्णस्तोत्रकथनं समाप्तम् ।
ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ७/९८-१०७॥
brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 7/98-107..
Proofread by PSA Easwaran