पृथिवीकृतं १ विष्णुस्तोत्रम्
पृथिव्युवाच ।
त्रिविक्रमायामितविक्रमाय महावराहाय सुरोत्तमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु ते देववर प्रसीद ॥ १२॥
तव देहाज्जगज्जातं पुष्करद्वीपमुत्थितम् ।
ब्रह्माणमिहलोकानां भूतानां शाश्वतं विदुः ॥ १३॥
तव प्रसादाद्देवोऽयं दिवं भुङ्क्ते पुरन्दरः ।
तव क्रोधाद्धि बलवाञ्जनार्दन जितो बलिः ॥ १४॥
धाता विधाता संहर्ता त्वयि सर्वं प्रतिष्ठितम् ।
मनुः कृतान्तोऽधिपतिर्ज्वलनः पवनो घनः ॥ १५॥
वर्णाश्चाऽऽश्रमधर्माश्च सागरास्तरवोऽचलाः ।
नद्यो धर्मश्च कामश्च यज्ञा यज्ञस्य च क्रियाः ॥ १६॥
विद्या वेद्यं च सत्त्वं च ह्रीः श्रीः कीर्तिर्धृतिः क्षमा ।
पुराणं वेदवेदाङ्गं साङ्ख्ययोगौ भवाभवौ ॥ १७॥
जङ्गमं स्थावरं चैव भविष्यं च भवच्च यत् ।
सर्वं तच्च त्रिलोकेषु प्रभावोपहितं तव ॥ १८॥
त्रिदशोदारफलदः स्वर्गस्त्रीचारुपल्लवः ।
सर्वलोकमनःकान्तः सर्वसत्त्वमनोहरः ॥ १९॥
विमानानेकविटपस्तोयदाम्बुमधुस्रवः ।
दिव्यलोकमहास्कन्धः सत्यलोकप्रशाखवान् ॥ २०॥
सागराकारनिर्यासो रसातलजलाश्रयः ।
नागेन्द्रपादपोपेतो जन्तुपक्षिनिषेवितः ॥ २१॥
शीलाचारार्यगन्धस्त्वं सर्वलोकमयो द्रुमः ।
द्वादशार्कमयद्वीपो रुद्रैकादशपत्तनः ॥ २२॥
वस्वष्टाचलसंयुक्तस्त्रैलोक्याम्भोमहोदधिः ।
सिद्धसाध्योर्मिकलिलः सुपर्णानिलसेवितः ॥ २३॥
दैत्यलोकमहाग्राहो रक्षोरगझषाकुलः ।
पितामहमहाधैर्यः स्वर्गस्त्रीरत्नभूषितः ॥ २४॥
धीश्रीह्रीकान्तिभिर्नित्यं नदीभिरुपशोभितः ।
कालयोगमहापर्वप्रयागगतिवेगवान् ॥ २५॥
त्वं स्वयोगमहावीर्यो नारायण महार्णवः ।
कालो भूत्वा प्रसन्नाभिरद्भिर्ह्लादयसे पुनः ॥ २६॥
त्वया सृष्टास्त्रयो लोकास्त्वयैव प्रतिसंहृताः ।
विशन्ति योगिनः सर्वे त्वामेव प्रतियोजिताः ॥ २७॥
युगे युगे युगान्ताग्निः कालमेघो युगे युगे ।
मम भारावताराय देव त्वं हि युगे युगे ॥ २८॥
त्वं हि शुक्लः कृतयुगे त्रेतायां चम्पकप्रभः ।
द्वापरे रक्तसङ्काशः कृष्णः कलियुगे भवान् ॥ २९॥
वैवर्ण्यमभिधत्से त्वं प्राप्तेषु युगसन्धिषु ।
वैवर्ण्यं सर्वधर्माणामुत्पादयसि वेदवित् ॥ ३०॥
भासि वासि प्रतपसि त्वं च पासि विचेष्टसे ।
क्रुध्यसि क्षान्तिमायासि त्वं दीपयसि वर्षसि ॥ ३१॥
त्वं हास्यसि न निर्यासि निर्वापयसि जाग्रसि ।
निःशेषयसि भूतानि कालो भूत्वा युगक्षये ॥ ३२॥
शेषमात्मानमालोक्य विशेषयसि त्वं पुनः ।
युगान्ताग्न्यवलीढेषु सर्वभूतेषु किञ्चन ॥ ३३॥
यातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्तितः ।
च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु ॥ ३४॥
यस्मान्न च्यवसे स्थानात्तस्मात्सङ्कीर्त्यसेऽच्युतः ।
ब्रह्माणमिन्द्रं च यमं रुद्रं वरुणमेव च ॥ ३५॥
निगृह्य हरसे यस्मात्तस्माद्धरिरिहोच्यसे ।
सन्तानयसि भूतानि वपुषा यशसा श्रिया ॥ ३६॥
परेण वपुषा देव तस्माच्चासि सनातनः ।
यस्माद्ब्रह्मादयो देवा मुनयश्चोग्रतेजसः ॥ ३७॥
न तेऽन्तं त्वधिगच्छन्ति तेनानन्तस्त्वमुच्यसे ।
न क्षीयसे न क्षरसे कल्पकोटिशतैरपि ॥ ३८॥
तस्मात्त्वमक्षरत्वाच्च अक्षरश्च प्रकीर्तितः ।
विष्टब्धं यत्त्वया सर्वं जगत्स्थावरजङ्गमम् ॥ ३९॥
जगद्विष्टम्भनाच्चैव विष्णुरेवेति कीर्त्यसे ।
विष्टभ्य तिष्ठसे नित्यं त्रैलोक्यं सचारचरम् ॥ ४०॥
यक्षगन्धर्वनगरं सुमहद्भूतपन्नगम् ।
व्याप्तं त्वयैव विशता त्रैलोक्यं सचराचरम् ॥ ४१॥
तस्माद्विष्णुरिति प्रोक्तः स्वयमेव स्वयम्भुवा ।
नारा इत्युच्यते ह्यापो ह्यृषिभिस्तत्त्वदर्शिभिः ॥ ४२॥
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।
युगे युगे प्रनष्टां गां विष्णो विन्दसि तत्त्वतः ॥ ४३॥
गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ।
हृषीकाणीन्द्रियाण्याहुस्तत्त्वज्ञानविशारदाः ॥ ४४॥
ईशिता च त्वमेतेषां हृषीकेशस्तथोच्यसे ।
वसन्ति त्वयि भूतानि ब्रह्मादीनि युगक्षये ॥ ४५॥
त्वं वा वससि भूतेषु वासुदेवस्तथोच्यसे ।
सङ्कर्षयसि भूतानि कल्पे कल्पे पुनः पुनः ॥ ४६॥
ततः सङ्कर्षणः प्रोक्तस्तत्त्वज्ञानविशारदैः ।
प्रतिव्यूहेन तिष्ठन्ति सदेवासुरराक्षसाः ॥ ४७॥
प्रविद्युः सर्वधर्माणां प्रद्युम्नस्तेन चोच्यसे ।
निरोद्धा विद्यते यस्मान्न ते भूतेषु कश्चन ॥ ४८॥
अनिरुद्धस्ततः प्रोक्तः पूर्वमेव महर्षिभिः ।
यत्त्वया धार्यते विश्वं त्वया संह्रियते जगत् ॥ ४९॥
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ।
यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ॥ ५०॥
मया हि धार्यते पश्चान्नाधृतं धारये त्वया ।
न हि तद्विद्यते भूतं त्वया यन्नात्र धार्यते ॥ ५१॥
त्वमेव कुरुषे देव नारायण युगे युगे ।
महाभारावतरणं जगतो हितकाम्यया ॥ ५२॥
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥ ५३॥
दानवैः पीड्यमानाऽहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयामि सनातनम् ॥ ५४॥
तावन्मेऽस्ति भयं देव यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये ॥ ५५॥
उपमानं न ते शक्ताः कर्तुं सेन्द्रा दिवौकसः ।
तत्त्वं त्वमेव तद्वेत्सि निरुत्तरमतः परम् ॥ ५६॥
इति मत्स्यपुराणे अष्टचत्वारिंशदधिकद्विशततमाध्यायान्तर्गतं
पृथिवीकृतं विष्णुस्तोत्रं समाप्तम् ।
मत्स्यपुराण । अध्याय २४८/१२-५६॥
matsyapurANa . adhyAya 248/12-56..
Proofread by PSA Easwaran