श्रीपद्मनाभकटाक्षनक्षत्रमाला
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
श्रीमदुभयवे. विल्लर्. नडादूर. श्रीभाष्यसिंहासनाधिपति.
साहित्य-व्याकरण-वाचस्पति. श्रीमद्वेङ्कटशेषार्यमहादेशिकानुगृहीता
वन्दे वेङ्कटशेषार्य वात्सल्यादिगुणार्णवम् ।
वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥
अथ श्रीपद्मनाभकटाक्षनक्षत्रमाला ।
कामं काङ्क्षितसिद्ध्यै प्रथमगुरुं नौमि पद्मनाभमहम् ।
प्राचार्यमण्णयार्यं स्वाचार्यं सुन्दरार्यगुरुवर्यम् ॥ १॥
भार्गवीप्रभया भ्राजद्वक्षोभागेन भास्वरम् ।
भजतामभयोद्युक्तं पद्मनाभमहं भजे ॥ २॥
श्रीपद्मनाभ ! महिते तव सन्निधाने
का शक्तिरस्ति मम वर्णमपीह वक्तुम् ।
स्तोतुं पुनः किमु दयाजलधे ! तवैव
काऽपि प्रसक्तिरिह मां मुखरीकरोति ॥ ३॥
पुत्रस्नुषाशयनवाहननेत्रयुग्म-
पौत्रादिमेषु तव सत्स्वपि तादृशेषु ।
को वा न ते सविधमेत्य गुणानवोचत्
नाप्लावितस्तव दयाशिशिरैरपाङ्गैः ॥ ४॥
श्रीपद्मनाभ ! ललितं तव दिव्यमूर्ति-
रूपानुरूपमहमाभरणं प्रदित्सुः ।
आत्मन्यशक्तिमथ वीक्ष्य करोमि वाचा
नक्षत्रगुम्भनलसन्नवरत्नमालाम् ॥ ५॥
आपुर्यदीयलवतः कुलशेखराद्याः श्रीपुष्टिमश्वयुगनर्घगजादिहृद्याम् ।
या पुण्यराशिविभवेषु विहारशीला सा पद्मनाभ ! तव पातु कटाक्षमाला ॥ ६॥
त्वामेकदैवतधिया शरणं प्रपन्नं क्षामेतरात्मकरुणाभरणीयमेनम् ।
श्रीपद्ममञ्जुलमुखेन्दुविहारहेला श्रीपद्मनाभ ! तव पातु कटाक्षमाला ॥ ७॥
श्रीपद्मसम्भवमुखैरनघैर्मखाशैः या कृत्तिकापटधरेण समं मखघ्ना ।
आपद्यते शरणमाश्रितपक्षपाला श्रीपद्मनाभ ! तव पातु कटाक्षमाला ॥ ८॥
आरोहिणीं दिशति सम्पदमृद्धिमूलां या रोहिणीशसुधयेव सदार्द्रशीला ।
तापत्रयप्रशमनोपहितात्मलीला सा पद्मनाभ ! तव पातु कटाक्षमाला ॥ ९॥
किं पद्मजात् मृगशिरः करतोऽन्यतो वा सम्पन्नमस्तु कृपणान् कृपणा भजन्ते ।
आपं चतुर्विधपुमर्थमहाफलाय श्रीपद्मनाभ ! तव दिव्यकटाक्षमालाम् ॥ १०॥
आर्द्रापराधमपि मामनुकम्पनीयं सार्द्रावलोकनसुधारसवर्षिणीयम् ।
हे पङ्कजाक्ष ! करुणानृतिचन्द्रशाला श्रीपद्मनाभ ! तव पातु कटाक्षमाला ॥ ११॥
प्राग्जन्मपुण्यविरहात् वसुहीनमेनं वाग्जन्यसंस्तवगुणैरुदयद्विकासम् ।
पापं पुनर्वसुयुतं विदधात्वसौ मां श्रीपद्मनाभ ! तव दिव्यकटाक्षमाला ॥ १२॥
पुष्यत्प्रभापरिचितां पुनरुक्तशीतां हृष्यत्प्रपन्नकुलरक्षणबद्धदीक्षाम् ।
स्वापं विनैव सुखदानमहे विलोलां श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १३॥
स्वामिन्! सदा करुणया हितया विभास्वदाश्लेषया जनितसर्वजनप्रसादाम् ।
श्रीमन्ननन्तपुरदिव्यविमानधामन् ! श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १४॥
पद्मोद्भवश्च स च भवो मघवा च शास्ता सद्मोपरि स्थितिजुषस्तव संस्तवाशाः ।
आपन्निवारणचणां इति यां स्तुवन्ति श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १५॥
वल्गु त्वदीयपदपद्मरतिं विहाय फल्गुन्यहं व्यधितधीः विषये हि पूर्वम् ।
आप्तं श्रमं शमयितुं तमनन्तशायिन् ! श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १६॥
सर्वोत्तरा तव दया यदि फल्गुनीयं गर्वोत्तराऽपि सुखिता मम धीश्शुभा स्यात् ।
धीपञ्जरे मम सदैव यथा भवान् स्यात् श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १७॥
न्यस्ते भरे त्वयि मया सहसैव सर्वं हस्ते भवेदिति फलं दृढनिश्चयोऽहम् ।
प्रापं तवैव चरणौ शरणं शरण्यौ श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १८॥
अत्राखिलेश! भुवने परिचिन्त्यमाने चित्रा विभाति तव विश्वजनीनरीतिः ।
आपद्मजातमखिलस्य गुहाशयात्मन्! श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ १९॥
स्वातीप्सितानि कुरुते त्वयि काऽपि भक्तिः नातीवचित्रमिदमप्यहितेऽत्युदारे ।
सापत्रपं विबुधपादपमादधानां श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २०॥
कान्तं तवाङ्घ्रियुगलं निगलं हृदो मे श्रान्तस्य संसृतिपथे शरणं गतस्य ।
श्रीमन् ! विशाखमुखलेखकुलैकदेव ! श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २१॥
सर्वापराधमपि तावकसञ्चितं ते शर्वादयोऽपि निगदन्ति तवैव भोग्यम् ।
आपन्न इत्यविगणय्य ममापराधान् श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २२॥
ज्येष्ठा भवन्ति गुणशीलमुखैश्च बोधे श्रेष्ठाः परे कति कतीह न वा तवेष्टाः ।
रूपं स्वमप्यविदुषि स्वयमेव बाले श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २३॥
शीलं न वीक्ष्य दयते हि भवान् प्रपन्ने मूल ! त्वमेव शरणं मम हे भवेति ।
द्वैपं वचोऽपि हृदये सदयेऽह्यभूत्तत् श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २४॥
आषाढभूतिरिव पूर्वमहं महत्सु वेषान्तरेण रचितुं कपटं पटीयान् ।
हे पङ्कजाक्ष ! तव दास्यसुखः कथं स्यां श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २५॥
आषाढमुत्तरमुडु त्विह जन्मतारं शेषा वदन्ति परमेव तव प्रसक्तेः ।
आपादने न वितथं विदधान एतत् श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २६॥
जातायतादमलमाश्रवणात् सुजातात् भीताभयप्रदरुचेः नयनाम्बुजातात् ।
आपन्नरक्षणविधौ अतिमात्रलोला श्रीपद्मनाभ ! तव पातु कटाक्षमाला ॥ २७॥
त्वत्कीर्तनं तव कथाश्रवणं तवार्चां सत्कीर्तिहेतुमपि सद्गतिकारणानि ।
के पङ्कमोचनचणं न विदन्ति धीराः श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २८॥
युक्तात्मनोऽपि जगति त्वमबाधनिष्ठान् भक्तान् स्वयैव दययाऽभयया तनोषि ।
कापथ्यशीलरुचिरस्मि कथं कृती स्यां ? श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ २९॥
सन्तापकारिणि भृशं भवसञ्ज्वरे मे चिन्ताकुलैः शतभिषग्प्रवरैः चिकित्सा ।
आपद्यते किमु भवन्तमृतेऽमृतेश ! श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ ३०॥
पूर्वं यथाकथमपि स्थितिभागिनोऽपि चार्वञ्चिताक्षियुगभाद्रपदा हि ते स्युः ।
ये पत्रिलास्तव कदाचिदपाङ्गवर्षेः श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ ३१॥
आर्द्रापराधशतमूलमहो नरास्त्वदाद्यं तरङ्गिततरङ्गमपाङ्गसङ्गम् ।
प्राप्य देहमथ भाद्रपदोत्तरास्ते श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ ३२॥
घोरेऽवतीह खलु को भवदाववह्नौ दूरे त्वदेकशरणं च नितान्ततान्तम् ।
श्रीप ! क्षमो जनमिमं त्वदृते दयालो श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ ३३॥
आशास्तथैव बहुशोऽनुभवन्ति सर्वाः आशास्तथाभिजितवैरिगणा भजन्ति ।
ये पद्मशोभि तव पादयुगं नतास्ते श्रीपद्मनाभ ! तव देहि कटाक्षमालाम् ॥ ३४॥
पद्मावलीयमखिलेश ! तव प्रसक्त्यै हृद्या भवत्विति समर्पयते विनम्रः ।
श्रीपद्मजाब्जकरलालितपादपद्म ! श्रीपद्मनाभ ! तव वेङ्कटशेषदासः ॥ ३५॥
॥ इति श्रीपद्मनाभकटाक्षनक्षत्रमाला समाप्ता ॥
वन्दे वेङ्कटशेषार्यं वात्सल्यगुणवारिधिम् ।
वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥
॥ श्रीमते वेङ्कटशेषार्यमहादेशिकाय नमः ॥
Proofread by Aruna Narayanan