पराशरमुनिप्रोक्ता विष्णुस्तुतिः
पराशर उवाच ।
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने
विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यस्स्थितोऽमलधियां पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ॥ ५७॥
यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो
यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।
यं सञ्चिन्त्य न जायते न म्रियते नो वर्द्धते हीयते
नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ॥ ५८॥
कव्यं यः पितृरूपधृग्विधिहुतं हव्यं च भुङ्क्ते विभुः
देवत्वे भगवाननादिनिधनस्स्वाहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां
विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ५९॥
नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु
यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥ ६०॥
तस्यैव योऽनु गुमभुग्बहुधैक एव शुद्धो-
अप्यशुद्ध इव भाति हि मूर्त्तिभेदैः ।
ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता
तस्मै नमोऽस्तु पुरुषाय सदाऽव्ययाय ॥ ६१॥
ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो
भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय
वन्दे स्वरूपभवनाय सदाऽजराय ॥ ६२॥
व्योमानिलाग्निजलभूरचनामयाय
शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसस्समस्तकरणैरुपकारकाय
व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६३॥
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां स सिद्धिम् ॥ ६४॥
इति श्रीविष्णुमहापुराणे षष्ठांशे अष्टमाध्यायान्तर्गता
पराशरमुनिप्रोक्ता विष्णुस्तुतिः समाप्ता ।
विष्णुपुराण । अध्याय ६/८/५७-६४॥
viShNupurANa . adhyAya 6/8/57-64..
Proofread by PSA Easwaran