श्रीपरमाधवस्तुतिः

श्रीपरमाधवस्तुतिः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १॥ श्रीमत्याश्रितसन्तानः श्रीशैलाग्रे कृतालयः । करोतु कमलाकान्तः कामितं नः फलं महत् ॥ २॥ रमारमण वाञ्छितं वितर दासदासाय मे रसारमणिभालभूतिलकिताहिशैलालय । कुचेलमिव गोपिकावशगजानकीनाथ भो विभीषणमिवाव मां विहितभक्तिपूर्तिं विभो ॥ ३॥ यदम्बुकणिकाश्रिताः प्रतिदशं मरुत्पोतका- श्चलन्त इह चङ्क्रमाद्यलसचेतसः प्राणिनः । पुनन्ति पुरुषोत्तमाम्बुरुहिणी मनोहारिणी पुनर्जनिभयं त्वियं हरतु मे सकृन्मज्जनात् ॥ ४॥ नमज्जनतमश्छटाकबलनैकबद्धादरं नभोमणिमिवापरं नक्सरोजिनीसेवितम् । नमाम्यहममुं मुहुर्नभसि रोचमानं सदा नगेन्द्रमुरगाधिपाभिधमुदूढनारायणम् ॥ ५॥ प्रपत्तिफलकारणं प्रणमदार्तिविद्रावणं फणीन्द्रगिरिभूषणं भगवदङ्घ्रियुग्मार्पितम् । यदेतदहमिन्दिराकुचतटद्वयीलाञ्छनं यदेव निखिलत्रयीशिखरलाल्यमद्याश्रये ॥ ६॥ विरिञ्चभवदेवराडिहितनित्यपूजोज्ज्वलं वियत्सरिदुपाहृतैर्विमलतोयपद्मोत्पलैः । विधूतशकटासुरं विहितगौतमस्त्रीसुखं विभोः पदयुगार्पणं विजयते फणीन्द्राचले ॥ ७॥ विधूतविनतापदं विबुधवृन्दवन्धं सदा विनौमि विनतासुतं विहगराजमेनं विभुम् । य एत्य युधि रावणिप्रहितघोरनागास्त्रतो ररक्ष सहवानरैर्झटिति सानुजं राघवम् ॥ ८॥ यथा हरिपदावनीयुगमवर्णयत्तत्वत- स्त्रयीशिखरदेशिकः किल सहस्रधा यत्पुरा । तथैव बहुधा तनुं दधदिवात्र नानाकृते र्विभाति जगदीशितुश्चरणरक्षणैकादरम् ॥ २॥ इदं सरसिजा (लया) कमनपादरक्षाद्वयी- शतं हरतु मे तमश्शतसहस्रजन्मार्जितम् । यदाश्रयतया जगत्त्रितयविक्रमैकक्षमं बभूव परमात्मनोऽप्यनुपमस्य पादाम्बुजम् ॥ १०॥ स्फुरत्कनकभित्तिकाघटितचित्ररत्नप्रभा- परीतमिदमिन्दिरारमणमन्दिरं राजते । यदीयमिह दर्शनं भवति मुक्तिदं देहिनां विना झटिति सत्क्रियां जननचक्रमासेदुषाम् ॥ ११॥ नमस्तस्मै यस्मिन् वसति परमात्मा स भगवान् रमाभूनीलाभिः सह विहृतिलोलाभिरतुलः । विमानं रत्नाढ्यं जगति यदहीन्द्रक्षितिभृतः शिरोरत्नं विष्वक् स्फुरति महदानन्दनिलयम् ॥ १२॥ इदं नमोऽस्मद्गुरवे च तस्मै भूयस्तदाचार्यपरम्पराभ्यः । त्रय्यन्तगुर्वादियतीश्वरश्री- शठारिसेनेशरमाधिपेभ्यः ॥ १३॥ वन्दे मन्दारमालाधरमिह महसां वृन्दमिन्दीवराभं वन्द्यं वन्दारुकाणामनवधिकदयानन्दकन्दं मुकुन्दम् । नाना त्वाम्रायवेद्यं विलसति फणिराड्भूभृदग्रे रमाभू- नीलालीलानुकूलं विमलतरमिदं विश्वरक्षाधुरीणम् ॥ १४॥ वाञ्छाधिकं प्रणमतां फलमत्र दातुं वातन्धयाद्रिशिखरे वसतो मुरारेः । पादद्वयं परिसरानमतो ममेद- मुत्तंसपल्लवरुचिं विदधातु मौलौ ॥ १५॥ उपनतहरचूडाचन्द्रलेखाभिमुक्ता- मृतसुरुचिरबिन्दुश्रेणिकेवेयमाशु । विदलितनवमुक्ताजालगौरा मुरारे- श्चरणनखररेखा शाश्वनी नः पुनातु ॥ १६॥ पादाभिवन्दनकृते परमात्मनो नु श्रीनाथपादकटकाकृतिमभ्युपेत्य । संलक्ष्यते किमयमद्य स चित्रभानु- र्नो चेत् कुतोऽस्य विभुविष्णुपदोपसेवा ॥ १७॥ जङ्घाद्वयी जगदधीशितुरस्य रम्या जेतुः स्मरस्य जयकाहलिकायुगीव । आभाति चारुमणिनूपुरकान्तिचित्रा यस्यां मनांसि यमिनां सततं रमन्ते ॥ १८॥ वृत्ता विचित्रवसुधारमणीनिजाङ्ग- लावण्यदर्शनलसन्मणिदर्पणश्रीः । अद्यैव मे महदघौघतमिस्रमेषा विश्वेशजानुयुगली शिथिलीकरोतु ॥ १९॥ सौन्दर्यसम्पदुदयाकुलपारिजातौ संवीतपीतवसनौ सदृशाविमौ तौ । नीलारमावसुमतीनियतोपधाने नेतुः श्रियः श्रयतु मे मतिरूरुकाण्डौ ॥ २०॥ आबद्धपीतवसना नवरत्नकाञ्ची- संवेष्टिता कटितटी कमलाधिपस्य । पर्यन्तहाटकमहीच लसद्विचित्र- रत्नद्युतिः स्फुरति सेयमिहाञ्जनाद्रेः ॥ २१॥ रम्या रमारमणनाभिरसौ गभीरा राजीवजन्मजननी जगतां विधात्री । तद्देहकान्तियमुनासरितोऽद्भुतश्री- रावर्तविभ्रममितो विदधाति नूनम् ॥ २२॥ वक्षःस्थलीविहरदम्बुधिकन्यकाया हस्तोच्चलत्कमलरेणुकरम्बितेन । लिप्तं विभाति वपुरस्य सुचन्दनेन बालातपारुणमिवाग्रतदं महाद्रेः ॥ २३॥ आनीलभासुरविशालभुजान्तराल- व्योमस्फुरत्पृथुलमौक्तिकहारनद्याः । हेमाब्जपङ्क्तिरिव कौस्तुभकान्तिरेखा श्रीवत्सदीधितिचलन्मधुपालिरस्य ॥ २४॥ शङ्खं शशाङ्कधवलाङ्गमसौ दधानो वामे सदा करतले वरदानहेस्तः । संलक्ष्यते खलु लसन्निजकन्धरस्य सायं परीक्षितुमिवास्य च कण्ठदघ्रम् ॥ २५॥ हस्ताम्बुजेन विधृतं विमलं रथाङ्ग- मालोक्यते जलधिजाधिपतेरमुष्य । यद्दक्षिणेन नवनीरदनीलकान्ते- रर्कस्य मण्डलमिवोदयशैलमूर्ध्ना ॥ २६॥ कस्तूरिकाकलितचारुकलङ्कभाजो मन्दस्मितद्युतिभराकुलचन्द्रिकस्य । चन्द्रस्य चास्यमुखचन्द्रमसः कलाभिः पूर्णस्य कः सततमत्र वदेत साम्यम् ॥ २७॥ आलोमनीलकुटिलालकजालनूत्न जीमूतपङ्क्तिपरिवेष्टितमूलभागः । संलक्ष्यते मुररिपोर्मणिमौलिरेष भास्वत्कराक्रमितमूर्तिरिवाद्रिराजः ॥ २८॥ तत्तादृक्धृतशार्ङ्गचापरुचिरो वक्षःस्थलक्ष्मीतटि- त्कारुण्यामृतवृष्टिरद्भुतदरध्वानातिभीमारवः । मुक्ताहारबलाकसन्ततियुतो मूर्ध्न्यञ्जनक्ष्माभृतः पुण्यश्रीर्वनमालया विजयते श्रोविष्णुकालाम्बुदः ॥ २९॥ हस्तोदञ्चितशङ्खचक्ररुचिभिः सर्वाः समुद्भासयन् आशास्तादृगनर्घ्यरत्नरुचितैराकल्पितो भूषणैः । अग्रे काञ्चनमौलिकुण्डललसत्केयूरहारादिभि- र्भाति श्रीगिरिनायकः सह मया पूर्णेन्दुबिम्बाननः ॥ ३०॥ तं वन्दे तपनीयचेलमनघं ताराधिपार्केक्षणं ताराजालविशुद्भमौक्तिकलसन्मालाभिरामोरसम् । श्रुत्यन्तप्रतिपाद्यनैजचरितः श्रीमान् दयावारिधिः श्रीशैलाग्रनिकेतनः श्रितपरित्रातेति यो विश्रुतः ॥ ३१॥ श्रीमन्मीनशरीर मामव महाकूर्माङ्ग कोलाकृते । पाहि श्रीनरसिंह वामनतनो विष्णो दयावारिधे । भास्वद्भार्गवराम राघव कृपामूर्ते हलिन् माधव श्रीकृष्णाखिललोकनाथ सहसा कल्किन् मुरारे विभो ॥ ३२॥ त्राहि त्राहि दयानिधे झटिति मां दारिद्र्यनक्रानना- दन्तस्तीव्रऋणाख्यदन्तनिकरैरापीडिताङ्गं सदा । पद्माकामुक पादयोनिपतितं पद्माक्ष ते त्वं जवा- न्नो चेत् का गतिरत्र मे त्रिजगतां मध्ये त्वदन्या विभो ॥ ३३॥ नक्रग्रस्तपदः स नाथ करिगडाक्रुश्य मूलेति न त्रातः किं भवता त्रिलोकपतिना तूर्णं समागच्छता । हा कृष्णेत्यवमानितामपि परैरने कुरूणां मुहुः क्रोशन्तीं सहसा ररक्ष भुवि कः कृष्णां त्वदन्यस्तु ताम् ॥ ३४॥ ख्यातिः खल्विह पर्यपालय इति हि त्वं राममूर्तिः पुरा श्रीमन् वालिनिरस्तमात्मसचिवैरन्यं वनान्तं गतम् । दीनं दीनशरण्य साधु सहसा सुग्रीवमाश्वास्य तं राज्यस्थं कलयन्निहत्य तदरिं चात्मार्थसिद्धिच्छलात् ॥ ३५॥ एवम्प्राया महात्मन्निरवधिकदयासिन्धुना बन्धुना न त्राता भीता जगत्यां कति कति विविधोपद्रवाद्देहभाजः । लोकस्यास्य त्वया श्रीरमण तदहमप्येक एवाद्य तेषां क्षिप्रं संरक्ष पापादनितरशरणं मामिमं त्वत्कटाक्षैः ॥ ३६॥ विस्मृत्यास्मत्कृतानि प्रतिजननमसत्कृत्यजालान्यमेया- न्यद्य त्वन्दीनबन्धो सकृदपि रचितामानतिं वा स्तुतिं वा । व्याजीकृत्य प्रसन्नो यदि मयि कृपया वर्तसे तत्तव स्या- द्युक्तं खल्वन्यथा चेदनवधिकदयापारवश्यस्य नैव ॥ ३७॥ सद्यः प्रसीद जगदीश यथा भवेयं दारिद्र्यदुःखऋणसङ्कटतो विमुक्तः । श्रीमन्नथ प्रणतरक्षक मां प्रपन्नं संयोजयस्व समये भवदङ्घ्रि (का)भ्याम् ॥ ३८॥ रमाकान्त स्वान्तं रघुवर नितान्तं मदवशात् परिभ्रान्तं पापोन्मुखमनिशमुन्मत्तचरितम् । निगृह्येतत् क्षिप्रं निरवधिदयाब्धे मम भव- त्पदाम्भोजद्वन्द्वे कलय चिरलीलापरवशम् ॥ ३९॥ स्वधाम्नो वैकुण्ठादपि वरमिदं पन्नगगिरेः शिरस्तुङ्गं श्रीमन्निति यदवतीर्णोऽसि रमया । सुयुक्तं तत्तस्मादपि गतवतो धन्विनगारं हरे को वा लाभस्तव कथय गोदालयमिदम् ॥ ४०॥ ततः श्रीवैकुण्ठादपि सुभगमित्येतदधुना मृषा शेषक्षोणीधरशिखरमभ्येत्य वससि । यदेतत् किन्तु श्रीरमण करुणासार भगवन् मुदा गोदापाणिग्रहणकरणायैव नियतम् ॥ ४१॥ वन्दे तमिन्दिराकान्तं मन्देतरकृपारसम् । इन्दीवरदलश्याममिन्दुबिम्बसदृङ्मुखम् ॥ ४२॥ वेदं च शास्त्रमनवद्यमधीश लक्ष्म्याः सत्यं कुरुष्व भव सत्यवचोऽग्रणीस्त्वम् । दत्त्वा क्षणेन मदभीप्सितमद्य शेष- क्षोणीभृदीश विनतं कुरु मां कृतार्थम् ॥ ४३॥ ग्रामारामक्षितिधनपशुव्रातभूषासुभृत्य- स्थानीयाद्यौरिह बहुविधैः साधनैश्चानपेक्षम् । भूयो नित्यं जयति महदाराधनं यस्य शेष- क्षोणीभर्तुः शिरसि वसतः श्रीधरं तं प्रपद्ये ॥ ४४॥ तस्मादद्यैव लक्ष्मीपरिबृढ सहसा दुःसहां दुर्दशां मे छित्त्वैमा वेङ्कटक्ष्माधरनिलय हरे पूर्वपापोपलब्धाम् । दत्त्वा मद्वाञ्छितार्थ सकलमपि बलादैहिकामुष्मिकाख्यं भक्तिं पादाब्जयोस्ते भवदुरितगतिध्वंसिनीं रक्ष मां त्वम् ॥ ४५॥ इति तातयार्यकविना विनिर्मिता मितबुद्धिनापि कृपया मुरद्विषः । पठतामभीष्टफलदा सतामियं मुदमातनोतु परमाधवस्तुतिः ॥ ४६॥ इति श्रीपरमाधवस्तुतिः सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Paramadhava Stuti 03 07
% File name             : paramAdhavastutiH.itx
% itxtitle              : paramAdhavastutiH
% engtitle              : paramAdhavastutiH
% Category              : vishhnu, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-07
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org