परमपुरुषप्रार्थना
(विष्णुपादादिकेशान्तवर्णनस्तुतिपूर्विका )
सेवाहेवाकदेवाधिपमकुटतटीस्रस्तमन्दारमाला-
लीलमालम्बमाना मधुरसपृषतश्रेणिकेनाङ्घ्रिपद्मे ।
गङ्गाभङ्गानुषङ्गादिव दनुजरिपोः पाण्डिमानं वहन्ती
पायादस्मानपायान्नखमणिसरणिस्तारकाकारकान्ता ॥ १॥
सेवाघूर्णन्मृडानीपरिवृढमकुटीकोटिकान्तारवाटी-
लीलालोलोर्मिमालोच्चलदमरसरित्पूरबिन्दुप्रबन्धाः ।
शोभन्ते हंसशाला इव नलिनधिया यत्र संश्लेषभाजो
राजीवाक्षस्य दद्यात् किसलयसदृशं तत्पदं सम्पदं नः ॥ २॥
गङ्गां वामाङ्घ्रिसङ्गान्महिमगरिमगां काममत्येतुकामा
सा मार्ताण्डस्य कन्या चरणनलिनयोः किन्नु लग्ना चिराय ।
इत्येषा शङ्क्यमाना विबुधसमुदयैः श्रीपतेरिन्द्रनील-
प्रत्युप्तात्यन्तदीप्यत्कटकरुचिझरी रक्षतादक्षतान्नः ॥ ३॥
नादं कादम्बिनीनामिव तरलधियो यां समाकर्ण्य भूरि
त्रासादासादिताशाविधिसितगरुतो नाभिपद्मोपविष्टाः ।
छत्रायन्ते मुरारेरुपरिवलयिनः साद्यमञ्जीरशिञ्जा-
नल्पा कल्पान्तयूनो मम दुरितततेः कल्पतामरूपतायै ॥ ४॥
पूर्वं पादारविन्दे परिपतनजुषां योगिनां मानसाना-
मूर्ध्वारोहाय शातक्रतवमणिसमाबद्धनिश्रेणिकेव ।
अन्योन्यांशुप्ररोहप्रसरणसुभगं भावुकं शौरिजङ्घा-
युग्मं तिग्मांशुलीलामिह बहतु तमोमूलनिर्मूलनेन ॥ ५॥
अस्ताश्लोषाधिरज्यद्दिनकरकिरणश्रेणिशोषीकृताभ्र-
च्छायालीढेन्द्रनीलाचलविपुलतटीसाम्यमाटीकमानम् ।
श्रीमत्पीताम्बरश्रीपरिकलनवशादूरुयुग्मं मुरारेः
कान्तं स्वान्तं धिनोतु स्थिरचरकदलीकाण्डदण्डोपमं नः ॥ ६॥
ऊरुव्याजेन राजन्मृदुलकदलिकामूलकन्दायमानौ
संवीतौ पीतिमश्रीविहसितविकसत्किंशुकेनांशुकेन ।
लावण्यस्येव राशी मणिमयविरणत्काञ्चिदामाभिरामौ
पातां पीताम्बरस्य प्रमुषितनलिनश्रीकदम्बौ नितम्बौ ॥ ७॥
वक्षोदेशस्थलक्ष्मीवदनविलसितस्तेयकृत्यै निलीय-
च्छिद्रान्वेषीव निद्रारसमपि विजहात्यद्य नालीकमेकम् ।
निम्नं नाभीबिलं तद्दनुजविजयिनः कान्तिलीलातटाकं
लोकस्यैकं वितानं विहितवदसितं पातु नो मध्यमस्य ॥ ८॥
एषा मेऽशेषदोषाञ्छमयतु शयनीभूतभोगीन्द्रसान्द्र-
स्फायन्निःश्वासवातैरनवरतमधः प्रेर्यमाणा मुरारेः ।
लक्ष्मीलीलागृहान्तर्ज्वलदमलमहाकौस्तुभच्छद्मदीप-
प्रोद्भूतश्यामधूमावलिरिव विरलान्येतरा रोमराजिः ॥ ९॥
अश्रान्तं दिव्यलीलाकमलविकसनापादनाय प्रियायाः
पार्श्वे विश्वप्रसिद्धाद्भुतमहिमवता कामिना केशवेन ।
निर्माय स्थापितान्यो निधिरिव महसामेष वक्षःस्थलस्थः
प्रत्यक्पर्यायमूर्तिर्वितरतु चतुरं कौस्तुभं प्रातिभं नः ॥ १०॥
शङ्खं चक्रं कृपाणं धनुरपि दनुजच्छेदनायोद्वहन्तः
क्रान्ता मूर्तैः प्रतापैरिव भुजवलयैः पद्मरागानुविद्धैः ।
अर्थानामर्थितानां समसमयमिव त्यागहेतोश्चतुर्णां
चातुर्विध्यं दधाना मधुमथनभुजा भूतये नो भवन्तु ॥ ११॥
स्वान्तःशुद्धान्तदीव्यज्जलनिधितनयालोलनेत्रान्तसीमा-
निर्यत्कारुण्यधारावलिभिरिव समामुक्तमुक्तालताभिः ।
बिभ्राणं शारदेन्दुद्युतिझररुचिराभोगताराध्वलक्ष्मीं
वक्षः श्रीवत्सलक्ष्म क्षपयतु दुरितं न्यक्षमक्षीणरौक्ष्यम् ॥ १२॥
मध्ये लावण्यसिन्धोर्दयितदृढपरीरम्भगम्भीरलीला-
लोलाक्षीरोदकन्यामृदुलभुजलुतावेष्टनस्य क्षणेषु ।
कम्बोराडम्बरं यो वहति वलयिनो वीरुधा विद्रुमाणां
वैकुण्ठस्यैष कण्ठः प्रचुरयतु चिरं भव्यमव्याहतं नः ॥ १३॥
संवर्तोद्दण्डचण्डच्छविशतसदृशं घाम सौदर्शनं त-
ज्ज्वालामालावलीढं प्रदहतु दुरितं तूलजालं समूलम् ।
चित्रं यत्राधिरूढे समरभुवि हरेर्दिव्यहस्तोदयाद्रिं
स्यन्दन्ते चन्द्रकान्ता दितिसुतसुदृशामायता लोचनान्ताः ॥ १४॥
शौरेर्दिव्याधराग्रोद्गलदमृतरसास्वादमेदस्विमूर्तिः
कल्पान्तोन्निद्रपाथोनिधिविपुलसमारम्भगम्भीरनादः ।
शङ्खोऽसौ पाञ्चजन्यो दनुजरिपुवपुःकान्तिकालिन्दिवेणी-
लीलैर्यद्राजहंसो विशदयतु मनः कल्मषक्षालनेन ॥ १५॥
श्रीनासावंशबिम्बाधरदशनमणिश्रेणिकान्तित्रिवेणी-
मध्ये कॢप्तावगाहं प्रशमितविविधानल्पतापे विशुद्धम् ।
लोलश्रीकण्ठनाले गलदलकभैरैरञ्चिते केसरौघै-
र्धत्तां लोलम्बलीलां मम हृदयमिदं नाथवक्त्रारविन्दे ॥ १६॥
त्वमादिर्लोकानां युगशतसहस्राणि नियतः
समाराध्य श्रीमन् पदनलिनरेणुं तव विधिः ।
त्रिलोकीधातृत्वं पुनरपि समापन्मुनिगणा
घृणन्त्युच्चैर्घोषं परमपुरुषौदार्यमिति ते ॥ १७॥
सकृद्वा पादाब्जं तव नमति यः प्राकृतमतिः
कुटुम्बं स्वं दीनं झटिति भगवंस्त्याजयसि तम् ।
चिरोपात्तं वित्तं तिरयसि तमन्ते तु कुरुषे
परव्योम्नि श्रीमन्नहह करुणानीरधिरसि ॥ १८॥
न ते रूपं किञ्चिन्न च जगति नामापि भवतो
न वाधारः कश्चिन्न च भवसि दृश्यः क्वचिदपि ।
भुजङ्गे वासस्ते क्वचन जलराशौ तु भगव-
न्नहो ते विख्यातो निखिलजगदीशत्वमहिमा ॥ १९॥
विश्वं च विश्वमुदरे दधतो मुरारे
चेतोऽभवत् सुमनसां परमाणुरूपम् ।
धाम्नः परादपि तवादरणास्पदं यद्
व्यक्तीकृतं किल ततो नतवत्सलत्वम् ॥ २०॥
विमलगुणावलीरुचिरमौक्तिकहारलता
पदनलिनद्वयेन भगवन्नवतंसवती ।
तव पदरेणुभिर्मलयजैरनुलिप्ततनू-
र्दृढपरिरम्भकेलिमयते श्रुतिमौलिसती ॥ २१॥
सहृदयशेमुषीस्फटिकशैलतटीप्रसृता
परिहृतमध्यलब्धविबुधान्तरशैलहतिः ।
अकृतकसूक्तिभावतटिनी त्वयि निम्नतरा
गुणगणसागरे पुरुषवर्य पतत्यनघा ॥ २२॥
निरुध्य प्राणादीनपि मुनिभिरन्तर्विधिमुखै-
श्चिराद् ये मृग्ये ते चरणनलिने माधव विभो ।
अपीमे कामं मे कलयसि पुरस्तान्नयनयो-
रहो मे सौभाग्यं मयि पतति कारुण्यलहरी ॥ २३॥
क्व ते भूमासीमा निगममकुटीकोटिविनुतः
क्व चाहं नीचात्मा विषयपदवीजाङ्घिकपदम् ।
तदप्येनं दीनं स्वजनमनुगृह्वासि भगवन्
कथङ्कारं ब्रूमस्तव कृपणवात्सल्यबहुताम् ॥ २४॥
चरन्तोऽपि श्रीमन्ननवरतमारादिह विधे-
र्न विन्देयुर्लोका बहिरपगमा जात्वसि यथा ।
तथा ते सर्वात्मन् विततमपि सर्वत्र जगति
स्वरूपं नो विद्मः कृपणविषणामोहतमसा ॥ २५॥
झषशिशुकस्य याति बडिशामिषलोभवतो
विषयनिषद्वरे कृतपढ़ओ विपदं न चिरात् ।
पुनरपि जन्तुरेष कुरुते पदमत्र हरे
न तु तव तारकं चरणमञ्चति धिग् धगमुम् ॥ २६॥
त्रिदशकदम्बमान्यमपि मानुषजन्म हरे
सुकृतशतैर्वीतीर्णमधिगम्य जनो भवता ।
अहह न चिन्तयत्ययमुपायमपायहरं
वनभुवि चन्द्रिकमिव तनोति तवोपकृतिम् ॥ २७॥
त्रिविधदुरन्ततापबडबार्चिरसह्यतनो-
र्विषयजलभ्रमैरविकलं परिमोहयतः ।
ननु भवतो वृणे परमपूरुष लिप्सुरहं
भवगुरुसागरस्य तरणं चरणं शरणम् ॥ २८॥
इति रङ्गनाथसूरिविरचिता श्रीपरमपुरुषप्रार्थना समाप्ता ।
स्तोत्रसमुच्चयः २ (६५)
Proofread by Rajesh Thyagarajan