पकारादि श्रीपरशुरामाष्टोत्तरशतनामावली
ॐ पूज्याय नमः ।
ॐ पूर्णाय नमः ।
ॐ प्रदीप्तात्मने नमः ।
ॐ पूर्णेन्दवे नमः ।
ॐ प्रियभूषणाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ पराशुभविनाशकाय नमः ।
ॐ पितृसन्तोषकर्त्त्रे नमः ।
ॐ पितृवचनपालकाय नमः ।
ॐ पितृमानप्रदाय नमः । १०
ॐ पितृरिपुविघातकाय नमः ।
ॐ पितृतर्पणसन्तुष्टाय नमः ।
ॐ पञ्चस्यमन्तकव्रताय नमः ।
ॐ पितृमोक्षप्रदाय नमः ।
ॐ पितृकुलप्रमोदकाय नमः ।
ॐ पवित्राय नमः ।
ॐ पवनाय नमः ।
ॐ पाराय नमः ।
ॐ पुण्यापुण्यफलप्रदाय नमः ।
ॐ पङ्क्तिपावननामाय नमः । २०
ॐ पिनाकपाणये नमः ।
ॐ पाटलाय नमः ।
ॐ पतितक्षत्रवंशघ्नाय नमः ।
ॐ पिशुनकुलघातकाय नमः ।
ॐ पितामहाय नमः ।
ॐ पुरीजेत्रे नमः ।
ॐ पशुपाशप्रभेदकाय नमः ।
ॐ पयोव्रतिने नमः ।
ॐ प्रतापिने नमः ।
ॐ प्रतिनिधये नमः । ३०
ॐ प्रसादनाय नमः ।
ॐ पुरोहिताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ पद्मार्चिताय नमः ।
ॐ पुरन्धराय नमः ।
ॐ पश्यकेष्टप्रदात्रे नमः ।
ॐ पृथ्विदानपरायणाय नमः ।
ॐ पार्थिववृन्दजिष्णवे नमः ।
ॐ परब्रह्मस्वरूपकाय नमः ।
ॐ पशुपतये नमः । ४०
ॐ प्रकृष्टाय नमः ।
ॐ प्रभवाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ पुराणाय नमः ।
ॐ पण्डिताय नमः ।
ॐ पूताय नमः ।
ॐ परमवीरतोषकाय नमः ।
ॐ परन्तपाय नमः ।
ॐ परीक्षिताय नमः ।
ॐ परमपददायकाय नमः । ५०
ॐ परसैन्यदलच्छेत्त्रे नमः ।
ॐ परशस्त्रास्त्रभेदकाय नमः ।
ॐ प्रथितयशसामग्र्याय नमः ।
ॐ प्रथिताय नमः ।
ॐ प्रणताश्रयाय नमः ।
ॐ पाटलाक्षाय नमः ।
ॐ पुरोधसे नमः ।
ॐ पतितोद्धारकारकाय नमः ।
ॐ परशुरामाय नमः ।
ॐ प्रख्याताय नमः । ६०
ॐ परासवविशोषकाय नमः ।
ॐ पृथ्विक्रमणगन्त्रे नमः ।
ॐ परयोधनतत्पराय नमः ।
ॐ पञ्चमाय नमः ।
ॐ पद्मरेखावते नमः ।
ॐ पक्ष्मलाय नमः ।
ॐ परमेष्टदाय नमः ।
ॐ प्रभवे नमः ।
ॐ पचपचस्तोत्रे नमः ।
ॐ परिचयाय नमः । ७०
ॐ पराक्रमाय नमः ।
ॐ पित्रे नमः ।
ॐ पञ्चमहायज्ञाय नमः ।
ॐ पद्यगद्यसुलेखकाय नमः ।
ॐ प्रपङ्क्तिग्रीवदर्पघ्नाय नमः ।
ॐ पञ्चाननाय नमः ।
ॐ प्रतिष्ठिताय नमः ।
ॐ परिपक्वाय नमः ।
ॐ प्रमाणज्ञाय नमः ।
ॐ प्रेमाकृष्टाय नमः । ८०
ॐ पुरातनाय नमः ।
ॐ प्रणवाय नमः ।
ॐ परिकाङ्क्षिताय नमः ।
ॐ पटवे नमः ।
ॐ पर्वतवेधकाय नमः ।
ॐ पृथ्विपतये नमः ।
ॐ परिख्याताय नमः ।
ॐ प्रगल्भाय नमः ।
ॐ पारिकाङ्क्षिताय नमः ।
ॐ पञ्चविंशतितत्त्वज्ञाय नमः । ९०
ॐ पञ्चवल्कलभूषिताय नमः ।
ॐ पञ्चनीराजनप्रीताय नमः ।
ॐ पूतात्मने नमः ।
ॐ पुष्करेक्षणाय नमः ।
ॐ प्रतिवादिमुखस्तम्भाय नमः ।
ॐ पराचितिप्रसादकाय नमः ।
ॐ पीताम्बराय नमः ।
ॐ परिज्ञानिने नमः ।
ॐ परलोकहितावहाय नमः ।
ॐ पात्रे नमः । १००
ॐ पुरुषशार्दूलाय नमः ।
ॐ प्रचण्डाय नमः ।
ॐ पार्वणप्रियाय नमः ।
ॐ पिशङ्गाय नमः ।
ॐ पूर्णिमापूज्याय नमः ।
ॐ प्रतिनिधये नमः ।
ॐ पिशङ्गकाय नमः ।
ॐ पूज्यपूज्याय नमः । १०८
इति हरियाणा प्रदेशे जयन्तपुरीमण्डलान्तर्गत नगूराङ्ग्रामवासिना
कृष्णचन्द्रशास्त्रिणा विरचितं पकारादि
श्रीपरशुरामाष्टोत्तरनामस्तोत्राधृता नामावली सम्पूर्णा ।
Encoded and proofread by Sira Athale