पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्
पूज्यः पूर्णः प्रदीप्तात्मा पूर्णेन्दुः प्रियभूषणः ।
परब्रह्मस्वरूपश्च पराशुभविनाशकः ॥ १॥
पितृसन्तोषकर्त्ता च पितृवचनपालकः ।
पितृमानप्रदश्चैव पितृरिपुविघातकः ॥ २॥
पितृतर्पणसन्तुष्टः पञ्चस्यमन्तकव्रतः ।
पितृमोक्षप्रदश्चैव पितृकुलप्रमोदकः ॥ ३॥
पवित्रः पवनः पारः पुण्यापुण्यफलप्रदः ।
पङ्क्तिपावननामापि पिनाकपाणि पाटलः ॥ ४॥
पतितक्षत्रवंशघ्नः पिशुनकुलघातकः ।
पितामहः पुरीजेता पशुपाशप्रभेदकः ॥ ५॥
पयोव्रती प्रतापी च प्रतिनिधिः प्रसादनः ।
पुरोहितः प्रसन्नात्मा पद्मार्चितः पुरन्धरः ॥ ६॥
पश्यकेष्टप्रदाता च पृथ्विदानपरायणः ।
पार्थिववृन्दजिष्णुर्वा परब्रह्मस्वरूपकः ॥ ७॥
पशुपतिः प्रकृष्टश्च प्रभवः परमेश्वरः ।
पुराणः पण्डितः पूतः परमवीरतोषकः ॥ ८॥
परन्तपः परीक्षितः परमपददायकः ।
परसैन्यदलच्छेत्ता परशस्त्रास्त्रभेदकः ॥ ९॥
प्रथितयशसामग्र्यः प्रथितः प्रणताश्रयः ।
पाटलाक्षः पुरोधा च पतितोद्धारकारकः ॥ १०॥
परशुरामः प्रख्यातः परासवविशोषकः ।
पृथ्विक्रमणगन्तापि परयोधनतत्परः ॥ ११॥
पञ्चमः पद्मरेखावान् पक्ष्मलः परमेष्टदः ।
प्रभुः पचपचस्तोता परिचयः पराक्रमः ॥ १२॥
पिता पञ्चमहायज्ञः पद्यगद्यसुलेखकः ।
प्रपङ्क्तिग्रीवदर्पघ्नः पञ्चाननः प्रतिष्ठितः ॥ १३॥
परिपक्वः प्रमाणज्ञः प्रेमाकृष्टः पुरातनः ।
प्रणवः परिकाङ्क्षितः पटुः पर्वतवेधकः ॥ १४॥
पृथ्विपतिः परिख्यातः प्रगल्भः पारिकाङ्क्षितः ।
पञ्चविंशतितत्त्वज्ञः पञ्चवल्कलभूषितः ॥ १५॥
पञ्चनीराजनप्रीतः पूतात्मा पुष्करेक्षणः ।
प्रतिवादिमुखस्तम्भः पराचितिप्रसादकः ॥ १६॥
पीताम्बरः परिज्ञानी परलोकहितावहः ।
पाता पुरुषशार्दूलः प्रचण्डः पार्वणप्रियः ॥ १७॥
पिशङ्गः पूर्णिमापूज्यः प्रतिनिधिः पिशङ्गकः ।
पूज्यपूज्यस्य नामानि पापराशिहराणि च ॥ १८॥
अष्टोत्तरशतं जप्त्वा ब्रह्मलोके महीयते ।
इति हरियाणा प्रदेशे जयन्तपुरीमण्डलान्तर्गत नगूराङ्ग्रामवासिना
कृष्णचन्द्रशास्त्रिणा विरचितं पकारादि
श्रीपरशुरामाष्टोत्तरनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Sira Athale