परशुरामाय ब्रह्मप्रोक्तं श्रीकृष्णस्तोत्रम्

परशुरामाय ब्रह्मप्रोक्तं श्रीकृष्णस्तोत्रम्

ब्रह्मोवाच । श‍ृणु राम प्रवक्ष्यामि सर्वसम्पत्करं परम् । काण्वशाखोक्तवचनं सत्यं वै सर्वसम्मतम् ॥ ८३॥ पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः । जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ॥ ८४॥ गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने । विनाऽन्नं नश्वरो देहो नित्यं च पितुरुद्भवः ॥ ८९॥ तयोः शतगुणं माता पूज्या मान्या च वन्दिता । गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी ॥ ८६॥ तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः । ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ॥ ८७॥ गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका । देवे रुष्टे गुरू रक्षेद्गुरौ रुष्टे न कश्चन ॥ ८८॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ॥ ८९॥ गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् । हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परम् ॥ ९०॥ अज्ञानतिमिराच्छन्नो ज्ञानदीपं यतो लभेत् । लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ॥ ९१॥ गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् । सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ॥ ९२॥ सुखं जयति सर्वत्र विद्यया गुरुदत्तया । यया पूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ॥ ९३॥ विद्यान्धो वा धनान्धो वा यो मूढो न यजेद्गुरुम् । ब्रह्महत्यादिकं पापं लभते नात्र संशयः ॥ ९४॥ दरिद्रं पतितं क्षुद्रं नरबुद्ध्या भजेद्गुरुम् । तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥ ९५॥ अभीष्टदेवः श्रीकृष्णो गुरुस्ते शङ्करः स्वयम् । शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ॥ ९६॥ त्रिस्सप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः । प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ॥ ९७॥ शिवां च शिवरूपं च शिवदं शिवकारणम् । शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ॥ ९८॥ गोलोकनाथो भगवानंशेन शिवरूपधृक् । य इष्टदेवः स गुरुस्तमेव शरणं व्रज ॥ ९९॥ आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु । प्राणा विष्णोस्सा प्रकृतिस्सर्वशक्तियुता सुत ॥ १००॥ ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् । मृत्युञ्जयं कालकालं तं गुरुं शरणं व्रज ॥ १०१॥ ब्रह्मज्योतिस्स्वरूपं तं भक्तानुग्रहविग्रहम् । शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ॥ १०२॥ प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् । कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ॥ १०३॥ इत्युक्त्वा मुनिभिः सार्द्धं जगाम कमलोद्भवः । रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ॥ १०४॥ इति श्रीब्रह्मवैवर्त्तपुराणे गणेशखण्डे चत्वारिंशाध्यायान्तर्गतं परशुरामाय ब्रह्मप्रोक्तं श्रीकृष्णस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ४०/८३-१०३॥ brahmavaivartapurANa . gaNapatikhaNDa . adhyAya 40/83-103.. Proofread by PSA Easwaran
% Text title            : Parashuramaya Brahmaproktam Shri Krishna Stotram
% File name             : parashurAmAyabrahmaproktaMshrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (parashurAmAyabrahmaproktaM brahmavaivartapurANAntargatam shRiNu rAma pravakShyAmi sarvasampatkaraM param)
% engtitle              : parashurAmAyabrahmaproktaM shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | gaNapatikhaNDa | adhyAya 40/83-103||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org