परशुरामकृतं श्रीकृष्णस्तोत्रम्
परशुरामुवाच ।
नमो नमः कारणविग्रहाय प्रपन्नपालाय सुरार्त्तिहारिणे ।
ब्रह्मेशविष्ण्विन्द्रमुखस्तुताय नतोऽस्मि नित्यं परमेश्वराय ॥ २, ३७.१५॥
यं वेदवादैर्विविधप्रकारैर्निर्णेतुमीशानमुखा न शक्नुयुः ।
तं त्वामनिर्देश्यमजं पुराणमनन्तमीडे भव मे दयापरः ॥ २, ३७.१६॥
यस्त्वेक ईशो निजवाञ्च्छितप्रदो धत्ते तनूर्लोकविहार रक्षणे ।
नाना विधा देवमनुष्यतिर्यग्यादः सु भूमेर्भरवारणाय ॥ २, ३७.१७॥
तं त्वामहं भक्तजनानुरक्तं विरक्तमत्यन्तमपीन्दिरादिषु ।
स्वयं समक्षंव्यभिचारदुष्टचित्तास्वपि प्रेमनिबद्धमानसम् ॥ २, ३७.१८॥
यं वै प्रसन्ना असुराः सुरा नराः सकिन्नरास्तिर्यगयोनयोऽपि हि ।
गताः स्वरूपं निखलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर ॥ २, ३७.१९॥
तं देवदेवं भजतामभीप्सितप्रदं निरीहं गुणवर्जितं च ।
अचिन्त्यमव्यक्तमघौघनाशनं प्राप्तोऽरणं प्रेमनिधानमादरात् ॥ २, ३७.२०॥
तपन्ति तापैर्विविधैः स्वदेहमन्ये तु यज्ञैर्विविधैर्यजन्ति ।
स्वप्नेऽपि ते रूपमलौकिकंविभो पश्यन्ति नैवार्थनिबद्धवासनाः ॥ २, ३७.२१॥
ये वै त्वदीयं चरणं भवश्रमान्निर्विण्णचित्ता विधिवत्स्मरन्ति ।
नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति ॥ २, ३७.२२॥
तेनैकजन्मोद्भवपङ्कभेदनप्रसक्तचित्ता भवतोंऽघ्रिपद्मे ।
तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधा तवेश ॥ २, ३७.२३॥
अहं प्रभो कामनिबद्धचित्तो भवन्तमार्यं विविधप्रयत्नैः ।
आराधयं नाथ भवानभिज्ञः किं ते ह विज्ञाप्यमिहास्ति लोके ॥ २, ३७.२४॥
इति ब्रह्माण्डपुराणे मध्यभागे सप्तत्रिंशाध्यायान्तर्गतं
परशुरामकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
ब्रह्माण्डपुराण । मध्यभाग । उपोद्धात । अध्याय ३७/१५-२४॥
brahmANDapurANa . madhyabhAga . upoddhAta . adhyAya 37/15-24..
Proofread by PSA Easwaran