श्रीपरशुरामस्तोत्रम्

श्रीपरशुरामस्तोत्रम्

श्रीमद्भक्तमनोऽम्बुजातभ्रमरं स्मेराननं चिन्मयं नानारूपधरं हरिं निरुपमं नारायणं शङ्करम् । श्रीमद्भार्गववंशवार्धिशशिनं श्रीरेणुकापुत्रकं सर्वाम्नायसुसारमार्यविनुतं रामं भजे भार्गवम् ॥ १॥ वैकुण्ठं परमेश्वरार्चितपदं भव्यात्मकं चक्रिणं पद्माक्षं श्रितवारसौरथरजं ब्रह्माण्डसव्यापिनम् । क्षीराम्भोनिधिशायिनं कुनृपहं श्रीरेणुकासुप्रजं रम्यं भीमपरश्वधिं धरणिपं रामं भजे भार्गवम् ॥ २॥ नित्यं राक्षसवंशनाशनकरं निर्वाणसन्धायकं माहिष्मत्यधिनाथदाननिपुणं महिष्मतीदाहकम् । दूराड्वंशदवानलं शिवकरं दुर्वारभाषाप्रदं सत्यं भूमविपश्चितं गुणनिधिं ध्यायामि आ?र्चीकजम् ॥ ३॥ ब्रह्मक्षात्रमयं महास्मृतिमयं गम्भीरभाषामयं सत्कारुण्यमयं सदाशिवमयं सच्छिष्यभाषामयम् । ज्ञानानन्दमयं भयानकमयं सच्छौर्यभूषामयं नानावादसुधामयं कविमयं श्रीरैणुकेयम्भजे ॥ ४॥ नित्यानन्दमयं गुरुम्परविभुं निर्विघ्नसन्धायकं सर्वातीतमनन्तरूपमखिलं सर्वामयघ्नं हरिम् । सर्वज्ञञ्च महामहं परतमं सर्वात्मकं शान्तिदं अन्तर्ज्योतिमजादि दुर्लभतरं रामम्भजे भार्गवम्॥ ५॥ ओङ्कारात्मकमव्ययं शरधिशं पाथोधिगर्वापहं गोभूदेवकुलार्तिनाशनकरं गोपालसद्देशिकम् । विष्वक्सेनमुदारचित्तमनघं विश्वेश्वरं सम्पदां दातारं मुनिवन्दिताङ्घ्रियुगळं रामम्भजे च्यावनिम्॥ ६॥ गोभूदेवमयं धनुःश्रुतिमयं सौजन्यधारामयं निस्साहाय्यमयं निरामयमयं निस्तुल्ववाणीमयम् । सत्सौशील्यमयं पराक्रममयं कालस्य मृत्युर्मयं भक्तारिघ्नमयं परात्परमयं रामम्भजे भार्गवम् ॥ ७॥ भूमैश्वर्यसुनिर्जरामरमयं क्षीराब्धिविष्णुर्मयं अंहार्तिघ्नमयं महौरवमयं मृत्योः प्रमृत्युर्मयम् । सङ्ग्रामेषु महाभयानकमयं शान्तिर्मयं सर्वदा साध्वी रेणुकसत्तपःफलमयं ध्यायामि श्रीच्यावनिम् ॥ ८॥ रामं सत्यपराक्रमं श्रुतिहितं राजीवपत्राक्षकं रौद्रं धर्मभृताङ्गुरुं कलुषहं श्रेष्ठं ऋषीणाङ्कुले । आयुर्दायकमाश्रितामरतरुं अत्यद्भुतोहाप्रदं भूभाराघनिबर्हणागतहरिं ध्यायामि यर्चीकजम् ॥ ९॥ सत्सौभाग्यमयं महाशुचिमयं सम्पूर्णमेधामयं ब्रह्मानन्दमयं रिपुन्दममयं वात्सल्यधारामयम् । ब्रह्मज्ञानमयं महागुरुमयं वाणीमयं सर्वदा भक्तव्रातसुचातकाम्बुदमयं वन्दे सदा रैणुकम् ॥ १०॥ यस्यापीच्यसुविग्रहं कलुषहं द्रष्टुं महापण्डिताः यस्यानुग्रहमाप्तुमब्जजहरौ मौनीश्वरास्तेपिरे । तस्सार्चीकसुतस्य सान्द्रकरुणासारः प्रवाहो महत् मे रामस्य निरन्तरं प्रवहतु प्रच्छन्न रूपोज्ज्वलः ॥ ११॥ यद्दृष्ट्या महनीयकान्तिकलितं देहम्महाकानने लेभाते हरिणौ स्वपूर्वजननप्रज्ञाञ्च मोक्षम्महत् । तम्माहात्म्यनिधिं ऋचीकजभवं रामं सदाभक्तव- ज्रप्राकारमनन्तकं दशरथं वन्दे सदा रैणुकम् ॥ १२॥ आदौ रेणुकगर्भवार्धिजननं अम्बागळच्छेदनं महिष्मत्यधिनाथकण्ठदळनं दुःक्षत्रियोत्सादनम् । निर्माणञ्च समन्तपञ्चकमहो सर्वांसहापालनं एतद्भार्गवरामभूमचरितं त्रैलोक्यमोदावहम् ॥ १३॥ ॥ इति श्रीपूसपाटि रङ्गनायकामात्यभार्गवर्षिकृतं परशुरामस्तोत्रं सम्पूर्णम् ॥ Encoded Malleswara Rao Yellapragada malleswararaoy at yahoo.com Proofread by Malleswara Rao Yellapragada, PSA Easwaran
% Text title            : parashurAmastotram 1
% File name             : parashurAmastotram.itx
% itxtitle              : parashurAmastotram 1 (shrImadbhaktamano.ambujAtabhramaraM smerAnanaM chinmayaM)
% engtitle              : parashurAmastotram 1
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Author                : shrIpUsapATi raNganAyakAmAtya bhArgavarShi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada, PSA Easwaran
% Latest update         : January 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org