श्रीपरशुरामस्तोत्रम्

श्रीपरशुरामस्तोत्रम्

श्रीपरशुराममन्त्रो यथा मन्त्रमहार्णवे प्रतिपादितः - ``ॐ राँ राँ ॐ राँ राँ ॐ परशुहस्ताय नमः'' इति मूलमन्त्रः । अथ परशुरामगायत्रीमन्त्रस्तत्रैव यथा- ``ॐ जामदग्न्याय विद्महे महावीराय धीमहि । तन्नः परशुराम प्रचोदयात्'' इति । अथ अङ्गन्यासः । ॐ जामदग्न्याय हृदयाय नमः । ॐ विद्महे शिरसे स्वाहा । ॐ महावीराय शिखायै वषट् । ॐ धीमहि कवचाय हुं । ॐ तन्नः परशुरामो नेत्रत्रयाय वौषट् । ॐ प्रचोदयादस्त्राय फट् । इति षडङ्गन्यासः ॥ अथ करन्यासः । ॐ जामदग्न्याय अङ्गुष्ठाभ्यां नमः । ॐ विद्महे तर्जनीभ्यां नमः । ॐ महावीराय मध्यमाभ्यां नमः । ॐ धीमहि अनामिकाभ्यां नमः । ॐ तन्नः परशुरामो कनिष्ठिकाभ्यां नमः । ॐ प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ ध्यानम् - सम्पूर्णा विलसन्ति सोपनिषदो वेदोपवेदो पुरः पृष्ठे मार्गणपूर्णतूणविलसत्कोदण्डदण्डो महान् । बर्हिष्टोमकमण्डलू च परशु पाण्योर्वहन् शास्त्रवित् शापे शास्त्रवरे च पेषलकरः श्रीभार्गवो भ्राजते ॥ १॥ मत्तक्षत्रियकृत्तकण्ठविगलद्रक्तौघसम्प्लावितं भक्ताऽनुग्रहणं कठोरपरशुं धृत्वाऽवतीर्याऽधुना । दृप्तोद्दण्डदुरीहदुष्टदमनो दीनाऽऽवलीपालको धर्मोद्धारधुरन्धरो भृगुवरो रामः समुज्जृम्भताम् ॥ २॥ श्रीमद्रेणुकया धृतं स्वजठरे भूभारनाशाय यत् श्रीमद्भार्गवजामदग्न्यमतुलं रामाभिधानं महः । दृप्यत्पार्थिववृन्दकाननललज्ज्वालाढ्यवैश्वानर- श्चण्डीप्राणपतिप्रियस्य परशोरादायि तत्संस्तुमः ॥ ३॥ लक्ष्मीपतेरुरसि रोषकषायिताक्षः पादप्रहारमकरोन्मुनिपुङ्गवो यः । ब्रह्मर्षिवृन्दपरिचुम्बितपादपद्मः स श्रीभृगुर्जयति विप्रकुलप्रकाशः ॥ ४॥ श्रीमानुदारचरितो जयतादजस्रं ब्रह्मर्षिसोमजमदग्निरिति प्रसिद्धः । दृप्यन्नृपान्तकरणं तनयं प्रसूय येनाऽखिलं जगदिदं परितो व्यरक्षि ॥ ५॥ सम्पूर्णभूमिगतवीरमहीगताना मन्यायमाश्रितवतां प्रमदोद्धतानाम् । सा कालरात्रिरिव नाशकरी समन्तात् श्रीरेणुका भगवती विजयाय भूयात् ॥ ६॥ देवेन येन ततमस्ति समस्तमेत- द्विश्वं स्वशक्तिखचितं स्वविलासरूपम् । तं त्वां महर्षिगणपूजितपादपद्मं सर्वात्मना भृगुवरं शरणं भजामः ॥ ७॥ धर्मद्विषां नियमनाय गृहीतदीक्षम् श्रीरेणुकाभगवतीजठरात्प्रसूतम् । श्रीभार्गवस्य जमदग्निमुनेः सुपुत्रं रामं लसत्परशुपाणितलं नमामः ॥ ८॥ स्फूर्जन्मदोद्धतनृपावलिकाननाऽऽली- र्दग्ध्वा महीसुरगणान्परिरक्ष्य बन्धून् । त्रातं भुवस्तलमिदं भवता समस्तं सम्प्राप्य खण्डपरशोः परशुं प्रसन्नात् ॥ ९॥ लोकत्रयाऽतुलपराक्रमजन्मभूमेः शीर्षं निकृत्य कृतवीर्यसुताऽर्जुनस्य । त्रिःसप्तवारमकरोर्वसुधां समस्तां निःक्षत्रियां स्वपितृतर्पणकामनायाः ॥ १०॥ दुर्नीतपार्थिवकदम्बनिकृत्तशीर्ष- ग्रावद्रवद्रुधिरसिद्धधुनीजलौघैः । आकण्ठतो निजपितॄन्परितर्प्य पश्चात् प्रादाद् धरां वसुमतीं किल कश्यपाय ॥ ११॥ पाणौ विलोक्य परशुं भगवंस्त्वदीये स्त्रीवेषभाग्दशरथोऽपि पलायितोऽभूत् । यः स्वासनार्धमुपवेश्य पुरन्दरेण सम्मानितोऽभवदमोघबलेन शश्वत् ॥ १२॥ श्रीराम ! भार्गव ! भवच्चरणारविन्द- मूलं शरण्यमधुना वयमागताः स्मः । कारुण्यपूर्णसुदृशा किल नोऽनुगृह्य शक्तिं निजामनयनाशकरीं प्रदेहि ॥ १३॥ वाक्चातुरी चलति नो चतुराननस्य यच्छिक्तवर्णनविधौ खलु तत्र केयम् । अस्माकमल्पविदुषां नृगिरा वराकी शक्ता भवेत्तदपि नाथ! वरं प्रदेहि ॥ १४॥ वीरश्रीजामदग्न्यस्य पुण्यं स्तोत्रमिदं नराः । पठन्त्यनन्यमनसो येऽर्थबोधपुरस्सरम् ॥ १५॥ दुःशासनान्तकरणी भीमा धर्मप्रबोधिनी । तेषां करगता शक्तिश्चकास्त्येव न संशयः ॥ १६॥ अङ्काष्टनन्दपृथिवीमितवैक्रमाब्दे वैशाख शुक्ल गिरिजादिवसे ग्रहेशे । मार्तण्डतीर्थभवने जमदग्निपुत्र- स्तोत्रं व्यधायि विदुषाऽमृत्वाग्भवेन ॥ १७॥ इति श्रीसर्वतन्त्रस्वतन्त्र महामहिम आचार्य श्रीमदमृतवाग्भवप्रणीतं श्री परशुरामस्तोत्रं सम्पूर्णम् । विधिन्यासपूर्वकजपाद् ब्रह्मतेजप्राप्तिर्भवतीति मे मतिः । तन्त्रोक्त चमत्कारिक मन्त्र ध्यानम् - सात्विकं श्वेतवर्णं च भस्मोद्धूलितविग्रहं अग्रिहोत्रस्थलासीनं नानामुनिगणावृतम् । कम्बासनमारूढं स्वर्णतारकुशाङ्गुलिं श्वेतवस्त्रद्वयोपेतं जुह्वन्तं राममाश्रये ॥ ॐ अस्य मन्त्रस्य भारद्वाज ऋषिः, गायत्री छन्दः, श्रीपरशुरामो देवता मनोकामना प्राप्तये जपे विनियोगः । मन्त्रः - ॐ ब्रह्मक्षेत्राय विद्महे क्षत्रियान्ताय धिमहि तन्नो रामः प्रचोदयात् । (इति) Encoded and proofread by Bageshri Sathe
% Text title            : Parashurama Stotram 3
% File name             : parashurAmastotram3.itx
% itxtitle              : parashurAmastotram 3 (amRitavAgbhava\-praNItaM sampUrNA vilasanti sopaniShado vedopavedo puraH)
% engtitle              : parashurAmastotram 3
% Category              : vishhnu, dashAvatAra, vAsudevAnanda-sarasvatI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : AchArya amRitavAgbhava
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Bageshri Sathe
% Proofread by          : Bageshri Sathe
% Indexextra            : (Scan)
% Latest update         : May 22, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org