प्रचेतसकृतं विष्णुस्तोत्रम्
प्रचेतस ऊचुः ।
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती ।
तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ २३॥
ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् ।
योनिभूतमश्षस्य स्थावरस्य चरस्य च ॥ २४॥
यस्याहः प्रथमं रूपमरूपस्य तथा निशा ।
सन्ध्या च परमेशस्य तस्मै कालात्मने नमः ॥ २५॥
भुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः ।
बीजभूतं समस्तस्य तस्मै सोमात्मनेन मः ॥ २६॥
यस्तमास्यत्ति तीव्रात्मा प्रभाभिर्भासयन्नभः ।
घर्मशीताम्भसां योनिस्तस्मै सूर्यात्मने नमः ॥ २७॥
काठिन्यवान् यो बिभर्त्ति जगदेतदशेषतः ।
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ २८॥
यद्योनिभूतं जगतो बीजं यत्सर्वदेहिनाम् ।
तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ २९॥
यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक्तथा ।
पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ ३०॥
पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् ।
आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ ३१॥
अवकाशमशेषाणां भूतानां यः प्रयच्छति ।
अनन्तमूर्तिमाञ्छुद्धस्तस्मै व्योमात्मने नमः ॥ ३२॥
समस्तेन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् ।
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ ३३॥
गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः ।
यस्तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे ॥ ३४॥
गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति ।
अन्तःकरणरूपाय तस्मै विश्वात्मने नमः ॥ ३५॥
यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् ।
लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ ३६॥
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः ।
तमात्मरूपिणं देवं नताः स्म पुरुषोत्तमम् ॥ ३७॥
अविकारमजं शुद्धं निर्गुणं यन्निरञ्जनम् ।
नतास्स्म तत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ ३८॥
अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् ।
अस्नेहच्छायमतनुमसक्तमशरीरिणम् ॥ ३९॥
अनाकाशमसंस्पर्शमगन्धमरसं च यत् ।
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ ४०॥
अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितमनिद्रमजरामरम् ॥ ४१॥
अरजोशब्दममृतमप्लुतं यदसंवृतम् ।
पूर्वापरेण वै यस्मिंस्तद्विष्णोः परमं पदम् ॥ ४२॥
परमेशत्वगुणवत्सर्वभूतमसंशयम् ।
नताः स्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ ४३॥
इति विष्णुपुराणे चतुर्दशाध्यायान्तर्गतं
प्रचेतसकृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय १४/२३-४३॥
viShNupurANa . adhyAya 14/23-43..
Proofread by PSA Easwaran