प्रह्लादकृतं नृसिंहस्तोत्रम्
नृसिंहं हृद्ये ध्यात्वाऽस्तौषीद्धरिं समाहितः ।
नमो देवाधिदेवाय सत्त्वविलीनमूर्तये ॥ ८१॥
ब्रह्मादयो बिभ्यति यद्रूपात्तद्रूपिणे नमः ।
घनाऽभिजनसौन्दर्यतपःश्रुतबलादिभिः ॥ ८२॥
स्मृद्धिवाक्पटुताभिश्चाऽतुष्यते ते नमो नमः ।
तवाऽङ्घ्रिविमुखो विप्रो यमैश्च नियमैर्युतः ॥ ८३॥
भक्तश्वादात् कनीयान्स भक्तहृष्टाय ते नमः ।
मानहीनाय दीनाय तुष्यते ते नमो नमः ॥ ८४॥
भक्तिमार्गाश्रितसौख्यकर्त्रे ते हरये नमः ।
रक्षाविभूतिसम्पत्सुसौख्यदात्रे पुनर्नमः ॥ ८५॥
ब्रह्मादयोऽपि देवाश्च शान्तदर्शनकाङ्क्षिणः ।
स्तुवन्ति त्वां परात्मानं शान्तरूपं ततः कुरु ॥ ८६॥
नाऽहं बिभैमि देवेश क्रूरान्नृसिंहरूपणात् ।
बिभेमि कामरोषादेस्ततो रक्षां विधेहि मे ॥ ८७॥
असुराद्रक्षणां तत्तु देहस्य रक्षणं कृतम् ।
तद्वै मे रक्षणं नास्ति तस्मान्मद्रक्षणं कुरु ॥ ८८॥
क्लेशकर्मविपाकादेरजाया बन्धनात् खलु ।
रक्षणं कुरु विश्वेश तन्मतं रक्षणं भवेत् ॥ ८९॥
ईहाः पुत्रकलत्रादेर्धनैश्वर्यदिवस्पतेः ।
कदापि नैव पूर्यन्ते ताभ्यो मे रक्षणं कुरु ॥ ९०॥
दैत्येन्द्रस्य मया दृष्टाः स्मृद्धयस्ता न रक्षिकाः ।
ऐश्वर्याणि मया दृष्टान्येतान्यवन्ति नैव हि ॥ ९१॥
सिद्धयश्चापि देवानां रक्षां कुर्वन्ति नैव च ।
भक्तानां त्वं रक्षणाय बहुरूपी भवस्यथ ॥ ९२॥
उद्धारयसि विश्वात्मन् तथोद्धारं च मे कुरु ।
राज्यं तु बन्धनं प्रोक्तं पापं पापतरं महत् ॥ ९३॥
यत्सतां सेवने विघ्नं मानसत्तादिदूषणैः ।
दीनत्वे तप आस्थाय वाञ्च्छन्ति कामनामयान् ॥ ९४॥
भोगानासाद्य पश्चात्त्वां विस्मरन्तीति किल्बिषम् ।
ततो देवाधिदेवत्वं दारासत्ताधनादिषु ॥ ९५॥
मा योगं मे देहि नाथ देहि त्वच्चरणाम्बुजे ।
तव दासस्य दासानां मध्ये योगं प्रदेहि मे ॥ ९६॥
इमे देवास्तव रूपं सौम्यं काङ्क्षन्ति दर्शने ।
तस्मात्सौम्यं सुखदं वै रूपं दर्शय माधव ॥ ९७॥
इत्यर्थितः स भगवान् तेजस्तदतिभीषणम् ।
रोषान्वितं तु संहृत्य बभूव सुखदर्शनः ॥ ९८॥
शरत्कोटीन्दुसङ्काशः पुण्डरीकनिभेक्षणः ।
सुधामयसटापुञ्जविद्युत्कोटिनिभप्रभः ॥ ९९॥
सद्रत्नाढ्यकटककेयूरोर्मिकादिभूषितः ।
शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ॥ १००॥
वरदाऽभयहस्ताभ्यामितराभ्यां सुशोभितः ।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ॥ १०१॥
कुण्डलहाररशनामणिस्वर्णविराजितः ।
सव्याङ्गस्थश्रिया युक्तोऽभवत्तदा नृकेसरी ॥ १०२॥
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः ।
आनन्दाश्रुजलैः सिक्त्वा नमश्चक्रुर्निरन्तरम् ॥ १०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १४०-अध्यायान्तर्गतं
प्रह्लादकृतं नृसिंहस्तोत्रं
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १४०/८१-१०३॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 140/81-103..
Proofread by PSA Easwaran