पुरुषोत्तमकवचम्
ऋषय ऊचुः ।
अथ नाम्नां सहस्राख्यं वद स्तोत्रं महामुने ।
यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥
श्रीशाण्डिल्य उवाच -
पुरा कृतयुगे देवः सविता सुषुवे सुताम् ।
यमुनेति च विख्यातां देवतां चे शुचिष्मतीम् ॥ २॥
पप्रच्छ पितरं सा च कः परो वापरो यतः ।
कथं प्राप्यो भवेदेष ततः प्राह पिता सुताम् ॥ ३॥
तपसा ब्रह्मणा पूर्वं जगत्सृष्टमिति श्रुतम् ।
तपसा भवती देवं स्वीयं विज्ञातुमर्हति ॥ ४॥
सा कलिन्दगिरिं प्राप्य तपश्चक्रे सुदारुणम् ।
ध्यायन्ती रमणं देवं ब्राह्मकल्पमनीनयत् ॥ ५॥
ततः प्रसन्नो भगवान् श्रीकृष्णो भक्तवत्सलः ।
प्रादुर्भूय गिरौ तत्र वेणुनादं चकार सः ॥ ६॥
तस्य नादस्य हर्षेण द्रवीभूता ततो हि सा ।
दिव्यरूपा ततो जाता जगतां पावनी परा ॥ ७॥
तस्यै प्रसन्नो भगवान् नवकञ्जमयीं स्रजम् ।
सारूप्यं च ददौ प्राह प्रिया भव सुभक्तितः ॥ ८॥
इदं नाम्नांसहस्रं मे पठ येन विबुध्यसे ।
मम लोके सरिद्रूपे दिव्यरूपे प्रविश्यताम् ॥ ९॥
अस्मिंश्च ते द्रवे कान्ते मज्जतां भुक्तिमुक्तयः ।
भविष्यन्ति वशीभूता भक्तिर्मे न च त्वां विना ॥ १०॥
दत्वा सहस्रनामाख्यं स्तोत्रं सख्यै हरिर्ययो ।
विवस्वन्तमनुज्ञाप्य सा गता हरिणा सह ॥ ११॥
इदं स्तोत्रं मया लब्धं स्वयं तुष्टाद्विवस्वतः ।
पुण्यं स्वस्त्ययनं भव्यमायुष्यं हरिभक्तिदम् ॥ १२॥
पाठादस्य प्रजायन्ते पुण्याः कामा मनोगताः ।
पुत्राश्चापि प्रसूयन्ते विनीताश्चिरजीविनः ॥ १३॥
भाग्यवन्तः सुकृतिनः पितृभक्ता हरेः प्रियाः ।
कान्ता भवन्ति सत्कान्ता दान्ताश्चापि पतिव्रताः ॥ १४॥
चतुर्द्दश महारत्नभोक्ता भवति पाठकृत् ।
महारोगैर्विमुच्येत दारुणैर्बन्धनैरपि ॥ १५॥
शत्रुभिश्च विषैः शस्त्रैः कृत्याभिश्च ग्रहैरपि ।
भूतैः प्रेतैश्च रक्षोभिर्वह्निवायुमहाभयैः ॥ १६॥
मुच्यते वारिधौ मज्जन् त्रायते चापरान्नपि ।
स्वचक्रे परचक्रे च सेनाक्षोभे प्रजाक्षये ॥ १७॥
महामारीभये चान्यभये वाताशने भये ।
गतं राज्यं गतां लक्ष्मीं रुद्धां वा दारुणैर्जनैः ॥ १८॥
साम्राज्यलक्ष्मीमाप्नोति किमन्यत् कथयामि भोः ।
दारिद्र्यान्मुच्यते सोऽथ कुबेर इव जायते ॥ १९॥
विद्ययाऽसौ गिरीशः स्यात् सुरेषु त्रिदशेश्वरः ।
वदान्यतां विधिः साक्षाल्लावण्यान्मदनोपमः ॥ २०॥
महादेवान् वशे कुर्याद् भूतान्यपि वशे नयेत् ।
विपर्ययं च जगतां कुर्याद्बन्धं दिवौकसाम् ॥ २१॥
लोकानां रञ्जनं कुर्यान्नारीणामपि मन्मथम् ।
पूज्यते जगतीमध्ये लोकानुग्रहकृद्भवेत् ॥ २२॥
तस्य वाक् जायते वेत्ता भूतभव्यभवज्जुषाम् ।
यद्यदिच्छति तत्सर्वं करस्थं चैव पश्यति ॥ २३॥
हरिभक्तस्तु भगवल्लीलां पश्यति सर्वशः ।
निजदोषान् परगुणान् हरिदासे महात्मनाम् ॥ २४॥
दैन्यप्रीतिं समाप्नोति गुरुभक्तिं च विन्दति ।
ततः कृतार्थ एव स्यान्निषेव्यः स्यान्महात्मनाम् ॥ २५॥
हस्तौ पादौ च प्रक्षाल्य शुचिः शुद्धात्मवासनः ।
जितेन्द्रियो वाग्यतश्च पूर्वास्यः स्वासने स्थितः ॥ २६॥
आचम्य प्राणानायम्य कृतरक्ष्यः पठेत्ततः ।
ध्यायन् भगवतो रूपं वाञ्छितार्थफलप्रदम् ॥ २७॥
हृदयं गोपिकानाथो भालं मे जगदीश्वरः ।
श्रीकृष्णो मे शिखां पातु कवचं पातु गोपतिः ॥ २८॥
नेत्रे पातु दधद्वेत्रमस्त्रं वेणुधरो हरिः ।
मूर्द्धादिकण्ठपर्यन्तं श्रीकृष्णः सर्वदाऽवतु ॥ २९॥
कण्ठादिमध्यपर्यन्तं श्रीगोविन्दोऽपि रक्षतु ।
श्रीगोपीजनकान्तस्तु पायान्मध्यादिपादतः ॥ ३०॥
श्रीमन्मुकुन्दचरणौ शरणं मेऽस्तु सर्वतः ।
श्रीकृष्णः शरणं मेऽस्तु बाल्ये बालस्वरूपधृक् ॥ ३१॥
गोविन्दश्शरणं मेऽस्तु तारुण्ये तरुणीप्रियः ।
केशवः शरणं मेऽस्तु वार्द्धक्ये वृद्धवन्दितः ॥ ३२॥
आपन्नं गोकुलाधीशः प्रपन्नं गिरिधारणः ।
विपन्नं नन्दनन्दो मां सदा व्रजपुरन्दरः ॥ ३३॥
दिने कालिन्दिनीकान्तः रात्रौ श्रीराधिकेश्वरः ।
सन्ध्यासु सन्धिवेलासु श्रीमच्चन्द्रावलीप्रियः ॥ ३४॥
अग्रतो मे जगन्नाथः पृष्ठतो बदरीपतिः ।
पार्श्वतो द्वारकानाथो रङ्गनाथस्तथा हरिः ॥ ३५॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकोनविंशोऽध्याये
पुरुषोत्तमकवचं सम्पूर्णम् ।
The kavacham to be recited before the gopAladivyasahasranAmastotram.
Proofread by Manish Gavkar