राजा इन्दरद्युम्नकृतं विष्णुस्तोत्रम्

राजा इन्दरद्युम्नकृतं विष्णुस्तोत्रम्

राजा विष्णुं प्रतुष्टाव साष्टाङ्गं प्रणिपत्य च । केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् ॥ ९४॥ पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम् । दामोदरं वासुदेवं श्रीहरिं कम्भरासुतम् ॥ ९५॥ गोपालबालं राधेशं श्रीशं रमेश्वरं प्रभुम् । अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥ ९६॥ मञ्जुलेशं पार्वतीशं प्रभेशं माणिकीपतिम् । लक्ष्मीनारायणं हंसाजयानाथं नमाम्यहम् ॥ ९७॥ शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम् । लोकनाथं जगन्नाथं श्रीनाथं प्रणमाम्यहम् ॥ ९८॥ अक्षरेश च मुक्तेश ललितेश नमोऽस्तु ते । अवतारेश देवेश व्यूहेश च नमोऽस्तु ते ॥ ९९॥ ईश्वरेश च मायेश दुर्गेश जाह्नवीपते । जीवेशाऽनन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते ॥ १००॥ वेदात्मकाय कान्ताय धर्मपुत्राय ते नमः । ब्रह्मव्रतधरायाऽत्रिगुणाय च नमोऽस्तु ते ॥ १०१॥ प्रकृतीशाय शान्ताय वैकुण्ठस्थाय ते नमः । नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः ॥ १०२॥ साधुवेषधरायादिकारणाय च ते नमः । सहस्रशिरसे वेद्यपुरुषाय च ते नमः ॥ १०३॥ असुराणां दमनार्थं धृतरूपाय ते नमः । हिरण्यगर्भरूपायाऽमृतधाम्ने च ते नमः ॥ १०४॥ सर्वगर्भाय कृष्णायाऽन्तरात्मने च ते नमः । स्रष्ट्रेऽवित्रे च संहर्त्रे कार्यरूपाय ते नमः ॥ १०५॥ सर्वदिक्पालरूपाय लोकपालात्मने नमः । अर्धनारीस्वरूपाय त्रिदेवाय च ते नमः ॥ १०६॥ अनन्ताऽऽनन्दनिधये ब्रह्मधाम्ने च ते नमः । कर्मफलप्रदात्रे ते चाऽन्तःस्थाय नमो नमः ॥ १०७॥ सौराष्ट्रकृतवासाय श्रीकृष्णाय परात्मने । कोटिगोपीकान्त तुभ्यं सुखदाय नमो नमः ॥ १०८॥ ब्राह्मतेजसे क्षत्राणां वीर्यरूपाय ते नमः । विशां सम्पत्स्वरूपाय शरण्याय च ते नमः ॥ १०९॥ पातिव्रत्यस्वरूपाय पत्नीवृषाय ते नमः । सदोर्ध्वरेतसे कृष्ण मोक्षदाय च ते नमः ॥ ११०॥ साधुषु सर्वदा स्थात्रे बालरूपाय ते नमः । नमो भक्तमनःकामपूरकाय नमो नमः ॥ १११॥ ज्ञानदाय तथेच्छासम्प्रदाय यत्नदाय च । क्रियादात्रे फलदात्रे भोक्त्रे भोग्याय ते नमः ॥ ११२॥ प्रकाशाय परेशाय जीवस्थाय च ते नमः । सर्वदेहिनिवासाय शक्तियोग्याय ते नमः ॥ ११३॥ अचिन्त्यगुणधाम्ने ते दिव्यदेहाय ते नमः । अपारैश्वर्यधात्रे ते दृश्यरूपाय ते नमः ॥ ११४॥ अदृश्यरूपरूपाय नित्यज्ञाय च ते नमः । सर्वतत्त्वस्वरूपाय मण्डपाय च ते नमः ॥ ११५॥ पञ्चाग्निकृतरूपाय व्रतस्थाय च ते नमः । पुण्यदाय महेशाय सर्वेशाय च ते नमः ॥ ११६॥ सर्वदुःखविनाशित्रे वह्निरूपाय ते नमः । नमोऽस्तु स्रुक्स्रुवाद्यात्मयज्ञपात्राय ते नमः ॥ ११७॥ दक्षिणापतये तुभ्यं चाशीर्वादाय ते नमः । तृप्तये शान्तिरूपाय रसरूपाय ते नमः ॥ ११८॥ सर्वेन्द्रियनिवासाय सत्यकामाय ते नमः । आदित्यादिस्वरूपाय वृषरूपाय ते नमः ॥ ११९॥ नमस्कारस्य पात्रायाऽर्पणपात्राय ते नमः । त्वत्प्रसादात् कृपासिन्धो यज्ञसिद्धिर्ममाऽभवत् ॥ १२०॥ करं गृहाण मे विष्णो यथा पत्नीकरं वरः । देहि मे चरणे वासं नान्यं वृणोमि केशव! ॥ १२१॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५६१-अध्यायान्तर्गतं राजा इन्दरद्युम्नकृतं विष्णुस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५६१/९४-१२१॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 561/94-121.. Proofread by PSA Easwaran
% Text title            : Raja Indaradyumnakritam Vishnu Stotram
% File name             : rAjAindaradyumnakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (rAjAindaradyumnakRitaM lakShmInArAyaNIyasaMhitAntargatam rAjA viShNuM pratuShTAva sAShTANgaM praNipatya cha)
% engtitle              : rAjAindaradyumnakRRitaM viShNustotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 561/94-121||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org