राजा उदयकृतं कृष्णनारायणस्तोत्रम्
अथ सर्वं क्षणाल्लीनं नृपस्त्वाश्चर्यमाप्तवान् ।
ततः क्षणान्तरे नैजोटजां ददर्श शोभनाम् ॥ ५२॥
स्वस्थो भूत्वा दिशो नत्वा तुष्टाव ध्यानसंस्थितः ।
ॐ नमः श्रीनिवासाय मूलप्रकृतियामिने ॥ ५३॥
अजिताय च देवाय महात्मने नमोऽस्तु ते ।
अनाश्रिताय शान्ताय निःस्पृहाय नमोऽस्तु ते ॥ ५४॥
नम आद्याय देवाय सर्वदेवमयाय च ।
आर्षायादिस्वरूपाय श्रीकृष्णाय च ते नमः ॥ ५५॥
अनन्तराय चैकाय सदा व्यक्ताय ते नमः ।
नमो गुप्ताय काशाय गुणेश्वराय ते नमः ॥ ५६॥
अतर्क्यायाऽप्रमेयाय चातुलाय च ते नमः ।
निश्चिन्ताय च पूर्वाय सनातनाय ते नमः ॥ ५७॥
पुराणाय नमस्तस्मै निर्गुणाय नमोऽस्तु ते ।
नमो जगत्प्रतिष्ठाय ब्रह्मनिष्ठाय ते नमः ॥ ५८॥
पद्मनाभाय योगाय गोविन्दाय नमो नमः ।
नमोऽस्तु साङ्ख्यवेद्याय विश्वेश्वराय ते नमः ॥ ५९॥
हरये शिवरक्षाय नारायणाय ते नमः ।
परात्मनेऽमितदात्रेऽमितक्रमाय ते नमः ॥ ६०॥
शार्ङ्गचक्रगदापद्मशालिने ते नमो नमः ।
महोरगाय सिंहाय नमोऽस्तु वेदवासिने ॥ ६१॥
महामत्स्याय कान्ताय कच्छपाय च ते नमः ।
वामनाय च दीर्घाय चतुर्भुजाय ते नमः ॥ ६२॥
सिद्धचारणगन्धर्वसंस्तुताय नमो नमः ।
अच्युताय सकलाय नागेन्द्रशयनाय च ॥ ६३॥
दुग्धवर्णाय कृष्णाय हेमाभाय नमो नमः ।
पीताम्बराय दैत्यादिनाशनाय च ते नमः ॥ ६४॥
अक्षरायाऽक्षरेशाय नाभिपद्माय ते नमः ।
चतुर्मुखाय देवाय पञ्चवक्त्राय ते नमः ॥ ६५॥
क्षीरवासाय यशसे कान्तये वरदाय च ।
सर्वेश्वराय कान्ताय कामिनीशाय ते नमः ॥ ६६॥
वरेण्याय विघ्नहर्त्रे भक्तिप्रियाय ते नमः ।
पद्मायतसुनेत्राय शुकनासाय शार्ङ्गिणे ॥ ६७॥
योगेश्वराय वृक्षाय शाखिने ते नमो नमः ।
देवायनाय मुनये साधवे ते नमो नमः ॥ ६८॥
मोहिनीरूपभासाय जीववासाय ते नमः ।
वाराहाय नृसिंहाय शरभाय च ते नमः ॥ ६९॥
कूटस्थं सर्वहेतुं च पुरुषं च पुरातनम् ।
मायाकान्तं चेशकान्तं सर्वकान्तं नमाम्यहम् ॥ ७०॥
क्षेत्रज्ञं कालमायेशं व्यूहेशं मुक्तजीवकम् ।
वासुदेवं सतीकान्तं कृष्णनारायणं प्रभुम् ॥ ७१॥
कम्भरानन्दनं कृष्णं गोपालकृष्णबालकम् ।
परधामनिवासं तं पुमुत्तमं नमाम्यहम् ॥ ७२॥
ब्रह्मर्षयो ब्रह्मरूपं यं वदन्ति सनातनम् ।
अक्षरेशं च मुक्तेशं प्रपद्ये शरणं हरिम् ॥ ७३॥
श्रीवत्साङ्कं श्वेतपद्मरेखं विगुणहारकम् ।
षोडशादिचिह्नशोभं प्रपद्ये शरणं पतिम् ॥ ७४॥
यत्र विश्वं यश्च विश्वे सर्वं यत्र प्रतिष्ठते ।
प्रभवं सर्वभूतानां दिव्यगुणं परेश्वरम् ॥ ७५॥
प्रपद्ये मुक्तसङ्गानां साधूनां परमां गतिम् ।
भगवन्तं चात्मवासं स्त्रीवासं पुष्करेक्षणम् ॥ ७६॥
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ।
अन्तकाले समागत्य प्रदर्श्यात्मानमेव यः ॥ ७७॥
नैजं धाम निजं भक्तं नयत्येव प्रभुः परः ।
तं नमामि परं देवं मोक्षदं पुरुषोत्तमम् ॥ ७८॥
पातालान्तं च सत्यादि सर्वं माति तु यत्र वै ।
महामायान्तकं सर्वं यस्मिन् माति जनार्दने ॥ ७९॥
धामानि मुक्तकोट्यश्च यस्मिन् मान्ति परेश्वरे ।
तं प्रपद्ये परं कृष्णं नारायणं श्रियः पतिम् ॥ ८०॥
न त्वां स्तोतुं तथा वेद्मि यथा त्वं वर्तसे प्रभो! ।
स्वरूपं न यथार्थं च वेद्मि वेद्मि तटस्थकम् ॥ ८१॥
त्वया यत् कृष्ण कृपया कृष्णनारायणात्मकम् ।
रूपं प्रदर्शितं मह्यं तपः फलं कृपाफलम् ॥ ८२॥
धाम प्रदर्शितं चापि तथा कुङ्कुमवापिका ।
अश्वपट्टसरश्चापि दर्शितं लोमशाश्रमम् ॥ ८३॥
सर्वं पुनः पुनर्नाथ द्रष्टुमिच्छामि सेवया ।
प्रसन्नतां समिच्छामि तथा मे वरदो भव ॥ ८४॥
इत्येवं संस्तुतोऽनादिश्रीमत्कृष्णनरायणः ।
सान्निध्यं चाजगाम द्राक् चक्रपद्मधरः प्रभुः ॥ ८५॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६०-अध्यायान्तर्गतं
राजा उदयकृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय ६०/५२-८५॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 60/52-85..
Proofread by PSA Easwaran