राज्ञा कृतं कृष्णनारायणस्तोत्रम्
सर्वे प्रसादयामासुरत्यर्थं त्वां च मां तदा ।
तुष्टुवुः परया प्रीत्या ज्ञात्वा वै परमेश्वरम् ॥ ८१॥
साधव ऊचुः ।
यत्र क्वापि भवेज्जन्म पश्चात्पुण्यप्रतापतः ।
भवच्छरणमापन्नाः पुत्राः स्मो भगवँस्तव ॥ ८२॥
अच्युतो वै पिता यस्य ते त्वच्युता भवन्ति वै ।
वयं चाऽच्युततां प्राप्ताः कृपैषा श्रीहरे तव ॥ ८३॥
सुपुत्रेषु च दिव्येषु कृपया त्वं समागतः ।
स्नेहपात्राणि संवीक्ष्य प्रत्यक्षः सा कृपाऽपरा ॥ ८४॥
अथाऽतोऽपि सदा सत्सु वासो यथा तनौ तथा ।
सतां मध्ये वस कृष्ण कृपेयं पारमार्थिकी ॥ ८५॥
यथा धाम्नि तथा सत्सु मण्डलेषु निवासनम् ।
सदा साधुस्वरूपेण करोतु परमां कृपाम् ॥ ८६॥
साध्व्य ऊचुः ।
मातर्लक्ष्मि महामातस्त्वां वयं शरणागताः ।
मोक्षार्थिन्यो ब्रह्मसाध्व्यो भवत्याः पुत्रिका वयम् ॥ ८७॥
मातृवात्सल्यमत्यन्तं सुतासु तु निसर्गजम् ।
तत्पुरस्कृत्य जननि ददासि दर्शनं हि नः ॥ ८८॥
अबलानां बलोपेतं भाग्यमद्य प्रवर्तते ।
दिव्यतां प्राप्य ते योगान्मुक्ततां याम एव ह ॥ ८९॥
करुणा तेऽप्यतुल्याऽस्ति यत्साध्वीषु विभावनम् ।
तत्रापि चातिकारुण्यं यदि वासं प्ररोचयेः ॥ ९०॥
प्रार्थनामुररीकृत्य यथेष्टं प्रकरोत्विह ।
अनादिश्रीकृष्णनारायणाज्ञयाऽक्षरेश्वरि ॥ ९१॥
राज्ञी प्रोवाच ।
धन्याहं मम पुत्र्यश्च पुत्रा राज्यं नृपस्तथा ।
प्रजा धन्या मम लक्ष्मि यदत्र दर्शनं तव ॥ ९२॥
कुरु वासं सदा चाऽत्र तव सर्वं भवत्यपि ।
दास्यहं सर्वदा तेऽस्मि वस लक्ष्मि कृपां कुरु ॥ ९३॥
संसारे लाभ एवाऽत्र प्राप्तः साध्वीसमागमः ।
भवत्या दर्शनं साक्षात् स एवानन्यलाभकः ॥ ९४॥
राजोवाच ।
कुलं राज्यं धनं वंशः सर्वं कृष्ण भवत्कृते ।
मयाऽर्पितं कृतं कृत्स्नं त्वदात्मकं त्वदर्थकम् ॥ ९५॥
कृपेयं दर्शनं साक्षात्तवात्र सत्समागमात् ।
प्राप्तव्यं सर्वमेवाद्य प्राप्तं चात्यन्तिकं फलम् ॥ ९६॥
सर्वदा वस मे गेहे कृपां कृत्वा परेश्वर ।
इत्युक्त्वा प्रणनामैव पपात पादयोर्नृपः ॥ ९७॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
२९-अध्यायान्तर्गतं राज्ञा तथा अन्यैः कृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। २९/८१-९७॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. 29/81-97..
Proofread by PSA Easwaran