रामकृष्णभाईरचितं श्रीस्वामिनारायणस्तुतिः

रामकृष्णभाईरचितं श्रीस्वामिनारायणस्तुतिः

सर्गस्थानलयादिकारणमहो कान्तिच्छटा भास्वरं भीतिव्रातहरं वरेण्यविभवं कारुण्यपाथोनिधिम् । पृथ्वीभारहरं प्रपन्नवरदं तापत्रयोन्मूलकं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्री स्वामिनारायणम् ॥ १॥ जीवेशाक्षरमुख्यतत्त्वनिचयादूर्ध्वे व्योमन मायासंसृतिबन्धानात् परतरे धान्यक्षरे संस्थितम् । दिव्ये पीठवरे निजैरनुदिनं मुक्तव्रजैः सेवितं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्री स्वामिनारायणम् ॥ २॥ ब्रह्माण्डाधिपतिं मुनीन्द्रविनुतं वन्दारुवृन्दार्चितं अष्टैश्वर्यविभूषितं वररुचं मुक्तावलीश अष्टाङ्गाहितयोगिसंस्तुतपदं योगीश्वरं मुक्तिदं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्री स्वामिनारायणम् ॥ ३॥ सम्प्रत्यौद्धवमार्गरक्षणपरं श्रीपञ्चदेवात्मजं भूमानन्दवचोऽमृतैः सकलभूकल्याणदं भूतिदम् । सत्सङ्गाश्रितवल्लभं प्रतिदिनं भक्तार्चिताङ्घ्रिद्वयं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्री स्वामिनारायणम् ॥ ४॥ संसारोत्थितसर्वभीतिशमनं सौभाग्यवारान्निधिं माङ्गल्याम्बुधिमन्वहं प्रणमतां सत्सङ्गिनां जीवनम् । ध्यातॄणां सुखहेतवे विदधतं नानाविधं चेष्टितं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्रीस्वामिनारायणम् ॥ ५॥ चेतः शान्तिकरं मनोमलहरं पापेभपञ्चाननं भक्तेष्टाभयदं कृपार्द्रहृदयं क्लेशाग्निसंवारकम् । आधिव्याधिहरं प्रशान्तललितं ज्ञानप्रकर्षप्रदं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्रीस्वामिनारायणम् ॥ ६॥ पद्मस्पर्धिकरं प्रसन्नवदनं पादावधूताम्बुजं दीनानुग्रहकातरं मधुमयं सद्भक्तसेवाप्रियं संसारार्णवपारदं परतरं कष्टार्त्यनिष्टापहं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्रीस्वामिनारायणम् ॥ ७॥ तमीशं भुवि सेविताङ्घ्रियुगलं सद्भक्तवृन्दैः सदा नौमीड्यं परमेष्ठिनं गुणनिधिं श्रीनीलकण्ठं प्रभुम् । श्रीलं कारणकारणं नरतनुं सौख्यप्रदं स्वामिनं वन्दे त्वां पुरुषोत्तमं सुखनिधिं श्रीस्वामिनारायणम् ॥ ८॥ इति रामकृष्णभाईरचितं श्रीस्वामिनारायणस्तुतिः समाप्ता ।
% Text title            : Ramakrishnabhairachitam Shri Svaminarayana Stuti
% File name             : rAmakRRiShNabhAIrachitaMshrIsvAminArAyaNastutiH.itx
% itxtitle              : shrIsvAminArAyaNastutiH (rAmakRiShNabhAIrachitam)
% engtitle              : rAmakRRiShNabhAIrachitaM shrIsvAminArAyaNastutiH
% Category              : vishhnu, svAminArAyaNa, krishna, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : rAmakRiShNabhAI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org